________________
यान्याधारीकृत्य जीवः सम्यग्दृष्टिर्नवेति ज्ञातुं शक्यते ।
अथ च चारित्रवतां लिङ्गानि विवृणोतिमग्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ तह य चारिती ॥ १५॥ मार्गानुसारी श्राद्धः प्रज्ञापनीयः क्रियापरश्चैव ।
[
(१) मार्गानुसारी - चारित्रमोहनीयकर्मणः क्षयोपशमात् तीर्थकृन्निर्दिष्टं देशविरतिरूपं सर्वविरतिरूपं वा चारित्रमार्गं सोऽनुसरेत् । एवं मार्गमनुसरतां तत्त्वप्राप्तिरवश्यंभावेन भवति ।
यथा कान्तारगतः कश्चिदन्धपुरुषो यदि कस्यचित् सत्पुरुषस्य योगं प्राप्नुयात् तर्हि स निश्चयेनैव स्वाभीप्सितं स्थलं प्राप्नोति । तथा संसारेऽस्मिन्नज्ञानमोहादिभावैरन्धत्वं प्राप्तानां भ्रमतामात्मनामपि चारित्रमार्गस्य योगेन निश्चयेनैव तत्त्वावाप्तिर्भवति ।
(२) श्राद्धः एवं च चारित्रमार्गानुसरणेन प्राप्तं तत्त्वं प्रति तस्य दृढा श्रद्धा प्रवर्तते । यतो मार्गानुसारित्वेन श्रद्धायाः प्रत्यनीकरूपाणां क्लेशानामतिशयेन ह्रासस्तस्य जायते ।
-
(३) प्रज्ञापनीयः - बोधस्य योग्यता यस्मिन् विद्यते स प्रज्ञापनीय इत्युच्यते । श्राद्ध एवैतादृशः प्रज्ञापनीयो भवति यतः स गुर्वाद्याप्तजनान् प्रति समर्पितो भवति । (४) क्रियापरः चारित्रवांश्च प्रज्ञापनीयः सन् सर्वस्वोचितक्रियासु सदैव तत्परो भवति । आलस्य - प्रमाद - विकथादिदोषान् सयत्नं सन्त्यज्य सदा सदनुष्ठानेषु प्रवृत्तो भवति ।
Jain Education International
-
(५) गुणरागी - एष चारित्रमार्गे गुणप्राप्तेर्गुणवृद्धेर्वा मार्गोऽस्ति । एतादृशेन च मार्गेण गच्छतां दृष्टिर्गुणरक्तैव भवति । गुणानामनुरागस्तस्य हृदये सततं प्रवहति । अत्र तत्र सर्वत्र स गुणानेव पश्यति ।
( ६ ) शक्यारम्भसङ्गतः
यस्मिन् कार्ये स्वशक्तिर्विद्यते तत्रैव कार्ये स
-
४५
For Private & Personal Use Only
www.jainelibrary.org