SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जयसिंहमृत्योः पश्चादनेन कुमारपालशासने छन्दोऽनुशासनं, काव्यानुशासनं, द्वयाश्रयकाव्यं, त्रिषष्टिशलाकापुरुषचरितं योगशास्त्रं च ग्रन्था विरचिताः । ग्रहाऽऽत्मनेत्रेश १२२९संवदीहलीलाऽस्य समाप्ता । अतश्छन्दोऽनुशासनरचनाकालः सिद्धिग्रहरुद्रान्निधिनेत्रात्मभूमध्ये ११९८ - १२२९ विक्रमाब्देषु सम्भवति । छन्दोऽनुशासनमेकः सूत्रग्रन्थोऽस्ति । अत्र हेमचन्द्रसूरिणा संस्कृत - प्राकृतापभ्रंशभाषाच्छन्दांसि निरूपितानि । मूलग्रन्थः संस्कृतभाषायामस्ति, यस्मिन् स्वोपज्ञवृत्तिरपि संस्कृते हेमचन्द्रकृतैव प्राप्यते । अत्राऽष्टाध्यायाः सन्ति येषु ७४६ सूत्राणि ९७९ छन्दोलक्षणानि च विद्यन्ते । प्रथमाध्याये छन्दोलाक्षणिकचिह्नानि दर्शितानि । द्वितीये तृतीये चतुर्थे चाऽध्यायेऽन्तर्गतानि ६२५ संस्कृतच्छन्दांसि लक्षितानि येषु समार्धसमविषमवृत्तैः सह १० दश द्विपदवृत्तानि सन्ति । चतुर्थपञ्चमाध्याययोरपभ्रंशस्य षष्ठसप्तमाध्याययोश्च प्राकृतस्य ३५४ छन्दांसि लक्षितानि येषु १०४ द्विपदीनि ९९ चतुष्पदीनि, ११३ अर्धचतुष्पदीनि ५ पञ्चपदीनि २ अष्टपदी, ३ द्विभङ्गीनि, २ त्रिभङ्गी, ४ अर्धषट्पदीनि शेषेषु विषमाणि तथाऽन्यानि छन्दांसि सन्ति । संस्कृतच्छन्दसामुदाहरणेषु ६२६ पद्यानि, प्राकृतापभ्रंशच्छन्दसामुदाहरणेषु च ३८० पद्यानि सन्ति । आचार्यहेमचन्द्रसूरिः पद्येषु छन्दांसि मन्यते, गद्येषु न । १० अतस्तेन लोके व्यवहारयोग्यानामेव छन्दसां निरूपणं कृतम् । ११ छन्दसां विषये सैतव- काश्यप-भरतपिङ्गलाऽहीन्द्र- जयदेव - स्वयम्भुप्रभृतिसप्तानां पूर्वाचार्याणां मतानि प्रकाशितानि । ९२ भरतोल्लेखः सर्वाधिकः प्राप्यते, तन्नाम्ना वृत्तौ बहूनां तेषां छन्दसां नामान्तराण्यपि प्राप्यन्ते, येषां प्राप्तिर्वर्तमाने नाट्यशास्त्रे नास्ति । सप्तवाहन - श्रीहर्ष - धनपालादिकवीनां केषाञ्चिच्छन्दसामुदाहरणपद्यान्यपि १३ सन्ति । ग्रन्थे छन्दोऽनुशासने यानि ६२५ संस्कृतवृत्तानि ७- ८. ह. दा. वेलणकर, जयदामन्, परिचयः, पृ. ४६ । ९. ह.दा.वेलणकरः, टीकासहितं छन्दोऽनुशासनम्, मुम्बापुरी, १९६१ । १०. 'गद्यकाव्ये न छन्दसामुपयोगः ' । छन्दोऽनुशासनवृत्तिः - १ / १ । ११. 'काव्योपयोगिनां वक्ष्ये छन्दसामनुशासनम् । छन्दोऽनुशासनम् - १/१ 1 १२. छन्दोऽनुशासनम् - २ /१२ तः २ / ११० सूत्रपर्यन्तम्, वृत्तौ - २ / २४३/१, २४४/१, २९७/१, ३/३२/१, ४४/१, ५२/१, ३२३/१ १३. छन्दोऽनुशासनम् Jain Education International - ३/७३/२, ४/८५/१, ५/३२/३ ७९ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy