________________
गुरोरयोगयोगोऽत्यन्तविपाकदारुणो ज्ञेयः ।
योगगुणहीलनाद् नष्टनाशनाद् धर्मलाघवात् ||३७||
उपदेशानर्हजनेभ्यो दत्त उपदेशोऽनुपदेश एव, तथा योग्येभ्यश्चाऽप्ययोग्यरीत्याभूमिकाननुरूपेण दत्त उपदेशोऽप्यनुपदेश एव । एतादृशोपदेशेन च श्रोतृजनानामनिष्टापादनात् कर्मणां बन्धो भवति । योग्येभ्यो योग्यरीत्या दत्त उपदेश एवाऽऽज्ञाशुद्धत्वाद् योग: कथ्यते ।
एतादृशो विपरीतोपदेशदातुर्गुरोरप्युपदेशोऽत्यन्तं विपाकदारुणः प्रसजति । यतो वैपरीत्येनोपदेशदानाद् योगिनां गुणानां लोके हीलना भवति । उपदेशको गुरुर्हि योगित्वेन ख्यातः सन्नपि यद्येवमयोग्येभ्यो योग्येभ्यश्चाऽनुचिततयोपदेशो दद्यात् तर्हि स्वधर्माननुपालनात् लोके विडम्बना भवति । तथा ये संसाराभिनन्दिनो जीवाः तेभ्यो यदि धर्मोपदेशो दीयेत ' तर्हि ते स्वरुच्यभावादाधिक्येन धर्माद् विमुखा भवन्ति । एवं नष्टनाशनदोष उद्भवति । तथा धर्मस्य लाघवमपि भवति, इति ।
अथैतेऽधिकारिणो जीवा योग्यमुपदेशं समवाप्य भूमिकानुरूपं विकास साध्नुवन्ति । ततः परं तैः किं करणीयमिति ज्ञापयति
निययसहावालोयण जणवायावगम-जोगसुद्धीहिं । उचियत्तं णाऊणं निमित्तओ सइ पयट्टेज्जा ॥ ३९ ॥
1
निजस्वभावस्याऽऽलोचनम्, जनवादस्याऽवगमनम्, योगशुद्धिश्चेत्येतैस्त्रिभिरुपायैः स्वकीयमुचितत्वं - योग्यतां ज्ञात्वा तदनुरूपं शुभनिमित्तानवलम्ब्य प्रवृत्तिं कुर्यात् । जनः स्वकीयां मर्यादां शक्ति वा सम्यक् परीक्ष्य यदि पदमग्रे निदधाति तदा तेन पश्चात्पदेन भवितव्यं न भवति । अत एवैत उपाया अत्र दर्शिताः सन्ति । एकैकं पश्याम:
(१) निजस्वभावालोचनम् - निजस्वभावस्य प्रामाणिको भूत्वा स सम्यक् चिन्तनं कुर्यात् यत् कीदृशो मम स्वभाव: ? अग्रिमस्य कस्य गुणस्थानकस्य प्राप्त्यर्थमेषोऽनुकूलोऽस्ति ? अहं यद् गुणस्थानकं प्राप्तुं वाञ्छामि तस्याऽनुरूप एष न वा ? इति ।
Jain Education International
निजकस्वभावालोचन - ज्
- जनवादावगम-योगशुद्धिभिः
८१
For Private & Personal Use Only
www.jainelibrary.org