________________
श्रयेद् भाविको कोऽपि यो यं प्रमोदाद्,
भवेद् रोगशोकादिदुःखं न तस्य । तथा साऽऽप्नुयाद् वाञ्छितं, संस्तुवे तं,
तपागच्छसंरक्षकं माणिभद्रम्
॥५॥
विशुद्धात्मभावेन शत्रुञ्जयादि,
__व्रजन् यो हि मार्गे च कुर्चन्ननीकम् । विपद्याऽऽप नाकं स्तुवे भक्तितस्तं,
तपागच्छसंरक्षकं माणिभद्रम् ॥६॥
न दास्यं न जाड्यं न तस्याऽर्थकायँ,
न चाऽनिष्टसंयोगजन्यादिदुःखम् । स्मरेद् यो हि विश्रब्धचित्तेन नित्यं,
तपागच्छसंरक्षकं माणिभद्रम्
॥७॥
धनाद्यर्जितुं देशदेशान्तरेषु,
जना बम्भ्रमन्तीति चित्रं महन्मे । पुरस्थं सुरटुं न पश्यन्ति साक्षात्
तपागच्छसंरक्षकं माणिभद्रम्
॥८॥
श्रीदेवसूरिशिष्येण, हेमचन्द्रेण सूरिणा ।
अष्टकं यक्षराजस्य, रचितं श्रेयसेऽस्तु वः ॥९॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org