Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु: १०
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
सङ्कलनम् कीर्तित्रयी
दक्षिणायनम् वि.सं. २०५९
Page #2
--------------------------------------------------------------------------
________________
शासनसम्राजामिह समुदाये मेस्मर्वतौपम्ये । कल्पतरुर्नन्दनवन - सत्कोऽयं नन्दतात् सुचिरम् ॥
नन्दनवनकल्पतरुः १०
ww
सङ्कलनम्
कीर्तित्रयी
दक्षिणायनम्
वि.सं. २०५९
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ॥ दशमी शाखा ॥ (संस्कृतभाषामयं अयन-पत्रम् ।।)
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०५९, ई.सं. २००३ मूल्यम् : संस्कृतसाहित्यरुचिः ।।
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्यायमंदिर -
१२, भगतबाग शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - 380007. दूरभाष : 6622465
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad - 380 007
मुद्रणम्
: 'क्रिष्णा प्रिन्टरी' नारणपुरा गाम, अमदावाद ।।
दूरभाष : 079-7494393
Page #4
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
शास्त्री व्रजलाल वी. उपाध्यायः
(वेदान्ताचार्यः)
जानकी एपार्टमेन्ट, पहेले माले
लाला मेतानी शेरी जामनगर-३६००१
सुरभारतीप्रियमनोबुद्धिचेतोधामानो विलसन्तः सन्तः गुरुकृपाशीर्वादपूर्णपात्रं कीर्तित्रयी सिद्धसारस्वतत्रिपुटी धन्यं भारतम्-धन्या चेयं सुरभारती, सौष्ट्रान्तर्गत- जामनगरतः कस्यचिद्विदुषो व्रजलालोपाध्यायस्य विदाङ्कुर्वन्तु प्रणतिततयः तत्रभवन्तः ।
अधुना-अद्यैव-प्रथमवारमेव नन्दनवनकल्पतरुः ९नवमाङ्को दृष्टिपथमायातः, सानन्दं साश्चर्यं च सारस्वतं धामसमुदितं - धन्यतानुभवः, वारं वारं नमो नमः । यद्यपि पुण्योपार्जित - दिव्यैश्वर्यस्वामिनः इन्द्रस्य सम्बन्धिनः नन्दनवनस्य फलेग्रहिरयं कल्पतरुः अवनौ वसुन्धरातले कृतपरिश्रमैः श्रीमद्भिर्विद्वच्चेतोनिवासिभिः सद्भिरवतारितः समेषां निःश्रेयसाय इति मन्ये । भगीरथोऽयं भावनोपन्यासः ।।
विदुषां वशंवदः कश्चिद्विपश्चिद् व्रजलालोपाध्यायः
Page #5
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
डो. रूपनारायणपाण्डेयः एस् II / ३३० राज्यशिक्षासंस्थान कोलोनी,
एलनगञ्जः, प्रयागः(उ.प्र.) २११००२
मान्याः ,
सादरं प्रणतयः ।
अधिगतो नवमोऽङ्को नन्दनवनकल्पतरोः । श्रीमुनिधुरन्धरविजयस्य 'वीतरागवन्दना' हृदयं स्पृशति । डॉ. आचार्यरामकिशोरमिश्रस्य 'हिन्दुराष्ट्रम्' इति रचना वर्तमानभारतराष्ट्रस्य यथार्थतां प्रस्तौति । तथैव डॉ. सुरेन्द्रमोहनमिश्रस्य 'वल्मीकगर्भ विश भो ! मुने ! पुनः' इति कविता भारतीयसंस्कृतिदुर्दशायाः व्यथां वर्णयति । वस्तुतः समाजे रामस्य रामायणसंस्कृतेश्चाऽवतरणमपेक्ष्यते । न केवलं भारतस्य, अपि तु निखिलजगतः कल्याणं रामचरितानुसरणं विना भवितुं न शक्नोति । पत्रिकायाः अन्या अपि रचना मार्मिक्यः सन्ति । सुरभारतीसपर्यायां संलग्ना एतादृश्यः पत्रिकाः विरलाः सन्ति । नन्दनवनकल्पतरु-सुसम्पादनार्थं तत्रभवन्तः सत्कारस्य सत्पात्रं सन्ति ।
विनीतः रूपनारायणपाण्डेयः ।
Page #6
--------------------------------------------------------------------------
________________
अनुक्रमः 0000000000000
कृति:
लघुशान्तिस्तोत्रपादपूर्तिः
प्रीतिपराविशति का
गालम्भपंचविंशतिका
गुरुचरणमहिमाष्टकम्
अध्यात्मसारानुगमः
जय शिव ! गौरि ! जननि नय गडे !!
पञ्चदश: (१५) अगस्त्यः
आस्वाद: चिन्तनधारा सदाचारः अहिंसात्तत्त्वमनुष्ठानं च
कर्ता
00000000000
आ. धर्मधुरन्धरसूरिः
मुनिधुरन्धरविजयः
मुनिधुरन्धरविजयः
आ. धर्मधुरन्धरसूरिः
आ. धर्मधुरन्धरसूरिः
डॉ. अभिराजराजेन्द्रमिश्रः
डॉ. आचार्यरामकिशोरमिश्रः
मुनिरत्नकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
स्वामिश्रीब्रह्मानन्देन्द्रसरस्वती
पृष्ठम्
12
15
16
37
42
44
50
56
Page #7
--------------------------------------------------------------------------
________________
अनुक्रमःWwwwwwwwwwwwwwwww
कृति
कर्ता
पृष्ठम्
मुनिधर्मकीतिविजयः
66
पत्राम "काव्यानुवाद:
मुनिरत्नकीर्तिविजयः
71
मुनिधर्मकीर्तिविजयः
73
अनुवादः गुरोर्महत्ता
दर्शनम् सत्यघटनाः
मुनिकल्याणकीर्तिविजयः
74
विजयशीलचन्द्रसूरिः
80
गरळपुरीशास्त्रिणां कविताचातुरी
एच्. वि. नागराजराव्
1 वणिग्बुद्धिः
RON
विजयसूर्योदयसूरिः
490
शठे शाठ्यं समाचरेत्
विजयसूर्योदयसूरिः
91
अहो ! बन्धूनां सहृदयता!
मुनिरत्नकीर्तिविजयः
92
एतोदृशोऽनुसरणीयः
मुनिधर्मकीर्तिविजयः
96
Page #8
--------------------------------------------------------------------------
________________
310700HT:10000000000070 voto8000000000000OVODOVODOW010070000000000000000
कृतिः NO
कर्ता
पृष्ठम्
संस्कृतिः
मुनिधर्मकीतिविजयः
(98
विलक्षणो न्यायः
मुनिकल्याणकीर्तिविजयः
99
झेनकथा
. मुनिधर्मकीर्तिविजयः
_102
। स्वामी ब्रह्मानन्देन्द्रसरस्वती
104
123
छ
।
प्राकृत
128
(१) दइवस्स पहुत्तणं
मुनिकल्याणकीर्तिविजयः (२) चवलाण भोयणं
मुनिकल्याणकीर्तिविजयः
129
Page #9
--------------------------------------------------------------------------
________________
लेखकेचु निवेदनम्
सर्वेऽपि लेखकाः संस्कृत-प्राकृतमयं सर्वविधं गद्यं पद्यं वा साहित्यं प्रेषयितुम् अर्हन्ति । अङ्गीकृतं साहित्यं यथावसरं प्रकाशयिष्यते । साहित्यम् अङ्गीकृतं चेत् तस्य सूचना प्रेष्यते । साहित्यं एकस्मिन् एव पृष्ठे सुवाच्यैः अक्षरैः लिखितं स्यात् । Computer Prints अपि स्वीक्रियते । Xerox प्रति न प्रेषणीया । इतः परं सर्व साहित्यं सन्धिरहितम् एव प्रकाशयिष्यते । अतः सन्धिरहितम् एव लिखित्वा प्रेषणीयम् ।
Page #10
--------------------------------------------------------------------------
________________
लघुशान्तिस्तोत्रपादपूर्तिः
प्रेषक : प्रद्युम्नसूरिः ।
कर्ता : आ. धर्मधुरन्धरसूरिः ।
ASSE
भूमिका
प्रातःस्मरणीयपूज्यचरणाचार्यश्रीविजयधर्मधुरन्धरसूरिमहाराजेन नवस्मरणस्तोत्रगतपद्यानामन्त्यचरणमादाय पादपूर्तिप्रकारेण स्तोत्राणां रचना कृताऽस्ति । तदन्तर्गतं नवमं स्तोत्रं श्रीबृहत्शान्तिस्तोत्रं प्रायो गद्यबहुलं वर्तते । अतस्तत्स्थाने लघुशान्तिस्तोत्रं स्वीकृतम् । तस्य चरमचरणमाश्रित्य स्तोत्ररचना कृताऽस्ति।
___ मूलस्तोत्रं मन्त्राक्षरगर्भितं वर्तते । अतः तत्पादपूर्तिरपि तदनुसारिणी एव शोभना स्यादिति दृष्ट्या, अहमन्त्रसाधकः श्रीविजयधर्मधुरन्धरसूरिमहाराजः प्रासादिकेऽस्मिन् स्तोत्रे तन्मन्त्रमहिमानमगुम्फयत् । स्तोत्रपाठवेलायां स्तोत्रमिदं किमपि प्राचीनस्तोत्रमिव नूनं प्रतिभाति ।
आस्वाद्यतां पाठकगण: स्तोत्रमेतदिति प्रार्थयामि ।
19
* C\o. Sri Jitendra Kapadia, १०, लाभ कोम्प्ले क्ष,
१२-B, सत्तर तालुका सोसा. पो. नवजीवन, अहमदावाद-३८००१४
1
Page #11
--------------------------------------------------------------------------
________________
अहूँ वन्दनमर्चा
मर्हन्तं भावतो हृदि ध्यातम् । सिद्धिं वितरति यत्तन्
मत्रपदैः शान्तये स्तौमि ॥१॥ ॐ ह्रीँ अहूँ मत्रो,
यस्योलसितो ददाति संसिद्धिम् । तरमै नमोऽस्तु शश्वद्
यशस्विने स्वामिने दमिनाम् ॥२॥ संसारे बहुधाऽसत्
कर्मजनितविषमभावतोऽशान्तान् । शान्ति नयते निपुणं,
नमो नमः शान्तिदेवाय ॥३॥ उज्ज्वलवर्णायोज्ज्वल
वर्णेन सदैव सविधिसिद्धाय । प्रशमितविघ्नव्यूहो
___-तमाय सततं नमस्तरमै ॥४॥ तरमै नमोऽस्तु नित्यं,
बाह्यान्तरदुष्टदोषशमनाय । अहमिति सिद्धवचसे,
च शाकिनीनां प्रमथनाय ॥५॥
Page #12
--------------------------------------------------------------------------
________________
STAYE
विश्वं परितोऽशिवदव
दग्धं निर्वापयति कृपापात्रम् । यस्यामलनामसलिल
मिति च नुताऽऽनमत तं शान्तिम् ॥६॥ अतिवृष्ट्याद्याः सप्ते
तयस्ततो दूरतो विनश्यन्ति । यत्रार्हति विहरति सति,
जयतीतिजयावहे भवति ॥७॥
VINITV
PAL
A
सर्वज्ञेश्वर ! जिनवर !,
लोकालोकावभासकानन्त ! । ध्यानैकतानमनसां,
सुतुष्टिपुष्टिपैदे जीयाः ॥८॥
N
TRENA
15.us,
अहूँ जपनान्मननाद्,
___ ध्यानाद्भगविनो भवन्ति भयमुक्ताः । भगवंस्तवाऽनुभावान्
नमोऽस्तु "स्वस्तिप्रदे तुभ्यम् ॥९॥
१. नुत-स्तुत आनमत-प्रणमत इति क्रियाद्वयम् । २. जयति, ईतिजयावहे, भवति इति त्रयं सप्तम्यन्तं अर्हतीत्यस्य विशेषणम् । ३. इ इति हेतुल्यं सम्बोधनवाचकम्, तथा च इ-सुतुष्टिपुष्टिप्रद ! जीयाः । ४. 'इ-स्वस्तिप्रद !' इत्येवं विग्रह: कार्यः
3
.
