________________
शरणं भये उपायो रोगे क्रिया विषे मन्त्र इति । एतेऽपि पापकर्मोपक्रमभेदा एव तत्त्वेन ॥४७॥
शरणं गुरुरेवाऽत्र क्रिया तु तप इति कर्मरोगे ।
मन्त्रः पुनः स्वाध्यायो मोहविषविनाशनः प्रकटः ॥४८॥ एतेषु यत्नकरणात् तस्योपक्रमणभावतः प्रायः । न भवति प्रत्यपायोऽपि च गुण एव परमार्थः ॥४९॥
एवं चोपर्युपदिष्टकमेण विधिपूर्वकं सद्गुरुसमीपे च स्वयोग्यतामनुसृत्य नवगुणस्थानप्राप्तेरनन्तरं (१) ये स्वस्मादधिकगुणाः समानगुणा वा जनास्तैः सहौचित्येन वासः । र, करणीयः, तथा (२) तत्तत्स्वप्रतिपन्नगुणस्थानोचिता क्रिया परिपालनीया, अर्थात् 'अस्मिन् । ani गुणस्थाने व्यवस्थितेन भूत्वा मयेदं करणीयमस्ति' इति स्मृतिपूर्वकं तत्तत्कर्तव्यपालन AC उद्युक्तो भवेत्, (३) स्वाङ्गीकृतं यद् गुणस्थानं तत उत्तरगुणस्थाने हार्दो बहुमानभावो-20 । रागो विधेयः, तथा (४) संसारस्याऽनित्यत्वाशरणत्वादिनानाप्रकारकं चिन्तनं सम्यक् र
करणीयम् । (५) अथ यदि कस्यचन कर्मण उदयात् स्वप्रतिपन्नगुणेऽरतिरुत्पद्येत तर्हि . ) तीर्थकरादीनां भावशरणग्रहणादिना यत्नेन स्वगुणरक्षणं विधेयम् ।
'एषाऽरति विनोऽकुशलकर्मोदयस्य सङ्केतरूपाऽस्ति' इत्येतज्ज्ञानिभिः समाख्यातमा मस्ति । एवं सत्यप्येष कर्मोदयोऽपि भयरोगादिवदुपायसाध्योऽस्ति ।
यथा भयस्योत्पत्तौ कस्यचिद् दुर्गादिकस्य शरणं गृह्यते, रोगे सति चिकित्सा का A क्रियते तथा विषे मन्त्रादिकं प्रयुज्यते, एवं च भय-रोग-विषाणामुपद्रवोऽपाकर्तुं का
शक्यस्तथाऽरतावुत्पद्यमानायामपि तन्निबन्धनमोहनीयकर्मण उपक्रमं कर्तुं भावशरणाद्युपाया 16
आचरणीया भवन्ति । तथैव च पापकर्मणामुपक्रमो भवति तेन चाऽरतिरतिक्रान्ता भवति । 1411 अत्राऽरतौ सत्यां शरणं तु गुरुरेव । गुरूणां सान्निध्याद् हितवचनैश्च मोहोपशमो NCS
भवति । अपरश्चोपायः चिकित्सारूपोऽस्ति । सा च तपोरूपा । अरतिहि कर्मरोगोऽस्ति । म
विशिष्टतपश्चरणैस्तनिवारणं भवति स्वास्थ्यं च पूर्ववल्लभ्यते । अरतिः पुनर्मोहविषमस्ति । ) 2 तत्राऽमोघमन्त्रोऽस्ति स्वाध्यायः । वाचना-पृच्छना-परावर्तना-नुप्रेक्षा-धर्मकथात्मके स्वाध्याये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org