________________
अतश्चोपरिनिर्दिष्टेलिङ्गैरेतादृशान् जीवानुपलक्ष्य तथा तेषां भूमिकामपि चाऽभिज्ञाय l यस्य यादृश उचितस्तादृश उपदेशो गुरुभिर्दातव्यः ।
यथा कस्यचिद् व्याधेः प्रमाणं कियदस्ति, ग्रीष्मशीतादिभ्यः कः कालः प्रवर्तते, H), व्याधितो जनः पुरुषोऽस्ति स्त्रीर्वा, तस्य प्रकृतिः कीदृशी ? इत्यादिकं सर्वमवबुध्यैव
- चिकित्सकस्तदनुरूपमौषधाधुपचारं करोति । अन्यथा परीक्षणं विनैव यद्यौषधादिकं दद्यात्तहि । - तद् विपरिणमेदपि । तथैव जीवानां बालबुधादिभूमिकां ज्ञात्वा तदनुरूप एवोपदेशो FO दातव्यः, येन तेषामुन्नतिः स्यात् । तथाहि
(१) अपुनर्बन्धकजीवानां तु लोकधर्मविषयक उपदेशो दातव्यः । यथा परपीडा या वर्जनीया, सत्यं वक्तव्यम्, गुरूपूजा देवपूजा अतिथिपूजा च कर्तव्या, दीनतपस्व्यादिभ्यो न a. देयमित्यादि ।
यथाऽरण्ये पथभ्रष्टः कश्चिद् मध्यवर्तिनी वर्तनीमनुसरन् मूलमार्ग प्राप्नोति तथैवाऽयं FO लोकधर्ममनुसरन् कालक्रमेण सम्यग्दर्शनादिरूपं मूलमार्गमवतरति ।
पढमस्स लोगधम्मे परपीडावज्जणाइ ओहेणं । गुरुदेवातिहिपूयाइ दीणदाणाइ अहिगिच्च ॥२५॥ एवं चिअ अवयारो जायइ मग्गम्मि हंदि एयस्स । रण्णे पहपब्भट्ठोऽवट्टाए वट्टमोयरइ ॥२६॥ rप्रथमस्य लोकधर्मे परपीडावर्जनाद्योघेन ।
गुरुदेवातिथिपूजादि दीनदानाद्यधिकृत्य ॥२५॥ एवमेवाऽवतारो जायते मार्गे हन्ततस्य ।।
अरण्ये पथभ्रष्टोऽवर्तन्या वर्तनीमवतरति ॥२६॥ । (२) सम्यग्दृष्टिजीवानां लोकोत्तरधर्मविषयकः परिशुद्धाज्ञानुसारेणाऽणुव्रताद्यधिकृत्योपदेशो देयः । यतः सोऽणुव्रतादिग्रहणरूपश्रावकधर्मस्य निकटवर्त्यस्ति, तत्रैव च तस्य पक्षपातोऽपि वर्तते । तथा शीघ्रमेव क्रियारूपेण तस्य परिणमनमपि भवति, 13 सम्यक् सूत्रानुसारेण स परिपालयत्यपि ।
Jain Education International
४८ For Private & Personal Use Only
www.jainelibrary.org