Page #13
--------------------------------------------------------------------------
________________
कीर्ति कान्ति शान्तिम्,
ऋद्धिं सिद्धिं समृद्धिमपि ददते । अहूँ नमो नमः स्तान,
___रति-मति-बुद्धिप्रदानाय ॥१०॥
अहूँ मुखमत्रमातर् !
___“भले” इति जगज्जननि ! जगद्वन्द्ये ! । देवानामप्यभिमत
वर्धनि जय, देवि विजयस्व ॥११॥
रक्षत्यहूँमत्रः,
संभेदाभेदध्यायितोऽप्यसकृत् । रोगजलज्चलनानिल
चौरतिश्चापदादिभ्यः ॥१२॥
अहूँ कुरु कुरु शान्ति
कुरु कुरु तुष्टि कुरु कुरु पुष्टिमपि । मङ्गलमनन्तरङ्ग,
कुरु कुरु स्वस्ति च कुरु कुरु त्वम् ॥१३॥ परिक रकलितो मत्रो,
ददाति सिद्धिं सुपरिकरश्चैवम् ।। ॐ श्रीं हाँ हाँ हूँ हूँ
हौँ हू: यः क्षः ही फुट फुट् स्वाहा ॥१४॥
यु.2
१. ०नामसकृत् इत्यपि पाठान्तरम् ।
Page #14
--------------------------------------------------------------------------
________________
यस्मिन्नाप्ते शान्ति
र्यत्राऽनाप्ते भवेन्न शंवार्ता । वीर्यवतेऽहं महसे,
नमो नमः शान्तये तस्मै ॥१५॥
निर्व्याजमप्रमत्तं,
विधिनोल्लसितं सितात्मनां ध्यातः । जयतादहूँमत्रः,
शान्त्यादिकरश्च भक्तिमताम् ॥१६॥ अहूंजपतो विधिना,
भूमण्डलमुख्यशुद्ध आयतने । रक्षतु नयतु च निष्ठां,
सूरिः श्रीमानदेवश्च ॥१७॥
इह लोके भवेत्सौख्यं,
स्वर्गोऽपवर्गकोऽन्यतः । अविलम्बेन भव्यानां,
पूज्यमाने जिनेश्वरे ॥१८॥ सन्मत्रतत्रसम्पूर्ण,
- दुष्प्रापञ्च दुरात्मनाम् । सम्यगात्मपरित्राणं,
जैनं जयति शासनम् ॥१९॥
Page #15
--------------------------------------------------------------------------
________________
पीतिपराविंशतिक
जयश्रीणां हेतुं दुरितरिपुवृन्दे प्रसरति । सुरेन्द्राणां वृन्दैर्महितचरणं दिव्यकुसुमैः ॥ वचो येषां तिर्यङ्मनुजसुरभाषापरिणतं । नमामि त्वां स्वामिन् ! सकलजनसन्देहहरणम्
अहो स्वामिन् ! दिव्यं कनककमलं त्वं त्रिजगतीसरोमध्ये यस्मिन् श्रुतमधुपरागो विलसति ॥ परा आर्हन्त्यश्रीः वसति नितरां यत्र शुभदा । जगत्कल्याणं या सृजति सततं नित्यमुदिता
सदा सेव्यं शक्रैः कमलकमनं ते पदयुगं । स्फुरत्तेजोदीप्रं नखततिमयूखैरिव खेः ॥ मया दृष्टं दृग्भ्यां विकसिततमाभ्यां जिन ! यदा रमायां रामायां विरतमभवन्मेऽमम ! मनः
4
सुधासारेऽगारे नयनयुगविश्रांतिकृतये । शमासारे तारे तरलतरतेजोवलयतैः ॥ मुदाकारे सारे सकलजगतीदृश्यनिवहे । मनो लीनं पीनं मम मुखसरोजे तव विभो !
6
मुनिधुरन्धरविजयः
રો
રો
"
nn
Page #16
--------------------------------------------------------------------------
________________
अहो ते सद्वक्त्रं परमकरुणासारसरसं । त्रिलोकीनां प्रेम्णां परमनिलयं धर्मविलयम् ॥ शरच्चन्द्रज्योत्स्नोज्ज्वलममलचेतोभिरनिशं । हृदि ध्येयं पेयं निमिषरहितैर्नेत्रपुटकैः
जगत्प्रेक्ष्य प्रेक्ष्यं वदनकमलं प्रेमविमलं । कदाsहं प्रेक्षिष्ये प्रकटपरमोल्लासजनकम् ॥ स्फुरुद्धामं धामं प्रशमरसपीयूषसरितां । अमन्दैरानन्दैर्नयनगलदश्रुस्तव मुदा
सदोद्दामं कामप्रकटरिपुनिर्धातनकृते लसत्पात्रं गात्रं गुणगणमणीनां तव शुभम् । स्फुरल्लावण्याम्भोजलधिसदृशं लीनसुदृशं दृशोर्मार्गे भाग्यैः सुलभमथ लभ्यं कथमहो
समीहे न त्यागं प्रिय ! तव वियोगं ददति यः । न मान्यो वैराग्यः तव परमरागं विघटयन् ॥ न साऽभीष्टा दीक्षा तव विरमणं या प्रकुरुते । न याचे तं मोक्षं तव चरणसेवाविरहितम्
तवैश्वर्यं वर्यं जगति लभते कोऽपि न परः । स्फुरद्योगो योगी सकलजगतीविस्मयकरः ॥ लसन्माहात्म्यं तत्परमसुलभं ते पदयुगे । समासीनानां वै मनजदनुजेन्द्रार्चनजुषि
7
॥५॥
દો
॥७॥
n
len
Page #17
--------------------------------------------------------------------------
________________
-
૩૦
अहो भाग्यं मेऽद्य प्रकटविभवोल्लासललितं । क्षणः सोऽयं पुण्यप्रचुरजनिते ! मेऽद्य सफलः ॥ यदा ते सञ्जातं परमसुभगं दर्शनमहो । मनो मे सन्तृप्तं परममुदितानन्दसदनम् अहो रम्यं रम्यं प्रशमझरणं नेत्रयुगलं । सदा सौम्यं सौम्यं वदनकमलं दिव्यममलम् ॥ स्फुरच्छायां कायां शमरससुधासाररचितां प्रकुर्वन्ति प्रातस्तव सुकृतिनः चक्षुरतिथिम् भवाख्ये कान्तारे भ्रमणमतिकुर्वन् भविजनो । भयत्रस्तो भूत्वा भजति भवतः पादपदवीम् ॥ तदा तं प्रस्फूज्जद्भयभवनमुत्तीर्य सपदि प्रभो ! भूतिस्थानं श्रयति बहुसौभाग्यसुभगः
|| STRO
??
समुनीर्णः सोऽयं भवजलधिरत्यन्तगहनः । दुरन्तो दुःखान्तो दुरितसलिलैर्लोलतरलः ॥ यदा प्राप्तं स्वामिन् ! तव चरणमर्थ्य सुरनरैः सुमैर्मन्दाराद्यैः सुरभिसरसैः घ्राणसुभगैः
TO
રૂ
मया नौः संप्राप्ता भवजलधिमध्ये प्रपतता । तवाऽऽज्ञा संप्रौढा सकलभविकोद्धारसुदृढा । हहा सा चेत् न स्यात् सुकृतविकलाः भ्रष्टशरणाः । कथं मादृक्षाः स्युः सरभसमितः पारगमनाः
॥१४॥
Page #18
--------------------------------------------------------------------------
________________
कदा गायं गायं तव गुणगणान् स्यां प्रमुदितः । तथा पायं पायं श्रुतमधुरसं नर्तनपरः ॥ कदा दर्शं दर्शं हृदयमुकुरे ते प्रतिकृतिं । चिदानन्दे मग्नो भवपथि भविष्यामि भगवन् !
भवे भ्रामं भ्रामं तव वचनतो दूरचलितः । सदा श्रान्तः क्लान्तः व्यथिततनुको भीतचकितः ॥ कदाचित् सम्प्राप्तो न शमरसलेशोऽपि मयका । चचः पीयूषं ते कथमपि विभो प्राप्तमधुना ! झरन्तं ते वक्त्रात् प्रशमरसपीयूषझरणं । पुटाभ्यां नेत्राभ्यामनिमिषमथो स्यान्न रसितम् । महाभीष्मे ग्रीष्मे भववनसमुत्थेऽतिथकितः । कथं स्वस्थोऽहं स्याम् बहुविषयतृष्णातरलितः नयप्रामाण्यैस्ते वचननिचयोऽनन्यसदृशः । शुभोदर्के रतकै स्त्रिदशगुरुभिस्तीव्रमतिभिः । अनुल्लङ्घ्यः सर्प्पन्सकलसमये सर्वजगतः । प्रकुर्वन्भव्यानां भ्रमनिरसनं कौ विलसति
प्रभो ! ते वाग्धारा विशदशरद: शुभ्ररजनी । स्फुरज्ज्योत्प्राधारा धवलितक कुब्वृन्दवलया ॥ यया स्पृष्टः सर्वो जगति निचितो द्रव्यनिचयः । स्फुटं विज्ञातः स्याद् विशदमतिभिस्तत्त्वरतिभिः
॥१५॥
ોદ્દો
॥१७॥
in
un
Page #19
--------------------------------------------------------------------------
________________
भवान् ज्ञातस्त्राता भविकजनतायाः भवपथि । कथं नाऽहं त्रातो भवभवभयात् त्रस्तदरितः ॥ भवेयुः शास्तारो जगति खलु लञ्चाव्यसनिनस्त्वमप्येवम्भूतो भवसि भगवन् ! किं मम कृते ? ॥२०॥
રી
न रीणां नारीणां विकटविपदा तं विलगति । न दारिद्यं दैन्यं तमिह निजपाशे प्रसजति ॥ न चिन्ता चातुर्यं हरति मतिवैशद्यविशदं । सदा ये सेवन्ते तव चरणयुग्मं सुरतरुम् गलद्बोधं क्रोधं बलविकटयोधं विजयते । हतज्ञानं मानं प्रबलमपि हानं गमयति ॥ गलच्छायां मायां नयति बहुकौटिल्यकलितां । न लोभस्य क्षोभं वहति हृदये त्वां स्मरति यः अशोभि त्वं स्वामिन् ! सितसरसिजं विश्वसरसि । यशःसौरभ्यं ते प्रसरति समग्रेऽत्र जगति ॥ अलं विस्फूर्जन्ते भ्रमरभ्रमरीवृन्दसदृशः । यदने देवौधा अमरवनिता भक्तिभरिताः
રો
રો
तव प्रीतेली मम हृदयकुओ प्रकटिता । प्रसिक्ता प्रोत्सर्पन्नयनगलदश्रुरनिशम् ॥ स्फुरत्सौरभ्यश्रीः सुरभिपरमानन्दकुसुमा । तदन्तस्त्वन्माद्यन्मिलनमधुपानं विजयते
રજી
10
Page #20
--------------------------------------------------------------------------
________________
स्तुतो नतपुरन्दर: सकलसद्गुणैः सुन्दरः । शमोत्पलसुधाकरो विमलसम्पदामाकरः । यशोधवलिताम्बरो रविसमप्रभाडम्बरः । शिवं जिनधुरन्धरः सृजतु नस्तपोदुर्द्धरः
રકો
माता पशूनां सुतसत्तयैव धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमाना लोकोत्तमानां चरितैः पवित्रैः ।।
- (भविष्यपुराणे)
11
Page #21
--------------------------------------------------------------------------
________________
उपालम्भपंचविंशतिका
मुनिधुरन्धरविजयः
विनम्रनाकीन्द्रकिरीटमुक्ता-फलेषु संलीनमनेकरूपम् । समग्रलोकत्रयतारणाय, समर्थमानौमि युगादिदेवम् संसारकान्तारसुरद्रुकल्प ! संकल्पसंपूरणकामधेनो ।। चिन्तामणेऽचिन्तितदानकृत्य !, जय प्रभो ! त्वं जगदीशरूप ! ॥२॥ बालोऽहमज्ञो जगदीश्वराय, तुभ्यं कथञ्चित्कटुवाग्भवेन । स्तवेन किञ्चित्कथयामि नाथ !, क्षमस्व दुःखार्तिभवं प्रलापम् ॥३॥ निरर्गलं लालपतरतवाडग्रे, नाऽऽयाति लज्जा मम लेशतोऽपि । निरङ्कुशं चेष्टितमर्भक स्य, स्वमातुरग्रे नहि शोभते किम् ? ॥४॥ लुब्धोऽरिम मुग्धोऽरिम मदोद्धतोऽस्मि, वक्रोऽस्मि संसारसुखातुरोऽस्मि । निर्बन्धलक्ष्मीललनोत्सुकोऽस्मि, तथाऽपि मां तारय नाथरूप ! ॥५॥ शुद्धान् प्रबुद्धान् भुवि तारयन्ति, सर्वेऽपि किं तत्र महत्तमत्वम् । अस्मानबुद्धान् यदि तारयेस्त्वं, तदैव ते तारक ! नाथता स्यात् ॥६॥ नाथोऽसि चेत्त्वं जगतोऽखिलस्य, अनाथरूपा इव किं भवेम ? । दुःखौघतो दुर्गतितोऽन्तरङ्ग - दुवैरिवृन्दात् नहि पासि किं नः ? ॥७॥ दुष्टस्य दण्डः सुजनस्य रक्षा नाथस्य धर्मः खलु मुख्य एषः । दुर्लक्ष्यमत्रैव करोषि चेत्ते, नाथत्वधर्मो न सुरक्षितः स्यात्
૮
For Private 12ersonal Use Only
Page #22
--------------------------------------------------------------------------
________________
રૂ
नाथः सदा पश्यति सर्वलोकान्, कृपाईचित्तः समसौम्यदृष्ट्या । सेवारतानेव शिवं ददानः, कथं भवेस्त्वं समदृष्टिरीश ! ॥ अतः कृपालो ! कृपया निरीक्ष्या, अस्मादृशा अज्ञतरा अपीह । सेवापहीणानपि तारयेश्चेत् स्यान्नाथता ते भुवि शंसनीया ૩૦ देव त्वदीयांहिसरोरुहाभ्यां, हताघरुग्भ्यां हृदि संधृताभ्याम् । तीर्णो भवाब्धिर्यदि भव्यजीवैः, किं तत्र चित्रं बहुशक्यमेतत् ॥११॥ ये पामराः पातकघोरपुञ्जाः, त्वत्सम्मुखं द्रष्टुमनीहमानाः । तेऽपीश ! तीर्णा अतिथित्वमाप्ता, त्वलोचनानां खलु चित्रमेतत् ॥१२॥ अहोद्वतं ते भवतारकत्वं, यदेकवारं भवतोऽनुकूलम् । भवेन्मनश्चेद् भविनस्ततोऽपि, त्वं तारयस्येनमशङ्कितं यत् अद्यापि घोरे भववारिराशौ, यद् बंभ्रमाम्यत्र किलैकहेतुः । त्वदानुकूल्यं न धृतं कदाचि-न्मया भवोत्तारणदिव्यशक्ति कदा त्वदाज्ञापरतत्रचित्तः, समग्रसत्त्वेष्वनुकूलवृत्तिः । सचेतनाचेतनमोहहीनः सम्यक्कियां देव ! समाचरिष्ये कदा त्वदाज्ञारतयो विरक्ताः यतीश्वराः सर्वसुखानपेक्षाः । निरीहचित्ताः श्रुतमात्रवित्ताः, कृपां करिष्यन्ति मयि प्रसन्नाः સોદ્દો कदा त्वदारयोद्भवदिव्यवाणी - सुधाप्रवाहो मम कर्णरन्ध्रे । पतन्ममाऽनादितृषातुरत्वं, हरिष्यतीशान ! तुषारशीतः कदा त्वदाभोज्ज्वलनेत्रदीप्तिं भविष्यते नेत्र सुधाञ्जनं मे । येन प्रयासेन विनैव कामान्धता क्षयं यास्यति मामकीना ૨૮
॥१४॥
॥१५॥
॥१७॥
13
Page #23
--------------------------------------------------------------------------
________________
॥२०॥
॥२१॥
कदा त्वदासन्नतरप्रदेशे, ध्यानस्थितः सर्वविकल्पशून्यः । त्वदेकशुद्धोज्ज्वलरूपलीनः विलीनसङ्गोऽहमहो भविष्ये रूपं क्व तेऽपूर्वमनन्ततेजोऽन्वितं मनोहारिजगत्रयस्य । यत्सम्मुखं सर्वसुरासुराणां, रूपस्य सारोऽप्यपरूपताभाक् दृष्ट्वा त्वदीयं चरणाम्बुजातं, पृथ्वीतले फुल्लितमद्भुतश्रि । पद्मानि सर्वाणि जले गतानि निमज्जितुं किं नितरां सलज्जम् नेत्रं त्वदीयं द्युतिपुञ्जपात्रं, करोति कार्यद्वयमेककालम् । प्रचण्डमार्तण्डमिचोग्रजाड्यं, जहाति शैत्यं कुरते शशीव वक्त्रं त्वदीयं भुवनातिशायि-शोभं समस्तामरनेत्रहारि । लावण्यगङ्गालहरिपरीतं, सातं प्रदातीश्वर ! दृष्टमेव त्वमेव देवो जगतीत्रयस्य, त्वं ध्येयरूपोऽखिलयोगिनां च । शरण्यरुपश्च भवे त्वमेव, देहि स्वरुपं तव देवदेव ! भक्ति प्रेमभृता हृदा नुत ! जिनश्रीराम ! चन्द्रप्रभापुञ्जपोज्ज्वलपुण्यपात्र ! भगवन् सर्वोरुभद्रङ्कर ! विश्वख्यातमहायशस्विविबुधैः संसेवितांहिद्वय ! भव्योद्धारधुरन्धरोद्धर भवाद् मां भव्यभावोद्धरम्
॥२३॥
॥२४॥
॥२५॥
For Private Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
-
गुरुचरणमहिमाष्टकम्
Mon
आ. धर्मधुरन्धरसूरिः
AhARAN CHANDRAMANIMAL
ANNAMA
PWM
KWDAMPA
॥२॥
MhAAN
રૂ
RAJA
MoodcAAkhoodai
वन्देऽमन्दं सुधास्यन्दं, पादद्वन्द्वं गुरोर्महत् । यज्जागर्ति सदाऽतन्द्रं, जाड्यं हर्तुं जडात्मनाम् यन्नमस्कृत्य मूोऽपि, जायते विदुषां वरः । येन विनाऽऽगमाम्भोधिं, तरीतुं कोऽपि न क्षमः स्वस्ति स्वस्तिमते यस्मै, भूयादिव्यार्थदायिने । दुष्कृतं दूरतो यस्मात्, सुकृतं यस्य हरतगम् आनन्दं ब्रह्म विज्ञानं, यस्मिन् सत्यधिगम्यते । तत् संसारवनान्नेतुं, शिवं सद्वाहनोपमम् तदवाप्याऽविमूढात्मा, को न माद्यति मोददम् । तेन समं समे विश्वे, नाऽन्यत् सज्ज्ञानसाधनम् नमस्तस्मै नमस्तस्मै, नमस्तस्मै दयालवे । तस्मात् कदापि दूरे नो, भवेयं प्रार्थयेऽनिशम् तस्य सधुलिलेशोऽपि, शिरोदेशे मणीयते । तस्मिन् जीवनसर्वस्वं, समर्पयामि सर्वतः अज्ञानतमसा व्याप्तं, जगदुद्धर्तुमत्यलम् । पादद्वन्द्वं गुरोर्गायं, गायं स्यां सधुरन्धरः
LAMMANAMA
ANDWA GAAOOD
JAN
૬ો
ટો
15
Page #25
--------------------------------------------------------------------------
________________
-
अध्यात्मसारनुगमः
आचार्यधर्मधुरन्धरसूरिः
भूमिका
| SAROKAROKAR
अयि ! विद्याविद्योतितान्तःकरणा विद्वांसः !
____ अद्य भवत्करकमलयोः अध्यात्मसारानुगमाभिधानं ग्रन्थरत्नमुपदीकृत्य वयं हर्षपूरपरिप्लावितहृदया भवामः ।
___ इयमध्यात्मसारानुगमकृतिः, न्यायविशारद-न्यायाचार्य-पूज्योपाध्यायश्रीमद्यशोविजयगणिविरचिताध्यात्मसाराभिधग्रन्थस्य संक्षेपः वर्तते । तस्मिन् एकविंशत्यधिकाराः सन्ति, तदाश्रित्याऽस्मिन् ग्रन्थे प्रकाण्डपाण्डित्योपशोभितपूज्याचार्यश्रीमद्विजयधर्मधुरन्धरसूरीश्वरैः एकविंशतिरष्टकानि रचितानि सन्ति । प्रत्येकाष्टकानि छन्दोवैविध्येन विभूषितानि वर्तन्ते । एतत् छन्दोवैविध्यं खलु विद्वज्जनमनोरञ्जकं प्रतिभाति । ग्रन्थकर्तुः सूरीश्वरस्येदं छन्दःप्रभुत्वमप्याश्चर्यकरं दृश्यते। अष्टकमेकं तु शृङ्खलायमककलितं मनोरमं विरचितं विद्यते तत् सर्वेषां विदुषां चित्तप्रसन्नताधायकं वर्तते ।
अस्य ग्रन्थस्य रचनायाः पृष्ठभूरेतादृशी वर्तते । वि.सं. २०२३/२४ वर्षे ते पूज्याः पादलिप्तपुरे विराजमाना आसन् । तस्मिन् समये सद्यःप्रकाशितमध्यात्मसारग्रन्थस्य गूर्जरानुवादकलितं पुस्तकं पूज्यश्रीणां करकमलयोः समागतम् ।
RAM
For Private Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
तद् दृष्ट्वा तेषां मनसि एवंविधो विचारः प्रादुर्भूतः, यदस्य भिन्नभिन्नविषयोपरि १) गुम्फितस्य ग्रन्थस्य यदि संक्षेपः क्रियेत तर्हि संक्षेपरुचीनां विदुषां स्वाध्यायेऽवश्यं सौकर्यं स्यात् । तदनन्तरं तैः पूज्यैः स्वाध्यायं कृत्वा ग्रन्थस्याऽस्योपर्यष्टकरचनायाः प्रारम्भः कृतः । प्रबलक्षयोपशमेन स्वल्पेनैव कालेन च ग्रन्थरचना पूर्णीकृता । ग्रन्थोऽयमद्य वर्तमानकालिकसाहित्यरसास्वादलिप्सूनां परमसद्भाग्येन प्रकाशितो भवति।
पायं पायं मुदाऽध्यात्म-सारामृतभरं बुधाः । प्राप्नुवन्तु चिदानन्द-सुखसागरमग्नताम् ॥१॥
आ. प्रद्युम्नसूरिः
DOORDER
न्कान्न्न्
17
Page #27
--------------------------------------------------------------------------
________________
॥ ॐ ह्रीँ अर्हम् नमः ॥
अध्यात्मसारानुगमः
प्रथमः प्रबन्धः
प्रथमोऽधिकारः
अध्यात्ममाहात्म्यम् [इन्द्रवज्रा - उपजातिश्च ]
आदीश्वरं शान्तिजिनं च नेमिं, पार्श्वं महावीरविभुं विशेषात् । अन्यान् जिनान् सूरिवराँश्च नत्वा, ह्यध्यात्मसारानुगमं प्रवक्ष्ये
शास्त्रात् सुधीसेवनतोऽनुभूतेः, सत्सम्प्रदायादधिगत्य किञ्चित् । अध्यात्मसारस्य रहस्यमाप्तुं, श्रीमद्यशोवाचकवर्त्मनैमि
अध्यात्मभावो यदि भावितः स्यान्, मनोभवो नैव तदाऽनुकर्षेत् । पीयूषपानं विहितं हितं चेद्, हालाहलं किं कुरुते तदा तम्
18
n
રો
"
Page #28
--------------------------------------------------------------------------
________________
॥४॥
अध्यात्मशास्त्राध्ययनं विनैव, पाण्डित्यमिच्छत्यफलं मनुष्यः । अर्थं न जानन्नपि वावदूको, वक्तृत्वमिच्छत्यतथा यथाऽसौ वजं यथापर्वतपातकारि, वह्निर्यथा कच्चदाहकारी । वायुर्यथा वार्दलदूरकूत् स्यादध्यात्ममेनःक्षयकृत्तथैव
॥५॥
अध्यात्मसाम्राज्यमनन्तवीर्यं, दुष्टाः उपप्लोषका अनिष्टाः । पापादयो न प्रभवन्ति यरिमन्नवाप्य तन्माद्यति को न मूढः ॥६॥
अध्यात्मरक्षापरिरक्षितस्य, कषायजः क्लेशकणोऽपि न स्यात् । अध्यात्मयोधस्य कृपास्ति यस्य, तस्याऽऽत्मशक्तिः परितः प्रशास्ति ॥७॥
अध्यात्मसूर्यः प्रकटोऽस्ति यत्र, न तत्र दुर्भद्यतमश्चकास्ते । तस्मादवैतुं नितरां प्रयलोऽध्यात्मार्थमात्मार्थितया विधेयः ॥८॥
19
Page #29
--------------------------------------------------------------------------
________________
द्वितीयोऽधिकारः अध्यात्मस्वरूपम् [आर्या वृतम्]
રૂ
अध्यात्मं यद्गीतं, तत् कीदृगिति मनसि जिज्ञासा । अध्यात्मस्य विशुद्धं, तस्मै वाच्यं स्वरूपं सत्
॥१॥ अधिकृत्याऽऽत्मानं या, काचिदिह भवेत् क्रियाऽऽत्महितसहिता । सा सर्वाऽप्यध्यात्म, मुक्त्वा मिथ्यात्विनोऽभव्यान्
રો कुरुते भवाभिनन्दी,भववर्द्धनकारिणी क्रियां शश्वत् । न च साऽध्यात्म यस्मात्, क्षुद्रत्वादेर्महादोषात् क्रमशो गुणसोपानं, प्राप्याऽध्यात्मस्थितेः क्षणान्मोक्षम् । गन्ता भवति त्वरितं, चिरेण यदि पुद्गलार्धान्तः રોજી कश्चिद्भद्रकवृत्ति-भव्यात्मा भवति मन्दमिथ्यात्वः । तस्याऽप्यध्यात्म स्याद्, गुणानुरागाद्गुणप्राप्तेः
કો निश्चयत: परिणामः, केवलिनमृते न वेदितुं शक्यः । तद्व्यवहारातीर्थ, विधीयते व्रतविधानादि
દ્દિો किञ्चिद्विषयविशुद्धं, भवति तथाऽऽत्मपरिशुद्धमपि किञ्चित् । अनुबन्धविशुद्धं च, त्रिविधमनुष्ठानमिति बोध्यम् ॥७॥ तत्राऽऽद्यं नो सम्यक् त्वितरदुभयमपि भवति भवतिरोऽर्थम् । दम्भमपाकृत्यैव, क्रियते चेत्तर्हि मोक्षाङ्गम्
સોટો
For Private &
Vonal Use Only
Page #30
--------------------------------------------------------------------------
________________
-
तृतीयोऽधिकारः
दम्भत्यागः [वसन्ततिलका]
जागर्ति चेदविरतं हृदये सुदम्भः, स्वल्पां स्थितिं गुणगणा न हि तर्हि कुर्युः । चाण्डालको यदि गृहे मलिनस्य कर्ता, किं तत्र सज्जनजना निवसन्ति किञ्चित् ॥१॥
दम्भस्तपस्तपनकान्तिहर: कदम्भः, रतम्भः स्थिरो भवगृहस्थितये सभम्भः । रम्भो दुरन्तकुगतेः कुटिलः प्रलम्भो, नाऽऽरभ्यतां समुदयो यदि काझ्यते स्वः ॥२॥
दम्भं न दूरमपसार्य भवाब्धिपारं, यनं करोति विफलं किल गन्तुकामः । किं कश्चिदत्र जलधौ कलधौतकान्तः, पाषाणनावमधिरुह्य समेति तीरम्
રી
दम्भो ह्यनर्थकर इत्यनिशं ब्रुवाणा, दम्भं स्वयं क्षणमपि क्षणितुं न शक्ताः । दम्भस्य सा कुशलता खलु यत्स्वकीयं, दम्भं जनो वरगुणोऽपि गुणं गृणाति
॥४॥
21 personal
Page #31
--------------------------------------------------------------------------
________________
धृत्वा महावृतमहो न विचार्य वीर्यं, मुग्ध जहाति न च साधु निषेवतेऽपि । दम्भाद् विडम्बयति ही नटवत् स्वधर्मं, नामाऽपि तस्य रसनां मलिनी करोति
दुर्वृत्तमाचरति दम्भवशेन दुष्टो, भूयोऽपि तत् समुचितं मनुते कुतर्कात् । नैकान्ततः किमपि कृत्यमकृत्यमुक्तं, तद्दम्भशीलमववर्ज्य विवेकवेद्यम्
स्वादिष्टमिष्टमपि भोजनमाप्य रोगी, रोगस्य वृद्धिमतनुं तनुते न कल्यम् । तद्वद्विशुद्धमधिगत्य जिनेन्द्रधर्मं, संसारवृद्धिमधिगच्छति दम्भदुष्टः
दम्भात्मनो मनसि नैव भवस्वरूपं, निर्दिष्टमप्यविकलं रमते यथावत् । तस्माद्विनीय नितरां निकृतिं विभाव्यं, वैराग्यभावभवनं भवसत्स्वरूपम्
22
॥५॥
દો
દા
l
Page #32
--------------------------------------------------------------------------
________________
चतुर्थोऽधिकारः भवस्वरूपचिन्ता [शिखरिणी]
ज्वर: कामः क्रोधो विततकफरूपो मदगद
स्त्रिदोषात्मा लोभो निकृतिरतुला पित्तविकृतिः । रतिस्तीवा तृष्णाऽरतिरतितरां भ्रान्तिरिति किं ?
भवे रोगावासे वसनमुचितं स्वस्थमनसाम्
॥१॥
अमर्यादेऽह्लादे मदनदहनोद्दीप्तसदने
विवेकस्योद्रेके कटुरटनभेकाकुलकुले । शुभार्थानां हानौ विकृतऋतभानौ हततनौ, कलौ किं संसारे रुचिरिह सतां ही निवसताम्
॥२॥
शिवाध्वानो यस्मिन् दुरितनिकश्चा पदपदं,
महामाया वक्रा व्रततिततिरास्तीर्णविषया । भवेडरण्ये लोभाजगरचरणं तत्र सरणं, विना सार्थं स्वार्थं गमयति न निःश्रेयसपुरम्
॥३॥
गजग्राहो मोहो मकरनिकरोऽसत्परिकर
स्तरङ्गाश्चिद्गङ्गा जलमतिमलं जीवनमदः । गिरे: कूटा विघ्नाः स्फुटमुभयकूलं कुलमहो,
भवाम्भोधौ धर्मप्रवहणमकर्मक्षणकरम्
PARA
જો
23
Page #33
--------------------------------------------------------------------------
________________
गतिस्त्रोतस्विन्यो विरसविपदम्भांसि ददते,
स्मरो दावाग्निः प्रज्वलितविषयः शंशमति नो । शिला मार्गध्वंसा मलिनमतयो यत्र परितो,
भवाद्रौ भव्यानामरुचिरुचिता तत्र नितराम्
કો
॥६॥
महामोहोन्मादात् सकलमकलं वेत्ति सकलं,
भवोद्भूतं दुःखं कलयति विमूढः सुखतया । न संसारस्याऽस्य प्रभवति जिहासा जिगमिषा,
शिवस्यैतत् सम्यक् सकृदपि विमृश्यं मतिमता विषः किं संसार: किमुत परिवारो विषभूतां,
महानागः किं वा किमपि परभागोडसुकृतिनाम् । किमु ज्वालाजालः किमतिविकरालः पितृपति
भवं दर्श दर्श विदधति विकल्पानिति विदः
॥७॥
जना जोषं जोषं दुरितभरिता दुःखमुदिताः, __ पदार्थान् सेवन्ते त्वरितसरिदावेगसदृशः । तथा बोधं बोधं प्रमपदमाप्तुं कृतधियां, मनोऽस्मात् संसारादनुपधि विरक्तं विरमति
॥८॥
Ka
24
for private $ 24.mal Use Only
Page #34
--------------------------------------------------------------------------
________________
द्वितीयः प्रबन्धः पञ्चमोऽधिकारः वैराग्यसम्भवः [पृथ्वी]
अहो विततधीधना अपि विरागतासम्भवं,
विवेचयितुमुत्थिता विपथमाश्रयन्तः स्थिताः । वदन्ति विषयाकुलं विषयसेवनान्मानसं,
शमं व्रजति सत्त्वरं क्षुधितमन्तराशाद्यथा ॥१॥ विचारसरणीमिदं न सहतेऽनुभूतेः पृथक्,
कदाचिदपि वासना विषयतो न संशाम्यति । ज्वलज्ज्वलनको घृतात् सततमुज्ज्वलो जायते,
तथैव विषयात्रमर: सभभिवर्द्धतेऽवारितः यथा पवनवेपिते न वसने भवेद्वर्णक
स्तरङ्गलुलिते जले पतति बिम्बमिन्दोर्नवम् (लसत्) । अधोवदनकुम्भके न सलिलं सलीलं भवेत्तथा विषयचञ्चले मनसि नो विरागो वसेत् ॥३॥ भृशं भ्रमति सम्भ्रमान्मरुमरीचिकावञ्चितो,
न बिन्दुमपि जीवनं किमपि विश्वतो विन्दिति । तथा विषयलोलुपः सततपुद्गलानन्दनो, . भवे भ्रमति नित्यशो न शममाप्नुते व्याकुलः ॥४॥
25
Page #35
--------------------------------------------------------------------------
________________
भवीयविगुणत्वविद्विमलदर्शनश्चेतनः,
कथञ्चिदुदयागतान् रुचिरगोचरान् सेवते । ततो न खलु तस्य तद्विषयवासना वर्द्धते,
यतो नहि भवाभिनन्दविषवासितं तन्मनः
॥५॥
Tદ્દો
समीरणहतेः क्षणाद् भवति दीपविध्यापनं,
दवानलजलं पुन न च ततोऽल्पमप्यूनति । तथैव विषयान्मनो भवति सक्तमीहावतां,
सतां न हि तथा लसद्भवविवेकपुष्टात्मनाम् विषं विषयसेवनं विमतात्ततः सत्वरं, __ यदीच्छसि शिवं तदा मनसि सुस्थतामानय । स एष परमः पथः शिवपुरस्य जीवात्मनां, महच्चरितमद्भुतं न सुलभं समेषां हि तत्
॥७॥
विरक्तिमिति संश्रितः श्रुतिधनोल्लसत्साधन
स्त्रिधा विदितवैभवं भवविरागभावं विदन् । विचिन्त्य परिषेवते विमलबोधवैराग्यकं,
यशो हि वृणुते वरं शशिकरोज्ज्वलं सर्वतः
॥८॥
26
Page #36
--------------------------------------------------------------------------
________________
षष्ठोऽधिकारः
वैराग्यभेदाः [भुजङ्गप्रयातम्]
विरक्तिस्त्रिधा दुःखगर्भा दुरन्ता,
महामोहगभा पुननिगर्भा । विवेकात्मनां स्यात्तृतीया द्वितीया
ऽग्रिमा पाप्मनां दुःखभाजां जनानाम्
॥१॥
त्रिधा दुःखतो दूयमाना मनुष्याः,
कथञ्चिद्विरागत्वमाप्तास्तथापि । न चोपासते तद्यथावद्यतस्ते,
क्षणं प्राप्य सौख्यं विरागं त्यजन्ति
રો
हहा मोहमिथ्यात्वदोषेण दुष्टा,
न सम्यक् सदाचारचारं चरन्ति । सहन्ते महाकष्टमस्पष्टचित्ता,
भवं भूरिकालं करालं श्रमन्ति
રો
वहन्ति त्रिदण्डं जटां धारयन्ति,
शिलावत् स्थिरीभूय वल्मीकयन्ति । समानां सहस्रं नपस्यां तपन्ते,
न मुक्तिं लभन्ते कदाचित्तथापि
27
Page #37
--------------------------------------------------------------------------
________________
विवेकात्मनः सद्मनः सद् नम्र,
___ यदरिमन् गुणानां प्रवेशो विशेषात् । लसेत्तत्र वै ज्ञानगर्भो विरागो,
यतः स्यात् क्रमाच्चेतनो वीतरागः
॥५॥
न संसारकारागृहे शर्मलेशो,
भवेत् श्वभ्ररूपेऽत्र दौर्गत्यशेषः । तथा तथ्यमामन्य वैराग्यभावे
ऽनिशं ज्ञानगर्भ विरक्ता रमन्ते
lોદ્દો
क्रियाज्ञानवाज्यन्वितं ज्ञानगर्ने,
रथं संश्रिताः स्वस्थयोगात्मनीनाः । अनेकान्तमार्गे प्रयाणं दधाना,
क्षणान्मोक्षमुद् रङ्गधाम व्रजन्ति
विरागात्मनाऽसारसंसारसौधे,
प्रमादादिभिर्नैव मत्तेन भाव्यम् । जयो गोचरात्मेन्द्रियाणां विधेयो,
यथा स्याच्छरच्चन्द्रशुभ्रा यशःश्रीः
મોટો
For Private 28ersonal Use Only
Page #38
--------------------------------------------------------------------------
________________
सप्तमोऽधिकारः वैराग्यविषयः [हरिणी]
भवभवनतो निर्वाणं चेदवाप्तुमभीप्स्यते, करणनिकराणां विश्वासः क्षणं न विधीयताम् । दुरितभरितैरौर्जीवश्चतुर्गतिचारकात्पदमपि शिवे धर्तुं नेष्टे परात्मनि वर्त्मनि
॥१॥
तरुणहरिणो गीतोत्कर्णः पुरो हरिणीं श्रितः, करुणमरणं वज्राघातैः शरैर्व्यथितोऽञ्चति । श्रवणरसिकस्तद्वद्गीतात्तमोगतिमश्नुते, तदिह कुरुताच्छास्त्रश्रुत्या श्रुती हितसंहिते
॥२॥
नयनविषयं रम्यं रूपं निरूप्य तदाकुलः, पतग इव संमूढः प्राणी विमुञ्चति जीवनम् । न खलु विकलं येनोन्मार्गे प्रवर्तितमीक्षणं, निजपरहितं तेनाऽनन्तं प्रसाधितमीहितम्
॥३॥
यदिह मधुपो गन्धं जिघ्रन् सरोरुहबन्धने, पतति परितः प्राणानिष्टान् जहाति हहाऽवशः । तदिह सुरभि वाञ्छन् घाणेन्द्रियार्पितचेतनः, क्षयविरहितं शुद्धात्मस्थं न विन्दति सौरभम्
॥४॥
For Private
Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
बहुविधरसं स्वादं स्वादं गदार्दितमानसो, भवघनवने भ्रामं भ्रामं विमुह्यति मुह्यति । प्रभवति न वै दुःखात्माऽसौ शिवाय भवाय वा, सपदि रसनां तत्स्वाधीनां विधाय भवाभवः ॥५॥ कमलदलवत् स्निग्धस्निग्धं त्वगिन्द्रियगोचरं, चिरमभिलषन् स्पर्श सद्योऽधिगत्य च मोदते । गिरिवरगजः स्पर्शासक्त्या जहात्यपि जीवनं, कुरु तदचिरं चेन्मोक्षेच्छा त्वचो विजयं स्वयम् ॥६॥
भवमधिगतस्तिर्यङ् मोडमरोऽपि च नारको, भवति भवभूद् भूयो भूयो भ्रमलितरामिह । क्वचिदपि सुखं नैवाप्नोति स्वतत्रतयोज्झितो, विषयविकल: क्लेशावेशागवत्यतिदुःखितः
॥७॥
विषयविषतो येषां चित्तं भवेन्नहि चञ्चलं, विरतिरमणी तेषां सक्ता त्यजत्यपि नाऽञ्चलम् । अपि च ममता तेभ्यो दूरं व्रजत्यपमानिता, प्रसरति ककुपप्रान्ते प्रान्ते तदीययशस्विता
॥८॥
For Private
Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
तृतीय: प्रबन्धः अष्टमोऽधिकारः
ममतात्यागः
[द्रुतविलम्बितम् ]
सकलदोषसुपोषविषौषधि-र्विमलवित्तविनाशनिशाचरी । अकलकल्मषगाढतमस्विनी, विजयते ममता भववर्धनी
ममतयाऽमतया सह सङ्गतिं त्यज रतिं विरतेर्यदि वाञ्छसि । कृपणता न च यावदपाकृता, न समुदञ्चति तावदुदारता हृदि ममत्वमहो विलसेत्तरां, किमु भवेद् विषयैः प्रतनूकृतैः । हि भवेदहित्र विषोज्झितः किमपि केवलकञ्चुकमोचनात् शुचिमनास्तरुणी वरवर्णिनी, मलमणुं सहते न मनस्विनी । मलिनताविलमङ्कधृतात्मजं, सपदि चुम्बति सा ममतादृता यदिह लोचनगोचरमस्तित - ज्जगति पश्यति नैव विलोचनः । ममतया ननु यन्नयनं हृतं स तु यदस्ति न तत्पुनरीक्षते वितरणेन वदान्यतया कृतं सूतमहो चरितेन तपस्यया । भवतु भावनयाऽवनयात्वलं, यदि हृदो ममता न बहिष्कृता यदि विनाशयितुं ममतां मनः, परिचयं सह तत्त्वबुभुत्सया । विदधतादनिशं परितो यतो, द्वयममात्र न तिष्ठति कुत्रचित् प्रथमवर्णपुरो ममताकृतेः, शरनिपातनमाचर साचरम् 1 निजकरूपमरं प्रविमुच्य सा, समतया हितया परिणंस्यति
31
૫
સો
શક
કા
દા
॥७॥
૫૫
Page #41
--------------------------------------------------------------------------
________________
नवमोऽधिकारः
समता [तोटकम्] (शृङ्खलायमकम्)
