________________
कुलम् ? क्व च मम ? समानकुलयोः सम्बन्ध एव जगति प्रशस्यते । सिंही- शृगालयोः सम्बन्धस्त्वप्रशस्तो निन्दितश्चैव । अतो नैतत् कर्तुं योग्यम् ।" राजा तु परमार्थमजानानस्तमत्यन्तमाग्रहीत् । प्रान्ते च स्वदेहशपथेन तं शप्तवान् यद् "निर्विकल्पं ममाऽऽदेशः कर्तव्यः” इति । किंकर्तव्याकुलो मन्त्री तूष्णीमेव तदभ्युपगम्य गृहं गतवान् । बहुधा विचिन्त्याऽपि अलब्धमार्गोऽनन्यग िकतया कुलदेवतामाराद्धुं निर्णीतवान् ।
सायंकाले पुष्प-फल-कुङ्कुमादि सर्वं सामग्र्यं गृहीत्वा कुलदेवतासदनमगमत् स: । आडम्बरेण तत्पूजां विरचय्य दर्भमये संस्तरे देवीपादमूल एव सुप्त्वा तज्जपं करोति स्म । जपप्रभावेन देवताऽऽगता । असावपि तत्पादयोः प्रणतिं विधाय साञ्जलि स्थितः । तयाऽऽकारणप्रयोजने पृष्टे कथयामास यत् - " मम सुतं नीरोगं कुरु" । तया ज्ञानेन विज्ञाय कथितं यत् - " तन्नैव शक्यम् । रोगकृत् कर्म तेनाऽवश्यं भोक्तव्यमेव । " अनेन विचार्य कथितं यत् " तर्हि कञ्चिद् भाटकेनाऽऽनीयाऽत्रोपस्थापय यो राजकन्यां परिणीय मत्पुत्राय ददाति ।" देव्योक्तं " भवतु । तव भक्त्या प्रसन्नाऽहं करिष्यामि तवाऽभिमतम् ।" ततो ज्ञानाभोगेन विलोक्य कथितं "श्वः परश्वो वा पुराद् बहिः स्थानपालानां पार्श्वे शीतार्त्तः परिश्रान्तोऽग्निना तप्यमानश्च बालकस्त्वया प्रच्छन्नं गृहमानायितव्यः । पश्चाद् यथेप्सितं कुर्या: ।" विनयावनतेन मन्त्रिणा सर्वं तत् प्रतिपन्नम् । प्रणामाञ्जलिपुरस्सरं स देवीं स्तुतवान् । ततो देवी अन्तर्हिताऽसावपि गृहमागतः सन् हृष्टमानसः सर्वां विवाहयोग्यां सामग्रीं प्रगुणीकरोति स्म ।
तत एकं स्थानपालं पूर्वपरिचितमाहूय किञ्चिद् धनं दत्त्वाऽऽदिदेश यत् " सुरूपः कश्चिद् बालो यदा नगराद् बहिरागच्छेत् तदा तं प्रच्छन्नमत्राऽऽनये" ति । सोऽपि "यथादिष्टं करिष्ये" इति कथयित्वा गतः ।
-
इतो मङ्गलकलशो नित्यक्रमेण प्रातःकाले पुष्पाण्यानेतुं मालाकारगृहं गच्छति स्म । तदा देव्याऽऽकाशे स्थित्वोक्तं "एष दारको भाटकेन सुकन्यां परिणेष्यति, न सन्देहः" इति । अनेन तन्निशम्य तद्भावार्थमजानता चिन्तितं यत् पितरमाख्यायोपलप्स्ये ऽस्य भावमिति । किन्तु गृहं गतः स विस्मृतवान् तत् । अन्यदिनेऽपि देव्या तदेवोच्चरितम् । श्रुत्वा तत् अद्य तु पित्रे कथयितव्यमेवैतदिति निश्चित्य यावद् गच्छति तावद् देवीप्रभावेन महावायुनोन्नीतः सन् स आकाशमार्गेण चम्पान्तिकेऽटवीं
Jain Education International
-
९९
For Private & Personal Use Only
ရဲ 86 8F dးး သား
စား စား ခွဲစား ၊ ခွဲစိ
www.jainelibrary.org.