________________
तपागच्छाधिष्ठायकश्रीमाणिभद्यक्षराजस्तुत्यष्टकमा ।।
आचार्यविजयहेमचन्द्रसूरिः 'भुजङ्गप्रयातम्' यदीयप्रभावान्नृणां भक्तिभाजां,
___ फलन्ति ध्रुवं सर्वहृत्कामितानि । सदा तं स्तुवे यक्षराजं सुभक्त्या,
तपागच्छसंरक्षकं माणिभद्रम् ॥१॥
मुधा भ्राम्यथेतस्ततः किं मनुष्याः !?,
. निजेष्टार्थसंसाधनार्थं पृथिव्याम् । श्रयध्वं लसद्भावभक्त्या श्रयध्वं,
तपागच्छसंरक्षकं माणिभद्रम्
॥२॥
अवाप्येव कार्याण्यशक्यानि यस्य,
सहायं स्म सूरीश्वराः साधयन्ति । स्तवीमः सदा तं प्रभावासमानं,
तपागच्छसंरक्षकं माणिभद्रम्
રો
प्रभामण्डलैर्मण्डितं खण्डिताघं,
यशःपुञ्जशुभ्रीकृताऽऽशाकदम्बम् । स्तुवेऽनन्यसद्वृत्तविरमापितज्ञ, .
तपागच्छसंरक्षकं माणिभद्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org