समतां श्रय मोहविमोहपरां,
प्रमात्मकलामकलाममलाम् । मलसाधनशोधनशुद्धजलां,
जलकान्तमणीय रसोच्चसाम्
॥१॥
॥२॥
रसराजविराजनराजरमां,
रमणीधनयौवनरागहराम् । हरवत्स्मरमारणनेत्रधरां,
__ धरणीसमनिश्चलताप्तगुणाम् गुणगौरवकैरवचन्द्रविभा,
विभयाऽभयदा लयसन्निहिता । हितदाऽहितकृज्जनता हृदये,
दययोदयमातनुते समता
॥३॥
मतमात्मसुखं यदि चित्तवशं,
वशमानय तत्समतां सततम् । ततभोगसुखे निभृतो भरतो,
रतमात्मनि तत्समतानुभवः
॥४॥
32
Page #42
--------------------------------------------------------------------------
________________
भवसागरतोऽविरलं गरलं,
रलरोलविलोलकर समितम् । मितया समतामृतसत्कलया,
लयमेति परं क्षणवीक्षणया
नयसन्नयवर्मितधर्मबला,
बलनिर्जितदुष्टविकल्पदला। दललक्षसरोरुहहृत्सुषमा,
समता समसौख्यकरी जयति
॥६॥
।
यतिमानसवासनिवासकरी,
___ करिणीमिव सत् क्रममञ्जुचराम् चरणाचरणस्य फलैः सफलां,
फलदां समतां किलतां श्रयताम्
॥७॥
यततां समतानुगमाय जनो,
जननान्मरणाद् यदि भीतमनाः । मनसो विमलीकरणाय सदा,
सदनुष्ठितिपूर्णकराय तदा
૮ી
33
Page #43
--------------------------------------------------------------------------
________________
दशमोऽधिकारः
सदनुष्ठानम् [पञ्चाचामरवृत्तम्]
अनाद्यनन्तजन्मनः परम्परामनुत्तरां,
भवानुभावतः समन्ततोऽनुभूय चेतनः । न शर्म लेशमत्र विन्दते स्वकर्मणो वशः,
कथञ्चनाप्यवाप्य जन्म मानवं न्ववैति यत्
बलं कुकर्मणो विलीनतामुपागते सति,
श्रुतिं प्रयाति धर्मरूपमक्षरद्वयं ततः । विधातुमुल सेन्मनस्तदीयमुच्चकर्म सत्
परं दुरन्तमोहनीयकर्मणैति दुष्पथम्
अनुष्ठितिं प्रतिष्ठितामुपाचरन् चिरं गुणी, -
भवन् विलोक्य लोकमात्मनोऽमुखं सुखभ्रमम् । अतीवगाढमोहगृद्धिमाप्य बाढमीहते,
स्वभावनाशनं भवं विषामनुष्ठितिं दधत् ગો
बहिः सुखप्रसक्तमानसोऽभिलाषदोषतो,
गरं स्वधर्मवर्तनं विधाय नालमात्मने ।
अतो निदानवर्जनं जिनेश्वरैः प्ररूपितं, निदानमात्मरोगसन्निधानदानमीरितम्
કો
34
રા
રોકા
Page #44
--------------------------------------------------------------------------
________________
असंज्ञिवत् करोति धर्मकर्मे नोपयोगत
स्तदीयसाध्वनुष्ठितिः प्रगीयतेऽननुष्ठितिः । ततः फलं कलं न चाप्यते यतो मनोऽन्तरा,
कृतं विचारितं हितं हितं ददाति किं कदा ॥५॥
अनुष्ठितित्रयी मुधा मता मरौ कृषिर्यथा,
फलाय नालमित्यसौ सुधीभिरादृता न वै । अतो विशुद्धभावतोऽनिशं वृषं विधीयतां,
यतेत कः सचेतनस्तृणाय भूविकर्षणम् દો
यदर्थमात्मनो हितं विचार्य सत्क्रियाः कृता
स्तदर्थमेव सर्वथा मनोदृढं विधाय सन् । अवाप्य दर्शनं शिवङ्गमीहते शिवं शिवं,
भवं समीहते न तत्सुहेत्वनुष्ठितं श्रितः
यथा सुधा विषं मुधा करोति सत्वरं तथाऽ
भृता स्वनुष्ठितिर्भवं निहन्ति हन्त सन्ततम् । अनुष्ठितिद्वयीयमादृता हिताहितैहितै
र्विना मनो विशोधनं भवन्न जातु तत्त्वसौ
35
ucn
Page #45
--------------------------------------------------------------------------
________________
-
एकादशोऽधिकारः
मनःशुद्धिः [अनुष्टुप्]
રૂ
यथा रसायनं व्यर्थं, मलानां शोधनं विना । तथैवाऽऽचरणं सर्वं, मनः शोधनमन्तरा
તો मनः कपिर्मनो वाजी, मनोमरुन्मनो गजः । मनो दवानलः किं किं विनाशयति नोऽधृतम् રો क्षुधितमपि नाश्नाति, तृषितं न पिबत्यपि । क्लिश्नाति कल्पना जाल-मालितं मलिनं मनः अनिगृह्य मनः शुभ्रां, यां यामाचरति क्रियाम् । तया तया दुरन्तं हा, सन्धत्ते भ्रमतो भवम् निरर्थकं परायत्तं, दर्शं दर्शं मनो नयत् । दुष्टां गतिमवाप्नोति यथा मत्स्योऽत्र तन्दुलः
sો अगृहीतमना धर्म, विडम्बयति केवलम् । क्षणं योगी क्षणं भोगी, भूत्वा नाप्नोति सद्गतिम् ॥६॥ कुविकल्पानपाकर्तुं, सद्विकल्पानुपाश्रय । व्यवहारनयो यस्मा-दाद्यभूमौ महाबलः निश्चयनयमाविष्टो, विकल्पयति नो मनः ।। धृत्वा ध्यानं सितं श्रेयो, याति सम्यकत्वनिश्चलः ॥८॥
[अनुवर्तते]
॥७॥
Page #46
--------------------------------------------------------------------------
________________
जय शिव ! गौरि! जननि जय गड़े !!
2XMOCTO
डॉ. अभिराजराजेन्द्रमिश्रः कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी
चिराकारिता चिराराधिता प्राप्ता मया त्रिपुरहरनगरी जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१॥
मोहतमोऽपगतं ननु निखिलम् स्वयमपि नष्टं दुरितं कलिलम् ! अपरमभीष्टं नाऽप्यवशिष्टं
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२॥ कतिधा नाऽनुकीर्तिता काशी ? कतिधा नाऽनुचिन्तिता काशी ? कतिधा नाऽनुकाङ्क्षिता काशी ? जय शिव ! गौरि ! जननि जय गङ्गे ! ॥३॥
काशीविश्वेश्वरपदकमलम् यत्रैनोऽपहरति ननु सकलम् ! किमतः परं त्रिभुवने विमलम् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥४॥
seilene
37
Page #47
--------------------------------------------------------------------------
________________
-
-
-
विलसति यत्र कपर्दिकिङ्करः कालभैरवोऽप्यरिभयङ्करः । काशीदुर्गसुरक्षणचतुरः .. जय शिव ! गौरि ! जननि जय गङ्गे ! ॥५॥
नटति हसति धावति प्रकामम् लपति न लभतेऽल्पमपि विरामम् । तनुते काशी सुखमभिरामम्
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥६॥ यत्र कपालमोचनं तीर्थम् सन्तनुते निःश्रेयससौरव्यम् । धृतमरणोत्तरविमलविधानम् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥७॥
उत्तरदिशि वरणा रमणीया यमदिगञ्चलेऽसी महनीया । वाराणसी युगलपरिरम्भे
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥८॥ काशी किल गङ्गयाऽविमुक्ता गिरिशानन्दवनी भवमुक्ता । त्रिभुवनभूविस्तराऽतिरिक्ता जय शिव ! गौरि ! जननि जय गङ्गे ! ॥॥ ..
38
Page #48
--------------------------------------------------------------------------
________________
काश्यां वसनाद् वैभवमुक्तिः काश्यां मरणात्साक्षान्मुक्तिः । काशी पशुपतिमौक्तिकशुक्तिः
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१०॥ धूर्जटिमुष्टिगृहीता गङ्गा । धाराजलगुणमहिता गङ्गा । हरकार्मुकभा चपलतरङ्गा जय शिव ! गौरि ! जननि जय गङ्गे ! ॥११॥
दुरितनाशिनी धरणी काशी पुण्यवतां वैतरणी काशी । हरि-हर-विधिसङ्गमनी काशी
जय हर ! गौरि ! जननि जय गङ्गे ! ॥१२॥ निगमवन्दिताडप्यागममहिता विततपुराणकथाऽनुकीर्तिता । काशी सौगतार्हतोच्छ्वसिता जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१३॥
विविधधर्मभाषासङ्गमनी विविधवमभिः पुरोयामिनी । काशीहैव विमुक्तिदायिनी । जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१४॥
-
39
Page #49
--------------------------------------------------------------------------
________________
-
-
-
क्च नु चोला द्रविडाः क्व गुर्जराः क्वाऽऽन्धास्तैलङ्गाः क्व जित्वराः ? काश्यां के न समत्वतत्पराः ? जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१५॥
रेमे यत्र विशुद्धानन्दः सूर्यरश्मिमार्मिक स्सुगन्धः । योगसिद्धिसुमनोमकरन्दः
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१६॥ महामहोपाध्यायपदाको यच्छिष्यः कविराजमृगाङ्कः । तद्वशंवदो गोपीनाथः जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१७॥
यस्मिन्नतिवत्सला पुराणी माताऽऽनन्दमयी कल्याणी । तच्चरणेन्दीवरं प्रणम्यम् । जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१८॥
यः साक्षाच्छङ्कराऽवतार: वाग्वैदग्धी-पारावारः । करपात्रः कलिमलापहारः जय शिव ! गौरि ! जननि जय गड़े ! ॥१९॥
40
Page #50
--------------------------------------------------------------------------
________________
धर्मतत्त्वमार्मिको यतीन्द्रः आर्षपथारूढो वादीन्द्रः । यत्र जिजीव चिराय बुधेन्द्रः
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२०॥ करपात्रस्वामिनं नमामो वेदपारिजातं प्रणमामः । रामराज्यशंसिनो नुमस्तान् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२१॥
हिन्दुधर्मरक्षाव्रतलीनः । खलतुरुष्कहयदत्तखलीनः । यत्राऽभूद् गुरुरामानन्दो ।
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२२॥ यो विदधे ननु हिन्दुसमाजम् शक्ति-भक्ति-समतार्जवभाजम् । स जयति राघवनवाऽवतार: जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२३॥
अन्त्यजकुलजातं रविदासम् तन्तुबायपालितं कबीरम् । कृतदीक्षो जयतात्स देशिको ।
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२४॥ संस्कृतिदुःखसंकथोद्विग्नः दुःखनाशपथमार्गणमग्नः । सुगतोऽप्यहो यत्र शं यातो जय शिव ! गौरि ! जननि जय गढ़े ! ॥२५॥
For Private 4lersonal Use Only
Page #51
--------------------------------------------------------------------------
________________
$1111211111111111111111112222222222)
पञ्चदश: (१५) अगस्त्यः
डॉ. आचार्य रामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१
भारतध्वज ! वन्दनन्ते ।
अद्य ते गगने भ्रमन्तीम्, आकृति विश्वस्य देशाः, सर्पिणीमिव सञ्चलन्तीम् । स्वकीयसत्फुल्लनयनैरेकचित्ता विलोकन्ते । भारतध्वज ! वन्दनन्ते ॥१॥
अद्य भो ! इंग्लैण्डजाताः, भारते सत्याssग्रहेण, निरधिकारास्तेऽनुजाताः । परं विदधति भरतखण्डे, सर्वदा कुरु-क्रन्दनन्ते, भारतध्वज ! वन्दनन्ते ॥२॥
यथा देशे जलधिभङ्गाः, यूनियनज़ेक स्थलेषु कम्पिताः सन्ति हि त्रिरङ्गाः ।
42
$222222111111111111111111111111111121
Page #52
--------------------------------------------------------------------------
________________
सदा पश्यामः सहर्षम्,
ख्खे सवायुस्पन्दनन्ते,
___भारतध्वज ! वन्दनन्ते ॥३॥ प्रभाते सह जयतुकारैरुत्त दक्षिणे पूर्वे, पश्चिमे।सह पुष्पहारैः । हिमकणैः सामुद्रभङ्गैः, समं कुर्मः सिञ्चनन्ते ।
भारतध्वज ! वन्दनन्ते ॥४॥
freit
}}} 9414¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥
यशो नस्तव यशसिकेतो ! त्वदपमाने नोऽपमानः, जयं याहि सदेति हेतोः । तव कृते संत्यक्तप्राणाः, वीरपुरुषास्त्वयि रमन्ते ।
भारतध्वज ! वन्दनन्ते ॥५॥
**
**
नभोभूषा पूषा कमलवनविभूषा मधुकरो वचोभूषा सत्यं वरविभवविभूषा वितरणम् । मनौभूषा मैत्री मधुसमयभूषा मनसिजः सदोभूषा सूक्तिः सकलगुणभूषा च विनयः ॥
(वचनामृतशास्त्रनीतौ)
43
Page #53
--------------------------------------------------------------------------
________________
-
आस्वादः चिन्तनधारा
मुनिरत्नकीर्तिविजयः औदार्यं दाक्षिण्यं, पापजुगुप्साऽथ निर्मलो बोधः । * लिङ्गानि धर्मसिद्धेः, प्रायेण जनप्रियत्वं च ॥
(षोडशकप्रकरणम् ४/२)
धर्म-इति शब्दस्य श्रवणमात्रेणाऽस्माकं चित्ते यज्ञ-याग-पूजनसन्ध्या-इष्टगुणगान-इत्यादिरूपा क्रिया एव धर्मोऽस्ति-इति अभिप्रायः समुद्भवति । किन्तु वस्तुत एवं नास्ति । वस्तुतस्तु सर्वमेतद् न धर्मोऽपि तु धर्मक्रियामात्रम्। तर्हि को नाम धर्मः ? अत्र षोडशकप्रकरणे एवैकाऽद्भुता व्याख्या प्रदत्ता श्रीहरिभद्रसूरिपुङ्गवैर्यद् - 'धर्मश्चित्तप्रभवः' इति । एताभिरेतादृशीभिश्च क्रियाभिश्चित्ते आत्मनि वा गुणरूपेण सत्यरूपेण ज्ञानरूपेण च यः प्रकटति स एव धर्मः । याभिश्च क्रियाभिश्चित्ते परिवर्तनं न सञ्जायते नाऽपि गुणा ज्ञानं सत्यं वा प्रकटीभवन्ति ताः सर्वा अपि क्रियाः केवलं प्रवृत्तिरूपा एव सन्ति न धर्मक्रियास्वरूपाः । तत्र क्रिया अवशिष्यन्ते धर्मस्ततो निर्गच्छति । धर्मो न करणीयोऽपि तु प्राप्तव्यः प्रकटयितव्यश्च । विभिन्नानां क्रियाणामाशयोऽप्येष एव । एवं सत्यपि क्रियाणां धर्मत्वख्यापनं तु कारणे कार्योपचारादेव । आत्मस्वभावरूपं वास्तवधर्म,प्रति नयनस्वभावत्वात् क्रिया अपि धर्म एव । अथवा ता एव दिया धर्मत्वेन ख्याप्यते याभिर्गुणसत्यज्ञानादिरूप आत्मधर्मः प्रादुर्भवति, नाऽन्याः ।
Page #54
--------------------------------------------------------------------------
________________
-
Sote
धर्मोऽयं साधयितव्यः सिद्धश्च कर्तव्यः । धर्मे ईयत्ताया नास्ति किमपि महत्त्वम्, गुणवत्तैवाऽत्रेष्टव्या इष्टा च । किन्त्वद्येयत्ताया एव प्रभावः सर्वत्र दरीदृश्यते । यस्मिन् कस्मिंश्चिदपि कार्ये इयान् इयान् इयान् - इत्येव वाक्कोलाहलः श्रूयते । सर्वत्र सङ्ख्ययैव धर्मस्य साफल्यं गण्यते । सिद्धिरपि धर्मस्य तयैव मीयते । 'एष परमधार्मिकः, अर कथम् ? यतोऽनेनेयती इयती धर्मक्रिया कृता, इयत्तप आचरितम्, इयान् धनव्ययः कृतः - इत्यादि ।' किन्तु यस्य कस्यचिदपि मनुष्यस्य धर्मसिद्धिर्जाता न वा - इत्यत्र सत्पुरुषा एव प्रमाणम् ।
अत्र श्लोके श्रीहरिभद्रसूरिभगवद्भिर्धर्मसिद्धेलिङ्गानि सम्यग् वर्णितानि सन्ति । यस्य हृदये जीवने वा धर्मः सिद्धो जातः स कीदृशो और भवति-इत्यस्य प्रमाणानि एतानि । एतादृग्भिर्लक्षणैरेव ज्ञातुं शक्यते । यद् धर्मोऽस्य जीवने सिद्धो जातो न वा, नाऽन्यथा । एकैकं पश्यामः। (१) औदार्यम्
यो धर्ममाचरति स कदापि सङ्कचितहृदयो भवितुं नाऽर्हति । धर्म औदार्यं प्रकटयत्येव । धर्मो यत्र परिणतो जातस्तस्य हृदयं विशालं व्यापकं च भवति । यः सर्वान् स्वस्मिन् समावेष्टुं न प्रभवति तं कथं का नाम धर्मत्वेन वक्तुं शक्यते ? भिन्नभिन्नस्वभावान् जीवानाश्रित्य भिन्नभिन्नप्रकारो व्यवहारोऽभिप्रेत एव धर्मे, न किन्तु दुर्व्यवहारो व्यवहाराभावो वा कुत्राऽप्यभिप्रेतः । यो धर्मं साधयति स सर्वान् स्वीकरोत्येव, कांश्चित् मैत्रीभावेन कांश्चित् प्रमोदभावेन कांश्चित् करुणाभावेन कांश्चिच्च माध्यस्थ्यभावेन । सर्वानपि जीवान् स तेषां जोर हितचिन्तनरूपेण मैत्रीभावेन स्वकीयान् करोति, तत्राऽपि ये काम
45
Page #55
--------------------------------------------------------------------------
________________
गुणिजनास्तान् तेषां गुणप्रशंसनरूपेण प्रमोदभावेन स्वीकरोति, ये च मा दुःखिता दरिद्राः पीडिता वा तान् तदुःखनिवारणोपायचिन्तनरूपेण करुणाभावेनाऽङ्गीकरोति, ये च दोषयुक्ता जनाः स्वकीयान् दोषांन् स्वभाववशात् कर्मवशाच्च त्यक्तुं न प्रभवन्ति तेष्वपि द्वेषमनाप्य - 'भवतु नाम, एतेऽपि कालेन गुणिनो भविष्यन्त्येव' - इति माध्यस्थ्यभावेन तान् स्वकीयान् करोति । सर्वेषां हितं कल्याणमेव वा स सततमभिलषति । तस्य मैत्री स्वार्थरहिता भवति, प्रमोद ईर्ष्याशून्यो भवति, करुणाऽहंकाररहिता भवति माध्यस्थ्यं च तिरस्कारमुक्तं भवति । निरपेक्षमेव केवलमौदार्यं तस्य हृदये विलसति ।
स कस्मैचित् किञ्चिदपि ददाति चेदपि प्रत्युपकारमनपेक्ष्यैव और ददाति । दानं यदा स्वभावो भवति तदैव तदौदार्यमित्युच्यते । औदार्येण सहौचित्यमपि स रक्षति । मातापितृ-गुरु-कलाचार्य-वृद्धादिगुरुजनानां पर कार्येषु तस्य कर्तव्यबुद्धिरेव स्यात् न तूपकारबुद्धिरिति तत्रौचित्यम्, दीनानाथदरिद्रादिभ्यो दाने च तिरस्कारवृत्तेरभाव एवौचित्यम् । औचित्यपूर्वकमेवौदार्यं गुणत्वं बिभर्ति, अन्यथाऽहङ्कारं जनयति । (२) दाक्षिण्यम्
'दक्षिणोऽनुकूलस्तद्भावः दाक्षिण्यम्' । धर्मजन्यमेतद् दाक्षिण्यमस्ति न व्यवहारजन्यम् । व्यावहारिके दाक्षिण्ये कदाचित् सदसद्विवेकवैकल्यं दृश्यते । लज्जाऽपि तत्र दाक्षिण्यस्य पर्यायरूपा भवति । तादृशं च का दाक्षिण्यं कदाचिदसत्कार्येऽपि प्रवर्तयति । किन्तु धर्मजन्यं दाक्षिण्यं तु र सदसद्विवेकयुक्तमेव भवति । सत्प्रवृत्तिष्वेव तस्य रुचिः प्रवर्तते प्रवर्धते च । कस्याऽपि सत्प्रवृत्तिं सत्कार्यं वा श्रुत्वा स तत्रोत्साहितो भवति,
46
Page #56
--------------------------------------------------------------------------
________________
न केवलं लोकदृष्ट्या किन्तु शुभाशयेन गुणग्राहिस्वभावतया च । अत एव च परसत्कृत्यानां प्रशंसां श्रुत्वा स न कदापि ज्वलनमनुभवति किन्त्वानन्दमेवाऽनुभवति । एतादृशो जनो गम्भीरो धीरश्च भवति । स गम्भीरो भवति न गूढः, स धीरो भवति न भीतः । सत्प्रवृत्तिषु स्वस्य परस्य चाऽपि क्षतिं सोढुं तस्य गाम्भीर्यं यथाऽस्ति तथाऽसत्प्रवृत्तीनां निषेधे धैर्यमपि तस्य अस्ति ।
(३) पापजुगुप्सा
धर्मपापयोर्मध्ये सूर्यान्धकारयोरिव सम्बन्धोऽस्ति । एकस्याs - स्तित्वेऽपरं न तिष्ठत्येव । धर्मो यत्रोदितः सिद्धश्च जातस्तत्र कथं नाम पापं पापवृत्तिर्वा स्थातुमलं भवेत् ? धर्मस्य कर्ता केनाऽपि रूपेण पापं नाऽनुमन्यते कदापि । पापं प्रति जुगुप्सा तस्य हृदये उत्पद्यत एव । पश्चाच्च तस्य वृत्तितः प्रवृत्तितो विचारतश्चाऽपि पापं शनैः शनै: निवर्तते । स्वस्य लाभाय यज्जायेत तत्सर्वं कर्तव्यरूपं सद् वा स्यात्, तदेव तादृशमेव वा कार्यं यदि परः करोति तदा तु तदसदेव - इति तस्य गणना न भवत्येव । यत्पापरूपमकर्तव्यं च तत्पापरूपमकर्तव्यमेव भवति । स पापं पापत्वेनैव पश्यति स्वीकरोति च तत्स्वकृतं वा स्यात् परकृतं वा । न कदापि तत्प्रवृत्तौ स मुदमाप्नोति । कदाचिदनिवार्यरूपेण यदि तादृशं किमपि स्वल्पमपि करणीयं स्यात् तर्हि तदर्थं
