________________
(३) सुकृतानुमोदनम् - मोक्षमार्गानुकूलं नैकभेदभिन्नं यत् सदनुष्ठानं तत् स्वेन येन केनचिद्वाऽन्येनाऽप्याचरितं स्यात् तस्य 'महता पक्षपातेन' या प्रशंसा तन्नाम सुकृतानुमोदनम् । एतच्च सुकृतानुमोदनं यथार्थरूपेण तदैव शक्यं यदा चित्ते सुकृतस्य पक्षपातः स्यात् । सुकृते उपादेयताबुद्धिर्बहुमानभावश्च यदि स्यात् तदैवैतच्छक्यम्, नाऽन्यथा । एतदनुमोदनं महत्कल्याणाङ्गमस्ति ।
एतच्चतुःशरणगमनादित्रिकं सततं भावनीयम् । यत एतदपायानपाकृत्य कल्याणस्य
हेतुर्भवति ।
अथ योगमार्गप्रवृत्तानां कृते स्वासादितगुणस्थाने स्थिरीभवितुं ततो वाऽग्रे गन्तुं विशेषेणोपायान् निदर्शयति
भावणासुयपाढो तित्थसवणमसतिं तयत्थजाणम्मि । तत्तो य आयपेहणमतिनिउणं दोसवेक्खाए ॥५२॥
* भावना श्रुतपाठः तीर्थश्रवणमसकृत् तदर्थज्ञाने _ ततश्चाऽऽत्मप्रेक्षणमतिनिपुणं दोषापेक्षया ॥५२॥
1]
(१) भावनाश्रुतपाठः "रागादिप्रतिपक्षभावनं भावना" । तस्मिन् प्रतिबद्धं यच्छुतं तद् भावनाश्रुतम् । अर्थाद् रागादीनां निमित्त स्वरूप - फलादीनां प्रतिपादकं श्रुतम् । तादृशस्य श्रुतस्य विधिपूर्वकमध्ययनं नाम भावना श्रुतपाठः ।
Jain Education International
-
(२) असकृत्तीर्थश्रवणम् अत्र तीर्थं नामाऽधिकृतसूत्रार्थोभयज्ञाता, अभ्यस्त - भावनामार्गश्चाऽऽचार्यः। एतादृशादाचार्याद् वारंवारं यच्छ्रवणं तत्तीर्थश्रवणम् । एतादृशादाचार्यादृतेऽन्यस्मात् कस्माच्चिदपि कृताच्छ्रवणाद् रागादीनां स्वरूप-निमित्त-विपाकादीनां सम्यगज्ञानस्य सिद्धिर्न भवत्येव ।
एतत्तीर्थश्रवणं सम्यग्भावना श्रुतपाठानन्तरमेव फलवद् भवति । यतोऽनेकशः श्रुतपाठाद् रागादिभावा: शिथिला भवन्ति तदनु च कृतात्तीर्थश्रवणाद् रागादिभ्यो मुक्तिः प्राप्यते । अन्यथा “अपरिपाचितमलसंस्रनकल्पं ह्यपाठं श्रवणम्" इति वचनात् तन्निष्फलं भवति ।
(३) आत्मसम्प्रेक्षणम् - एवं च तीर्थश्रवणेन भावना श्रुतस्याऽर्थावबोधे
५६
For Private & Personal Use Only
www.jainelibrary.org