SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ - - (२) जनवादावगमः-स्वरीत्या निजस्वभावस्याऽऽलोचनानन्तरं मनुष्यो बुधजनानामभिप्रायं ज्ञातुमपि प्रयतते । यतः स्वोद्देशेन स्वयमेव कृतं स्वभावालोचनं कदाचिद् र 3वितथमपि स्यात् । अतो-जनानां मद्विषयकोऽभिप्रायः कीदृशः ? मयि योग्यताया किं 15 PM प्रमाणं ते निर्धारयन्ति ? किं च गुणस्थानकमधिकृत्य मम योग्यतां ते सम्भावयन्ति ?का इत्यादि स चिन्तयेत् ।। (३) योगशुद्धिः-मम मनो-वचः-काययोगाः कीदृशाः ? तेषां शुद्धिः कीदृशी? FO कस्य गुणस्थानकस्याऽङ्गीकरणे मया प्रयतितव्यमिति । अथाऽग्रिमगुणस्थानकस्य प्रतिपत्तिः कथं विधेया ?-इत्येतदाहएत्थ उवाओ च इमो सुहदव्वाइसमवायमासज्ज । पडिवज्जइ गुणठाणं सुगुरुसमीवम्मि विहिणा तु ॥४२॥ वंदणमाई उ विही निमित्तसुद्धी पहाणमो णेओ ।। सम्मं अवेक्खियव्वा एसा इहरा विही ण भवे ॥४३॥ | अनोपायश्चाऽयं शुभद्रव्यादिसमवायमासाद्य । Lप्रतिपद्यते गुणस्थानं सुगुरुसमीपे विधिना तु ॥४२।। वन्दनादिः पुनर्विधिनिमित्तशुद्धिः प्रधानं ज्ञेयः । 1 सम्यगपेक्षितव्यैषेतरथा विधिर्न भवेत् ॥४३॥ ] एवं च निर्दिष्टोपायैः सम्यक् स्वोचितत्वं विज्ञाय शुद्धद्रव्य-क्षेत्र-काल-भावमाश्रित्य सद्गुरुसमीपे विधिपूर्वकं नवगुणस्थानकमङ्गीकुर्यात्, अर्थाद् योऽपुनर्बन्धकः स सम्यक्त्वं गृह्णीयात्, सम्यक्त्वी च श्रावकस्य द्वादशव्रतग्रहणरूपं देशवरतिधर्म स्वीकुर्यात्, देश- 1 विरतिधरश्च पञ्चमहाव्रतात्मकं साधुधर्मं प्रतिपद्येतेति । अत्र विधौ सद्गुरुसमीपे विधिपूर्वकं चेत्येतद् द्वयं निर्दिष्टमस्ति । तत्र-यो । गुणाधिकोऽस्ति तत्समीपे एव व्रतादिकं ग्रहणीयम् । यतस्तादृशो गुणवत आत्मनश्चेतनाशक्ते व्रतग्राहकजने आधानं भवति येन च तस्मिन् शुभभावानां प्राबल्यं स्यात्, ततश्च तद्विकासोऽपि 2) शीघ्रः फलदायी च स्यात् । अतः 'सद्गुरुसमीपे' इत्युक्तम् । ५२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy