SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नरकतिर्यगादिकुगतिगमनं तस्य कटुविपाकोऽस्ति" इति । अथवा "चञ्चलोऽयं रागः । अद्य यो रागस्य विषयस्तत्रैव परस्मिन् दिने द्वेषोऽप्युत्पद्यते, अतश्चलपरिणामोऽसौ रागः । जीवितनाशस्त्वस्य विपाक:- "विषं विरक्ता स्त्री" इति वचनात् । रागे निवृत्ते सति स्वकीयाशुभाचरणमाच्छादयितुं परस्याऽहितेऽपि जनः प्रवर्तते " इति । यद्यर्थविषयको राग उत्पद्येत तदा तस्याऽर्जने संरक्षणे उपभोगे च कानि कानि दुःखानि सोढव्यानि भवन्ति तच्चिन्तयेत् । " धनलुब्धः किं किं समाचरतीत्यत्रोक्तमस्ति" धावेइ रोहणं तर सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवं पि हु पुरिसो जो होइ धणलुद्धो ॥" - महता परिश्रमेणाऽप्यर्जितमिदं धनमपि तरलमेवाऽस्ति । पवनवन्निर्बन्धमेव धनम् । यथा काष्ठादुत्पन्नः कीटः काष्ठमेव नाशयति तथा मनुष्येणार्जितं धनं तमेव नाशयति । यतो धनार्जनादनु प्रतिदिनमनुक्षणं वा तस्य संरक्षणस्य संवर्धनस्य चिन्तैव चेतसि प्रवर्तते । न च स सुखमनुभवति कदाचित् । एवं च धनलोभादशुभध्यानापन्नचेताः स जनः परलोके दुर्गतिभाग् भवति इत्येषोऽस्ति कटुविपाको: धनरागस्य " इति । (२) द्वेषे सति चिन्तनम् - "अनुरागविषयोपरोधिनि प्रतिहतिद्वेषः " । द्वेषे सत्येवं चिन्तयेद यद्-यथाऽनुरागविषयभूता पदार्था मत्तो भिन्नास्तथैव द्वेष्येण कल्पिताः पदार्था अपि भिन्ना एव । यत्र भिन्नताया बोधो विद्यते तत्र ममत्वभावो नोत्तिष्ठते । ममत्वाभावे च यथा रागो नोद्भवति तथा द्वेषोऽपि नोद्भवत्येव एष स्वजन-धनधान्यादिशरीरपर्यन्तेषु पदार्थेषु जायमानो भेदस्य बोध एव द्वेषभावाद् रक्षति । एते च जीवाजीवादयः पदार्था यत्र द्वेषबुद्धिर्मम जायते सर्वेऽप्यनवस्थितपरिणामा अशाश्वता एव । ये चाऽशाश्वताः सन्ति तेषां पर्यायः स्थितिर्वा सततं परिवर्तते, तथा च सति यत्रैकदा वयं रागाकुला आस्म तत्र द्वेष उत्पद्यते यश्च द्वेष्य आसीत् तत्र राग उद्भवति । एवं च रागवद् द्वेषोऽपि चपलो यतः स बाह्यविषयानवलम्बते, बाह्याश्च विषया अनवस्थिताः सन्ति । द्वेषस्याऽनागतविपाका अप्यनिष्टा भवन्ति । अस्मिन् जन्मन्यत्यन्तं द्वेषबुद्धया जीवन्नात्मा भवान्तरेष्वपि तथाबुद्धिरेव जायते । सर्वेषामपि सोऽप्रियो जायते न कस्यापि Jain Education International ५९ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy