________________
वक्तुं च न पारयेत् ।
अनेन त्रैलोक्यसुन्दरी चित्ते सुदुःखिता सती चिन्तयति - "दुर्विषह्यं कलङ्कमेतन्मम दैवदोषादुपस्थितम् - किमत्र कर्तव्यम् ? जीवितं त्यजामि ? अनशनं वा करोमि ? * नैव नैव । विवेकिनां नैतादृशं दुष्कर्म शोभते । यादृशी तादृशी वा परिस्थितिः । स्वकर्मणैवोपस्थिता सती विवेकेन धैर्येण च सम्मुखीकृत्य पारंगमनीया । तर्हि किं करवाण्यहम् ? आम्- स्मरामि तद्रात्रौ प्रियेण मोदकादनानन्तरं भणितं यत् - उत्तमा इमे मोदकाः किन्तु उज्जयिनीनीरयुता यदि स्यु-रित्यादि । कदाचित् स उज्जयिन्यां भवेत् । मम ज्ञापनार्थमेवैतादृशं गदितं स्यात् तेन । मया स्वयमेव तत्र गत्वा तच्छुद्धिः कर्तव्या।"
अतः सा मातरं- "एकदा पितृदर्शनं कारये" ति याचते स्म । किन्तु * मात्राऽवज्ञयोपेक्षितं तत् । साऽपि तदपमाननं सहमाना समतया वर्तते स्म । अथाऽन्यदा
स्वपितृतुल्यः शान्तमूर्तिर्गुणालयः सिंहनामा सामन्तराजस्ततो गच्छन् तया दृष्टः । सा तमाहूय विज्ञप्तवती यत् "कृपया केवलमेकवारं पितृदर्शनं कारयतु । भवान् हि मम * तातभूतः । पित्रे ममैकं वचनं श्रावयितुमवसरं कल्पयतु । ततोऽहं तूर्णमेव निर्गमिष्ये।" *
सोऽपि तदुक्तमूरीकृत्य राजानं गत्वा विज्ञपयति स्म यत् - "प्रभो ! भवतः पुत्री * केवलमेकवारमेव भवद्दर्शनं कर्तुं भवते एकं वचनं च श्रावयितुमिच्छति । कृपया तस्यै
वराक्यै एकमवसरं कल्प्यताम् । साऽन्यत् किमपि नेच्छति ।" एतच्छ्रुत्वा वल्लभाया दुहितुः स्मरन् राजाऽत्यन्तं करुणार्द्रहृदयो जातः । द्रुतमेव च प्रतिहारद्वारा तामाहूय पृष्टवान् - "वद पुत्रि ! किमिच्छसि त्वम् ?" तदा तयोक्तं - "तात ! कृपया मे कुमारवेषं प्रदेहि विश्वस्तभटांश्च कांश्चिदर्पय मत्साहाय्यार्थम् ।"
श्रुत्वैतद् विस्मितो राजा सिंहं पृच्छति स्म- "भोः ! किमर्थमेषा कुमारवेषं भटांश्च याचते ?" सिंहेनोक्तं - "प्रभो ! राजकुलीयानां परम्परैषा यद् - यदा किञ्चिद् गुरुकार्यमापतति तदा राजकन्या राज्ञी वा पुरुषवेषेण तस्य कार्यस्य निर्वाहं करोति पारं च गच्छति । एषाऽपि कस्यचित् कार्यस्य निर्वाहार्थं भवन्तं कुमारवेषं याचते । कृपया *:
तत्साहाय्यार्थं भटान् कुमारवेषं च तस्यै अर्पयतु भवान् ।" राज्ञा किञ्चिद् विचिन्त्य तत् । र स्वीकृतम् । उक्तं च - "भोः सिंह ! तस्या वचनानुसारमेषोऽहं तस्यै सर्वामपि सामग्री
१०५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org