________________
प्रेम स सम्पादयितुमर्हति । तथा नरक - तिर्यगादिकुगतिभाजनमपि स भवति" इति । (३) मोहोद्भवे चिन्तनम् - "मोहोऽज्ञानस्वरूपोऽस्ति । सम्यग्बोधाभावे एव मोहस्योद्भवो भवति । कस्मिंश्चिदपि जीवेऽजीवे चा पदार्थे वयमस्माकं विचारानारोपयामः, तदनुरूपमेव च वस्तुनि मोहो जायते । सर्वेऽपि जीवाः स्वस्वदृष्ट्यैव पदार्थान् सम्भावयन्ति ' तदनुगुणमेव च तेषां तत्र भावो भवति । सर्वस्मिन्नपि वस्तुनि सर्वेषामपि भावः समानो न भवति । यद् मह्यं रोचते तत्परस्मै नाऽपि रोचेत । अतः पदार्थस्तु यथातथ एव विद्यते केवलमस्माकं दृष्टिकोणेन तद् रुचिकरमरुचिकरं वा सम्पद्यते । एवं च पदार्थ : सम्यगसम्यग्वा न भवति, स तूत्पाद - व्यय - ध्रौव्यस्य शाश्वतं नियममनुसरन् पुगलसमूहमात्रमेवाऽस्ति । पदार्थे सततं नवनवपर्यायाणामुत्पत्तिर्भवति, पूर्व - पूर्वतनपर्यायाणां विनाशो जायते तथा द्रव्यत्वेन सोऽवस्थितो वर्तते । पदार्थानामेतन्नैश्चयिकं सत्यं तत्त्वं वाऽस्ति । अस्य तत्त्वचिन्तनस्याऽभावे वयं पदार्थानां जायमानं भविष्यद्वा परिवर्तनं नाऽवगन्तुं शक्नुमः तथा च सति पदार्थानां वर्तमानमेव पर्यायमनुलक्ष्य तत्र सत्त्वासत्त्वस्याऽऽरोपणं कुर्मः - एषोऽस्ति मोहो नाम, एतदेव चाऽज्ञानमपि । एतत्तु वयं सर्वेऽपि नित्यमनुभवामः । अनुभवानन्तरमपि प्रवर्तनं नाम मोहोऽज्ञानं वा । अज्ञानमूलो मोहमूलो वाऽस्माकं क्लेशजातः । एवं चाऽज्ञानदशायां क्लेशमयं जीवनं यापयन्तोऽस्मिन् भवे भवान्तरे वा कटुविपाकानासादयन्तीत्यत्र नास्ति संशयः" इति ।
एवं यदाऽनुभवपूर्वकं तत्त्वचिन्तनमार्गमनुसृत्याऽज्ञानस्याऽऽवरणमपाक्रियते तदा मोहादस्माद् रक्षणं भवति ।
एवं च राग-द्वेष- मोहानधिकृत्य तद्विषय- परिणति - विपाकादीनां सम्यक्चिन्तनस्वरूपमात्मसम्प्रेक्षणं करणीयम् । एतेन च रागादिदोषाणां सम्यगवबोधो जायते, तेषां नाशे उद्यमोऽपि शक्यो भवति, तथा च मोक्षमार्गेऽपि प्रगतिः सुलभा भवति, इति । रागादिदोषाणां चिन्तनं करणीयमित्युक्तम् । अथ तत्करणे को विधि: ? तथा कृते च को लाभो जायते ? - इति विवृणोति
चितेज्जाऽऽणाए दढं पइरिक्के सम्ममुवउत्तो ||६० / २ || गुरुदेवयापणामं काउं पउमासणाइठाणेण । दंसमंसगाइ काए अगणेंतो तग्गयज्झप्पो ॥ ६१ ॥
Jain Education International
६०
For Private & Personal Use Only
www.jainelibrary.org