________________
तथा क्षेत्रशुद्धि-गुरुसत्कार - जिनपूजा - चैत्यवन्दन - गुरुवन्दनन-कायोत्सर्गादिपुरस्सरमेव व्रतग्रहणं विधेयम् । एषोऽपि विधिर्निमित्तशुद्धिपूर्वकमेव भवेत् । भाविन इष्टानिष्टसूचकानि निमित्तानीत्युच्यन्ते । यथा पुरुषाणां दक्षिणाङ्गस्पन्दनम्, स्त्रीणां वामाङ्गस्फुरणम्, मङ्गलवाद्य श्रवणम्, चित्तोत्साह : - इत्यादीनि शुभनिमित्तानि सन्ति । एतेषां शुद्धिरप्यनिवार्या । अन्यथाऽऽचीर्णो विधिर्विधिर्न भवति, अविधिरेव सः ।
नवगुणस्थानकप्रतिपत्त्यनन्तरं किं कर्तव्यम् ? इत्यत्राऽऽहउड्डुं अहिगगुणेहिं तुल्लगुणेहिं च णिच्च संवासो । तग्गुणठाणोचियकिरियपालणासइसमाउत्तो ॥४४॥
उत्तरगुणबहुमाणो सम्मं भवरूवचिंतणं चित्तं । अरईए अहिगयगुणे तहा तहा जत्तकरणं तु ॥ ४५ ॥ अकुसलकम्मोदयपुव्व-रूवमेसा जओ समक्खाया । सो पुण उवायसज्झो पाएण भयाइसु पसिद्धी ||४६ ||
Jain Education International
सरणं भए उवाओ रोगे किरिया विसम्मि मंतो त्ति । एए वि पावकम्मोवक्कमभेया उ तत्तेणं ॥४७॥
सरणं गुरू उ इत्थं किरिया उ तवो त्ति कम्मरोगम्मि । मंतो पुण सज्झाओ मोहविसविणासणी पडो ॥ ४८ ॥
एएसु जत्तकरणा तस्सोवक्कमणभावओ पायं । नो होइ पच्चवाओ अवि य गुणो एस परमत् ॥ ४९ ॥ 'ऊर्ध्वमधिकगुणैस्तुल्यगुणैश्च नित्यं संवासः । तद्गुणस्थानोचितक्रियापालनास्मृतिसमायुक्तः ॥ ४४॥ उत्तरगुणबहुमान: सम्यग् भवरूपचिन्तनं चित्रम् | अरतावधिगतगुणे तथा तथा यत्नकरणं तु ॥४५॥
अकुशलकर्मोदयपूर्वरूपमेषा यतः समाख्याता । स पुनरुपायसाध्यः प्रायेण भयादिषु प्रसिद्धः ||४६ ||
५३
For Private & Personal Use Only
www.jainelibrary.org