SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ - एतदेव स्पष्टयन्नाह तल्लक्खणयोगाओ उ चित्तवित्तीणिरोहओ चेव । तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥२२॥ एएसि पि य पायं बज्झाणायोगओ उ उचियम्मि । अणुठाणम्मि पवित्ती जायइ तह सुपरिसुद्ध त्ति ॥२३।। गुरुणा लिंगेहिं तओ, एऐसिं भूमिगं मुणेऊण । उवएसो दायव्वो जहोचियं ओसहाहरणा ॥२४॥ तल्लक्षणयोगादेव चित्तवृत्तिनिरोधतश्चैव । Lतथा कुशलप्रवृत्त्या मोक्षेण तु योजनादिति ॥२२॥ एतेषामपि च प्रायो बाह्याज्ञायोगत एवोचिते । अनुष्ठाने प्रवृत्ति-र्जायते तथा सुपरिशुद्धेति ॥२३।। गुरुणा लिङ्गैस्तत एतेषां भूमिकां ज्ञात्वा । 7 उपदेशो दातव्यो यथोचितमौषधोदाहरणात् ॥२४॥ भिन्नभिन्नप्रकारैर्योगलक्षणानि निर्दिष्टानि शास्त्रेषु । तानि सर्वाण्यापि लक्षणानिस 'मोक्षेण योजनाद् योगः' इति लक्षणे पर्यवस्यन्ति । अतश्चैतानि लक्षणानि यत्र सङ्घटन्ते । र तदनुष्ठानं योग उच्यते । अत्राऽपुनर्बन्धकादीनामनुष्ठानेषु "सर्वत्रोचितानुष्ठानं योगः" इत्येतल्लक्षणमुपपद्यते। एतेषां च जीवानां स्वस्वावस्थानुगुणश्चित्तवृत्तेनिरोधोऽपि भवत्येव । अतोः “योगश्चित्त2 वृत्तिनिरोधः' इत्येतल्लक्षणमपि सार्थकतां भजति । एवं चैते जीवास्तथाविधपरिणतिवशात् । कुशलानुष्ठानेष्वेव प्रवर्तन्ते । एवं चाऽत्र चित्तवृत्तिनिरोध-कुशलप्रवृत्त्यादिरूपेण योगलक्षणानांत का सङ्घटनादेतेषामनुष्ठानानि मोक्षेण योजकत्वाद् योगत्वेन निर्दिश्यत इति । किञ्च, अपुनर्बन्धकादीनामेतेषां जीवानां या तीव्रभावेन पापाकरणाद्यनुष्ठाने प्रवृत्तिर्जायते सा च प्रायशो बाह्याज्ञायोगात्-तीर्थकृद्वचनोपदेशादेव जायते न त्वनाभोगेनA अज्ञाततयेति । तथा तेषां चित्ते भगवन्तं प्रति दृढबहुमानं वर्ततेऽतस्तान्यनुष्ठानान्यत्यन्तं विशुद्धानि भवन्ति । ४७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy