________________
वाचकानां प्रतिभावः
- "श्रीसीतारामाभ्यां नमः" अयि प्रियमहोदयाः महद्भ्यो भवद्भयः प्रीतिपूर्विका अनन्तनतयः ।।
भवद्भिः प्रेषिता नन्दनवनकल्पतरुनाम्न्याः सुरभारतीषाण्मासिकपत्रिकाया द्वादशी शाखा समासादिताऽस्ति । ।
तत्रस्थाः सर्वे विषयाः सकुतूहलं मयाऽवलोकिताः । सर्वे विषयाः संस्कृतभाषासंवर्धनप्रसारणप्रचारे निरताः संस्कृतानुरागिणां सर्वेषां सर्वासां च प्रमोदावहाः सन्ति ।
"नन्दनवनकल्पतरुः" लोके संस्कृतनन्दनवने कल्पतरुरिव दिने दिने संस्कृतलेखकानां कवीनां विविधविषयतज्ज्ञानां महानाश्रयदायको भूयादिति शुक्लपक्षशशिन इव दिने दिने प्रवर्धतामिति च भगवन्तं संप्रार्थ्य विरमे"
भवदीयः पर विद्वान् महाबलेश्वरशास्त्री
"तेजस्" नं. १२४/C 1st Main 5th Cross - कन्यकापरमेश्वरी देवस्थानद रस्ते
गिरिनगर बेङ्गळूर ५६००८५
Jain Education International
For Private Personal Use Only
www.jainelibrary.org