________________
राजपुत्र इव, यन्त्रबद्धमदमत्तमतङ्गज इव, द्यूतपराजितमहाद्यूतकार इव, विद्याभ्रष्टविद्याधर इव, परिक्षीणायुर्देवेन्द्र इव शोकाकुलः परिलक्ष्यते ? किं केनाऽपि मुषितो वा ? राज्ञाऽपमानितो वा ? महाजनो वा पराङ्मुखः ? निधानं वाऽङ्गारे पर्यस्तम् ? बालिकया * वा कयाऽपि चित्तं चोरितं भवतः ? यदि नाऽनाख्येयं तर्हि कथ्यताम् ।
भोः ! तवाऽप्यनाख्येयं किञ्चिदस्ति वा मम ? तथा नाऽन्यत् किञ्चित् दुःखमपि विद्यते मम । केवलमेकैव चिन्ता चित्तं पीडयति यत् - क एतस्य वैभवस्य भोक्ता
भविता ? तथा को नौ वार्धक्ये पालयिता ? इति । अनयैव चिन्तया चिन्तितोऽहं । * नाऽन्यत् किञ्चिदपि चिन्तयितुं पारये-इति श्रेष्ठिना कथितम् ।।
एतच्छ्रुत्वा तयोदितं यत् - स्वामिन् ! यद्यप्यावां पुण्यशालिनौ तथाऽपि कस्यचित् पुरा कृतस्य पापस्यैतत् फलं येनाऽऽवयोरपत्यसुखं नाऽस्ति । अतस्तस्य पापस्य शुद्ध्यर्थं नौ जिनोदितधर्माराधनं, जिनेश्वराणां पूजादिविधानं, गुरुभक्तिकरणं तथा सार्मिकवात्सल्यं, दीनानाथादिभ्यो दानं, प्रशस्तपुस्तकलेखनमित्यादि-शुभकार्येषु स्वीयधनमुपयोयुज्यावहे। एवंकरणेन पापशुद्धिस्तावद् भविष्यत्येव । ततो धर्मप्रभावेन यदि सुतो भावी तदा शोभनम् । अन्यथाऽपि पुण्यप्राग्भारस्तु वर्धिष्यत्येवेति न काऽपि हानिः ।
निशम्य स्वभार्यायाः सुवचांसि श्रेष्ठी ह्यत्यन्तं प्रसन्नो जातः । स तदुक्तं सर्वमपि विशेषेण कर्तुमारब्धः । विशेषतो जिनपूजार्थं स मालाकारान्तिकं गत्वा तस्मै च प्रभूतं धनं दत्त्वा प्रत्यहं भूयांसि सुगन्धीनि सुन्दराणि च पुष्पाण्यवचेतुं कथयति स्म । तेनाऽपि * प्रतिपन्नम् । ततः प्रत्यहं प्रातःसमये स पुष्पभाजनं गृहीत्वाऽऽरामं गत्वा मालाकारेणोच्चितानि मनोहराणि पुष्पाण्यानयति स्म । स्वकीये गृहजिनालये चाऽतीव भक्त्या जिनेश्वराणां पूजां करोति स्म । तदनु यथाविधि चैत्यवन्दनादि करोति स्म । ततो निवृत्तो गुरुभगवदन्तिकं गत्वा गुरुवन्दनं करोति स्म प्रत्याख्यानं च गृह्णाति स्म । ततो धर्मकथां श्रुत्वा गृहं गत्वा काले सुपात्रदानं दीनादीनामनुकम्पनं कृत्वा पश्चादेव भोजनं करोति स्म। वाणिज्यव्यवहारादिकमपि नीतियुक्तं करोति स्म । एवं यद् यच्छोभनं सुकृतं च, तत् सर्वं प्रसन्नमनसा करोति स्म । एवं करणेन तस्य पापकर्म विगलितम् । पुण्यपुञ्जः स्फूर्तिमगच्छत्, , तेन च तुष्टा शासनदेवता 'पुत्रस्ते भविष्यती'ति वरं ददाति स्म ।
९६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org