________________
शकलब्धिनिधान पीजोमरवाव्याकमा
..
.
રો
જી.
आचार्यविजयहेमचन्द्रसूरिः
(ललित-वृत्तम्) महिमशालिनं विश्वतारकं, गुणगणालयं गीतगौरवम् । सकललब्धिभूद्योगिनं स्तुवे, गणधरोत्तमं गौतमप्रभुम्
શ चरमतीर्थकृत्पट्टभास्करो, मुनिततीडितः कामितप्रदः । सुरवरैर्नुतस्तेजसां निधि-विजयतेतरां गौतमेश्वरः चरितमद्भुतं ते दयानिधे ! जडमतिः कथं स्तोतुमुत्सहे ? । तव कराम्बुजाद् दीक्षिताः समे, मुनिवरा ययुर्मुक्तिमन्दिरम् રો भविकतायिनं मुक्तिदायिनं, कुमतनाशिनं तत्त्वपायिनम् । पतितपावनं भाविराजितं, प्रणिदधेऽन्वहं गौतमेश्वरम् गणभूदग्रणीः श्रेयसां पदं, हितकरी नृणां पापनाशकः । विमलदर्शनः कर्मजित्वरो, विजयतेतरां गौतमेश्वरः
કો नमनतस्त्वयि श्रीगणाधिप !, सकलकल्मषं नश्यति ध्रुवम् ! पवितनाम ते यत्र राजते, भवति तत्र नो विजकल्पना
Rોદ્દો गिरिवरे गतोऽष्टापदे भवान्, भगवतोऽचितुं स्वीयशक्तितः । अतुलसारवन् ! नाथ ! ते गुणान्, गणयितुं क्षितौ केन पार्यते ? ॥७॥ तव पदाम्बुजे वन्दना सदा, भवतु मे प्रभो ! योगिसत्तम ! तव प्रभावतो मंगलावलिमम दिने दिने देव ! जायताम्
૮ अष्टकं गौतमेशस्य, सर्वसिद्धिप्रदायकम् । रचितं हेमचन्द्रेण, गुरुदेवांहिसेविना ॥ विज्ञप्त्या निजशिष्यस्य प्रद्युम्नाख्यमुनेर्मया । पारेखचीमनभ्रातुः पाठाय लिखिता स्तुतिः ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org