________________
स
आस्वादः
LAT
CO
दान-प्रदान-सम्प्रदानानि || शास्त्री व्रजलालभाई वी. उपाध्याय
जानकी अपार्टमेन्ट, पहेले माळे, लाला मेतानी शेरी, जामनगर-३६१००१ :
दानप्रदानसम्प्रदानानि शरीरान्तःकरणात्मनां शुभंकराणि । सचेतनप्राणिशरीरस्वस्थतादायकं (प्रापकं) दानम्-अनुकम्पा । सचेतनप्राण्यन्तःकरणप्रसन्नतादायकं प्रकृष्टं दान-प्रदानम्-जीवनोपकारि । अथच सचेतनस्य प्राणिनो जीवस्य स्वकीयान्तरधनदर्शनोपयोगि देवगुरुशास्त्रदर्शितदिशा प्रवचनप्रभावनाप्रभावकं यत्प्रदानं तत् तु सम्यक्प्रदानम्अतः सम्प्रदानम् ; आर्यपुरुषाणामयमेव महोपकारः
देहाच्छादनस्थानभोजनादिविकलानां विकलांगानां बुभुक्षापिपासापरिपीडितानां प्राणिनां च तत्तत्कष्टनिवारणसद्भावनोपेतं-शरीरमन्दिरविराजितसुभगात्मदेवसंप्रीणनं प्रीत्युत्पादकं यथाकालं वस्तुद्रव्यप्रदानं दानम्-अनुकम्पापदवाच्यम् ।
तथैव भूमिकोचित-सात्विकजनसत्त्वसंरक्षणैकभाव-सद्भावकामनापूर्वकं समुचितं 25 प्रभुकृपाप्राप्तसम्पद्वितरणं प्रदानम्-प्रकृष्टदानम् ।।
अथ च सर्वातिगं चेतनातन्त्रसमुद्धरणदक्षमात्मैश्वर्यबलवीर्यशक्तितेजःप्रदं परमात्मांस शीभूतजीवसत्ता-चैतन्यात्मकस्वकीयान्तरमूलधनदर्शनपुरःसरं यद् दानं तत्तु सम्प्रदानम् ।
७४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org