________________
-
मायामामामामासाकामामामामामामालामाल
>
प्रास्ताविकम् अवसरोऽयं जागृते:
अतिवृष्टिः, अनावृष्टिः, भूकम्पः, निर्पूणहत्याः, अनाचार:, विस्फोटाः, अपहरणानि, आत्मघात...... अहहह.... ! किं किं न घटतेऽद्य ? नित्यक्रम एवैष जात इति प्रतिभाति । प्रकृतेः कोपरय, आसुरीशक्तेर्बलस्य चैव प्रभावः सर्वत्र दृश्यतेऽनुभूयते च । सर्वमेतद् दृष्ट्वाऽनुभूय च हृदयसहस्रेभ्य आर्तनाद उत्तिष्ठते, उत्थाय च पुनस्तत्रैव शाम्यति । परिस्थितीनामालोचनं सर्वेऽपि कुर्वन्ति, न किन्त्वन्वेषणं गवेषणं वा क्रियते केनाऽपि यत् 'किमर्थमेवं प्रवर्तते घटते वा ?' न कारणं विना कार्यं भवति कदाचिदपि ।
आसुरीशक्तेर्बलवत्तायां हि आध्यात्मिकशक्तेहास: कारणम् । आसुरीशक्तिरियं छिद्रान्वेषिण्यस्ति ।। यदा कदापि चाऽऽध्यात्मिकी शक्तिर्मन्दत्वमुपयाति तदा सा तत्राऽऽधिपत्यं स्थापयति । पश्चाच्च बलादपि तां निवारयितुं न शक्यते । एतादृश्या मलिनायाः शक्ते राध्यात्मिकता ह्येक एवोपायोऽस्ति । यदि कोऽप्यत्रैवं विचारयेद् यद् वयं बलेनैनां शक्तिं वशीकरिष्यामस्तर्हि स तु भ्रम एव । नित्यमेव वयं पश्यामो यद् युद्धेन वा शस्त्रबलेनाऽपि वा सा न वशंगता प्रत्युताऽधिकतया विकृतिं गता प्रबलेन वेगेन च साऽऽक्रामति । अर्थस्य प्राधान्येन भौतिकताया विकृत्या चाऽऽमत्रितैषा विडम्बना ।
नाऽयं भारतदेशस्य मार्गः । किन्तु दुर्भाग्यमेतद् यदर्थ एवाऽद्य देशस्य समृद्धेर्मानदण्डः परिगण्यते ।। भारतवर्षस्याऽऽध्यात्मिक मूल्यानि तु विस्मृतप्रायाणि नष्टप्रायाणि वा जातानि । धनेनैवाऽयं देशः समृद्धो भविष्यति, राष्ट्रस्य चोद्धारोऽपि धनेनैव भविष्यतीति भ्रमो दृढमूलो जातोऽरित । तस्य पुष्ट्यर्थं च यः कोऽपि मार्गोऽनुसरणीयः स्यात्-हिंसाया असत्यस्याऽनाचारस्य-सोडनुनियत एव । आस्तामन्येषामनिष्टानां वार्ता किन्तु हिंसायाः परिमाणं तु कल्पनानीतं वर्धितमस्ति । तच्छ्रवणेनाऽपि हृदयं कम्पते । महावीरबुद्ध-गान्धिमहोदयादीनां स्मृतिदिने भाषणकर्तारो नेतारोऽहिंसाया आध्यात्मिकतायाश्च महिमानमुच्चैर्गायन्ति ।। त एव च मञ्चादधोऽवतीर्य सूनागृहाणां स्थापनार्थमनुमतिपत्रोपरि स्वहस्ताक्षराण्यपि निःशौं कुर्वन्ति ।। कीदृशी विडम्बनैषा ? किं रूपं धाष्टर्यमिदम् ?
Jain Education International
For Private 83 ersanal Use Only
www.jainelibrary.org