________________
ज्ञात्वा ततस्तद्विषय-तत्त्व-परिणति-विपाकदोषान् इति ॥६०/१॥ स्त्रीरागे तत्त्वं तासां चिन्तयेत् सम्यग्बुद्ध्या । कलमल-मांस-शोणित-पुरीष-कङ्कालप्रायमिति ॥६७।। रोगजरापरिणामं नरकादिविपाकसङ्गतमथवा । चलरागपरिणति जीवितनाशनविपाकदोषमिति ॥६८॥ अर्थे रागे पुनरर्जनादिदुःखशतसङ्कलं तत्त्वम् । गमनपरिणामयुक्तं कुगतिविपाकं च चिन्तयेत् ॥६९।। द्वेषे पुनर्जीवानां विभिन्नतामेव पुद्गलानां च । अनवस्थितां परिणति विपाकदोषं च परलोके ॥७०॥ चिन्तयेद् मोहे ओघन तावद्वस्तुनस्तत्त्वम् । उत्पाद-व्यय-ध्रौव्ययुक्तमनुभवयुक्त्या सम्यगिति ॥७१॥
रागो द्वेषो मोहश्चेत्येते त्रय आत्मदूषका दोषाः सन्ति । कर्मणामुदयेनोत्पन्ना एते १५) 7 दोषा आत्मपरिणामस्वरूपाः सन्ति । यथा स्फटिकरत्नं स्वभावतो निर्मलमेव भवति ।
किन्तु यदि तत्पुरतो रक्तश्यामादिवर्णः पदार्थः स्थाप्येत तदा तदपि तत्तद्वर्णस्वरूपमाधत्ते व १) तथा ह्यात्माऽसावपि स्वभावतो निर्मल: सन्नपि कर्मोदयाद् रागादिभावानापद्यते । र तत्र रागो नामाऽऽसक्तिः, अप्रीतिलक्षणो द्वेषः, मोहस्त्वज्ञानस्वरूपोऽस्ति । )
एतेभ्यश्च ‘को मामधिकं पीडयति ' इति विचिन्त्य तेषां स्यादिविषयं रोगजरादिपरिणामान्य EAM नरकादिविपाकांश्च चिन्तयेत् ।
(१) रागे सति चिन्तनम् - स्त्रीविषयके रागे उत्पन्ने सति जिनवचनगभितं 5 fol तत्त्वचिन्तनं कुर्याद् यद् "रुधिर-मांस-शोणित-पुरीषाद्यशुचिपूर्णमिदं शरीरमस्ति । बाह्यदृष्ट्या 21 रूपवद् दृश्यमानं सदपि तत्त्वदृष्टया तु तदशुचिपूर्ण क्षणभङ्गरमेवाऽस्ति । उक्तं च
बाह्यदृष्टेः सुधासार-घटिता भाति सुन्दरी ।
तत्त्वदृष्टेस्तु सा साक्षाद् विण्मूत्रपिठरोदरी ॥ ज्ञानसाराष्टके १९/४ रोगाकालवृद्धत्वादिकानि हि रागस्य परिणामानि सन्ति । आगामिनि च काले ।
MOHere
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org