SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 5 अपूर्वः भो ! रथ्यावसाने वसन् मणिकान्तः किं भवतः स्वजनो वा ? अद्वितीयः आम् स मे स्वजन एव, किन्तु दूरस्वजनः । अपूर्वः कथं दूरस्वजनः ? एक अद्वितीयः पश्यतु, गृहे वयं द्वादश भ्रातरः स्मः, तेषु ज्येष्ठोऽहम्, अयं च कनिष्ठः । ।।। चञ्चला (प्रातिवेश्मिी ) वयमागामिनि सप्ताहे नूनगृहे tale उषितुं गमिष्यामः । तत्र चाऽस्माकमत्यन्तं शोभनाः प्रतिवेशिनः प्राप्स्यन्ते । मङ्गला अस्माकमपि शोभनाः प्रतिवेशिनः प्राप्स्यन्त र इत्याशासे । चञ्चला किं भवन्तोऽपि गृहपरिवर्तनं करिष्यन्ति ? मङ्गला नैवम् । वयं ह्यत्रैव वत्स्यामः, किन्तु भवतः स्थानेऽवश्यं केचिदागमिष्यन्त्येव खलु ? .PAN रमा (पति) भवतः शिरसि खलितिः प्रारब्धाऽस्ति, शीघ्रं चिकित्सां कारयतु । रमणः विचारशीलानां चिन्तकानां च केशा अल्पीयस्येव न वयसि क्षरन्ति । रमा एतादृशीं तर्कविहीनामुक्ति नाऽहं विश्वसिमि । रमणः ममाऽप्यत्र विश्वासो नैवाऽऽसीत् । परन्तु तव सुन्दरान् , मृदूनायतांश्च कुन्तलान् दृष्ट्वा प्रत्ययो जातः । ६VLE ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy