SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ स्त्रि > > इदानी हैदराबादनगरे ‘अलकबीर' नाम्नः सूनागृहस्य स्थापनायै अनुमत्यर्थं सततं प्रयासः क्रियते । दुःखकरं त्वेतद् यदव सर्वकारोऽपि सम्मीलितोऽस्ति । प्रतिवर्षं तत्र द्वादशलक्षमितानां पशूनां निघूणहत्या भविष्यति । किमर्थम् ? किं तत्र प्रयोजनम् ? केवलं परदेशीयानां स्वादलिप्सापोषणार्थम्, तथा च देशसमृद्धिव्याजेन धनसम्पादनार्थम् । एकरयाऽस्य सूनागृहस्य कृतेऽनुमतिप्रदानस्याऽनुपदमेवाऽन्यान्यप्यनेकानि तादृशानि सूनागृहाणि स्थापितानि भविष्यन्ति । तत्र जनिष्यमाणाया हिंसायाः परिमाणस्य कल्पनामात्रमपि व्यथयति हृदयम् । आपढ्य आमत्रणरूपैषा हिंसा । भूकम्प-जलप्रलयातङ्कवादादिताण्डवकाले मृत्युमुखदर्शनेन भीता आक्रन्दन्तश्च वयमिच्छामो यत् कश्चिन्मम रवः शुणुयात्, ममाऽश्रूणि प्रमूज्यात्, सान्त्वनं साहाय्यं वा कश्चित् कुर्यात्, मम रक्षणं स्यात् ! किमर्थम् ? जीवनमस्माकं प्रियमस्ति, मृत्युः पीडा दुःखं वाप्रियाणि सन्ति, अतः । एवं च स्वकीयापत्तिकाले दीनतां प्राप्तानामस्माकं हृदये, यदा निर्दोषाणां कोटीनां पशूनां नृशंसः संहारः क्रियते तदा तेषां कुणमाक्रन्दनं चित्कारं वा श्रुत्वा कुणोत्पद्यते खलु ? तेषामार्तस्वरं श्रुत्वा किमस्माकमक्षिणी आट्टै भवतः ? संवेदनाबधिरा जाताः स्मो वयम् । एतादृश्यवसरेऽप्यक्षिनिमीलनं कुर्महे । निर्दोषाणां पशु-पक्षिणां हिंसा, वृक्षादीनां छेदनं, असत्याचरणमित्यादि सर्वमपि प्रकृतिविरुद्ध कार्यमस्ति । एष प्रकृतिं प्रत्यस्माभिर्विहितोऽपराधोऽस्ति । अस्य परिणाममपि भूकम्पातिवृष्ट्यादिप्रकृतिकोपपेणैव भोक्तव्यं भवत्यस्माभिः । आध्यात्मिक शक्तेहसिस्य निदानमप्येतदेव । क्दा वयमस्मान्मार्गात् प्रतिनिवाम: ? कदा च जागृता भविष्यामः ? एतावताऽपि यदि | बोधो नैव स्यात् तर्हि त्वीश्वर एव शरणम् । तं प्रार्थयेम यत् ‘सर्वेभ्यः स सन्मतिं दद्यात्' इति शम् ।। - कीर्तित्रयी भाद्रपदकूष्णैकादशी वि.सं. २०६० वलसाडनगम् ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy