________________
२५३. पठित्वा पठित्वा शठोऽभवत् ।
२५४. पततोऽप्युदरम् उत्तानम् ।
२५५. पतितं चाटकैरं प्रासैः (= आयुधविशेषैः ) प्रहरन्ति । २५६. पतिपल्योः कलहे शिशुचेष्टितं निर्बाधम् ।
२५७. पतिपत्न्योः परस्परेण प्रतारणा
२५८.
२५९. परनिन्दा पायसं पिशुनानाम् ।
२६०. परमेश्वराय पर्युषितं नैवेद्यम् ।
२६१. परशुविद्या पामरहृद्या ।
२६२. २६३. परुषवचनानां प्रतिपदं प्रतिपक्षाः ।
पत्नी करेणुः पतिः परमाणुः ।
२६४. परवार्तैव वाचाटानां विश्वम् ।
२६५. पर्पटीं कर्तुमजानन् पौरोगवपदवीं काङ्क्षते ।
२६७. पर्पटीमुत्पाट्य पर्वतमुत्पाटय ।
Jain Education International
परिणयात् प्राक् प्रेष्ठः, परिणयानन्तरं पापिष्ठः ।
२६६. पर्पटीभक्षणेनैव भग्नदन्तः कथं भक्षयतु लड्डुकम् ?
२६८. पर्वताय प्रस्तरदानम् !
२६९. पलायितायां पिशाचिकायाम् उच्चाटनमन्त्रे मुसलामुसलि ।
२७१. पाताले कीदृशी पीयूषवार्ता ?
२७२.
२७०. पातञ्जलं योगमभ्यस्य परमोग्रं शापं ददाति ।
पातुं जलं नाऽस्ति, 'पायसं पित्तलपात्रे किम्' इति जगर्ज ।
For Private Personal Use Only
www.jainelibrary.org