हृदयेस दुःखमनुभवति यत्- 'कदाऽहमेतस्मात् मुक्तो भविष्यामि ?' इति । धर्मं कुर्वन् सन्नपि हृदये पापभयं पापजुगुप्सा वा नोद्भवेत्असम्भवमेतद्। एतत्तु तदैव शक्यं यदा कदाचित् धर्मं सम्यगनवबुद्ध्यैव कोऽपि धर्मं करोति अथवा किमपि स्वार्थं पुरस्कृत्य वा धर्मं करोति ।
47
Page #57
--------------------------------------------------------------------------
________________
अन्यथा पापजुगुप्सा त्ववश्यंभाविन्येवाऽस्ति । सूर्यो नामैव प्रकाशः, कथं तस्मिन्नुदिते सत्यन्धकारः स्थातुमलं भवेत् ? यथैतन्न सम्भवति तथैव धर्मे उदिते सति चित्ते पापमपि स्थातुं न प्रभवति एव। धर्मो यस्य हृदये उदितस्तस्य हृदये पूर्वकृतानां पापानां पश्चात्तापः प्रवर्तते, वर्तमानकाले क्रियमाणानां पापानां स संवरणं करोति तथा भविष्यत्काले करिष्यमाणानां पापानामकरणप्रतिज्ञामपि स करोति । धर्मसिद्धे- र रेतत्फलमस्ति। (४) निर्मलो बोधः
यथा यथा धर्मस्याऽऽचरणं भवति तथा तथा हृदयं निर्मलं भवति, अन्तःस्थं ज्ञानज्योतिः प्रकाशितं भवति, बोधश्च निर्मलो भवति, यतस्तस्य और धर्मस्य मूलमस्ति सम्यग्ज्ञानम् । ज्ञानपूर्वकः कृतो धर्म एव समीचीनो भवति । किं सत् किमसत् ?, किं कर्तव्यं किमकर्तव्यम् ?, किं मम परकीयं च किम् ?, आत्मा कीदृशो देहः कीदृशः ?, संसारः कीदृशः तत्सम्बन्धाश्च कीदृशाः ? - एतादृशः सर्वोऽपि तस्य बोधः स्पष्टो भवति, विवेकश्च चित्ते जागर्ति । यथा यथा च बोधस्तस्य निर्मलो निर्मलतरो वा भवति तथा तथा सङ्क्लेशा हीयन्ते उद्वेगा: क्षीयन्ते चित्तं च शान्तं प्रशान्तं गम्भीरमुदारं च भवति । एतादृशं क्लेशविमुक्तं जीवनमेव किं धर्मस्य वास्तवं फलं नास्ति खलु ? (५) जनप्रियत्वम्
यः सम्यग् धर्ममाचरति स जनप्रियो भवत्येवेत्यत्र नास्ति कोऽपि न संशयः । एतादृशं गुणिनं धार्मिकं जनास्तु प्रशंसन्त्येव किन्तु तत्सार्धमेव धर्ममपि प्रशंसन्ति धर्मं प्रति च रुचिमन्तश्चाऽपि ते भवन्ति । एवं च
48
Page #58
--------------------------------------------------------------------------
________________
दीपाद्दीपशतमिव शुभानां पुण्यकार्याणां चाऽनुबन्धो भवति । धर्माज्जायमानं जनप्रियत्वं न कदाप्यहङ्कारं जनयति । तादृशो जनो न स्वकीयं जनप्रियत्वं स्वार्थाय स्वलाभाय वोपयुनक्ति किन्तु परोपकारे एवोपयुनक्ति। ये ये जनास्तमनुसरन्ति तान् सर्वान् स सत्कार्ये परोपकरणे च नियोजयति । एवं च तेषां परेषां च हितं साधयति ।।
चित्तप्रभवो धर्मोऽयमेवाऽस्ति नान्यः । एतस्मिन् सिद्धे सति सर्वोऽपि व्यवहारो माधुर्यपूर्णो भवति तथा च जीवनमपि सौन्दर्यपूर्ण भवति ।
का
बाले बाला विदुषि विबुधा गायने गायनेशाः शूरे शूराः निगमविदि चाऽऽम्नायलीलागृहाणि । सिद्धे सिद्धा मुनिषु मुनयः सत्सु सन्तो महान्तः प्रौढे प्रौढा: किमिति वचसा तादृशा यादृशेषु ॥
(भट्टकुमारकाव्ये)
49
Page #59
--------------------------------------------------------------------------
________________
आस्वादः सदाचारः
मुनिधर्मकीतिविजयः शोभन आचार इति सदाचारः । सद्विचाराणां पालनमिति सदाचारः ।।
इह-परलोकहिता प्रवृत्तिः सदाचारः । सन्तः- वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षाः पुरुषविशेषाः, तेषामाचारः सदाचारः ।।
न हि खलु साधकजीवैर्धार्मिकजीवैश्चैव स सदाचारः पालनीयः, किन्तु सामान्यजनैरप्येष गुण आसेवनीयोऽस्ति । सदाचारस्तु गुणराजोऽस्ति । यथा यदि राजा वशमागच्छेत्तर्हि तद्देशस्य सर्वेऽपि प्रजाजना अधीनं भवन्त्येव, तथैव जीवने सदाचारः प्रविशेत्तर्हि अन्ये सर्वेऽपि गुणाः स्वयमुत्पद्यन्ते । सर्वेऽपि गुणास्तदधीनाः सन्ति । अत एव सर्वैर्जनैरेष गुण आदरणीयोऽस्ति ।
सदाचारिणो जीवस्य वर्तनं कथनं च प्राकृतजनेभ्योऽन्यदेव भवति । न कदाऽपि स सदाचारी यथेच्छं लोकविरुद्धं च वर्तते । ततश्च सदाचार एव जीवस्य कुटुम्बस्य वंशस्य च कुलीनतां प्रमाणीकरोति । तथैव तस्य सदाचारिणो भाविकालमपि सदाचार एव ज्ञापयति ।
नास्त्यत्र कोऽपि नियमो यत्, 'उत्तमकुले जात एव सदाचारी भवितुं समर्थोऽस्ति' इति । कश्चिदपि जीवः सदाचारी भवितुमर्होऽस्ति । यतः सदाचारो नाऽऽगन्तुको गुणः, अपि त्वात्मनः सहजो गुणोऽस्ति । तथाऽपि कदाचिदधुना स गुणो मोहनीयादि-कर्मभिरावृतो भवेत् । किन्तु यदि नामाऽपाक्रियेत विवेकेन मोहनीयादिकर्मावरणं तर्हि स गुणः स्वत एव
For Private 850sonal Use Only
Page #60
--------------------------------------------------------------------------
________________
बहिरागच्छेत् । अतो हीनकुलेषु दरिद्रकुलेषु च जातः सन्नपि स विवेकपूर्णव्यवहारेण सदाचारी भवितुमर्हति । बहवो महापुरुषाः सन्ति ये हीनकुलेषु जाताः सन्तोऽपि सदाचारसुवासेनेतिहासपृष्ठे स्वनामाङ्कितं कृतवन्तः। एवं च सदाचारी जीवोऽत्र तत्र सर्वत्र पूजनीय आदरणीयश्च भवत्येव ।
सदाचारस्योपदेशदानं यावत् सरलं तावन्न सरलं तस्याऽऽचरणम् । अस्ति सदाचारस्य पालनं त्वतीव दुष्करम् । साम्प्रतं सर्वेऽपि जनाः सदाचारस्य सूत्राणामुच्चैराराटिं कुर्वन्ति, किन्तु तत्र सदाचारस्याऽऽग्रहिणः, तस्य च पालनं कुर्वन्तः कियन्तो जनाः सन्ति ? हन्त ! अधुना तु सदाचारिणो जीवस्य दर्शनमपि दुर्लभमस्ति ।
न केवलमत्राऽस्मत्परिकल्पितेन सदाचारमात्रेण सच्चारित्री भवति । अपि तु शास्त्रेषु भिन्न- भिन्नरूपेण सदाचारो गीतोऽस्ति । तत्र पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः “योगिबिन्दु " नामके ग्रन्थे विस्तरेण वर्णितः सदाचारः ।
लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः ।
कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ १२६ ॥ सर्वत्र निन्दासन्त्यागो वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ॥ १२७॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति कुलधर्मानुपालनम् ॥१२८॥ असद्व्ययपरित्यागः स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ॥१२९॥
51
Page #61
--------------------------------------------------------------------------
________________
लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् ।
प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि ॥१३०॥ लोकापवादभीरुत्वम् - लोकेऽपवादो यथा न स्यात् तथा सदा सावधानं वर्तितव्यम्, तद् लोकापवादभीरुत्वम् । लोकापवादस्तु मृत्युनिभः सज्जनैः मन्यते । दीनाभ्युद्धरणादरः- दीनानां दुःखिजनानां दुर्बलजनानां चोद्धरणे सादरं
प्रयत्नो विधेयः । ३. कृतज्ञता- पूर्वमात्मन आपत्तिकाले योऽन्यरुपकारः कृतः तं संस्मृत्य
यथावसरं तेषामुपकारिजनानामुचिता भक्तिः करणीया । किन्तु न कदाऽपि कृतघ्नेन भवितव्यम् । यदाह- "कृतघ्ने नास्ति निष्कृति"रिति । सुदाक्षिण्यम् - सहजतया परकीयजनानां कार्यकरणे सोत्साहमुद्यमः कार्यः । तथा चाऽन्येषां कार्यं कृत्वा यत्र तत्र 'मया कृतमेतत्" एवं स्वप्रशंसा न कदाऽपि करणीया ।। सर्वत्र निन्दासंत्यागः - आस्तामुत्तमजनानां दुष्कृतस्य निन्दा, किन्तु, हीनजनानामपि दुर्गुणा यदि दृग्गोचरीभवेयुः तर्हि न कदाऽप्यन्येषां समक्षं तेषां निन्दा कार्या । तथा च न दुष्कृतं तेषां प्रकटीकरणीयम् । साधुषु वर्णवाद:- गुणिजनानामवश्यमेव प्रशंसा विधेया । तेषां प्रशंसयाऽस्माकं चित्ते तादृशाः सद्गुणा उत्पद्यन्ते तथाऽन्येषामपि हृदये आदरो बहुमानश्च संजायते। अवर्णवादस्तु बहुदोषकारी मन्यते । यदाह - परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥
(प्रशमरतिग्रन्थः १००)
For Private &
kasonal Use Only
Page #62
--------------------------------------------------------------------------
________________
न
७.
८.
एवं पृथग्जनस्याऽप्यवर्णवादो न प्रशस्तः, मवर्णवादेन किम् ?
अत्यन्तमापद्यदैन्यम् - पूर्वजन्मनोऽशुभकर्मवशात् कष्टे आपतिते सति न कदाऽपि हीनता दर्शनीया तथा च न हीनवचनं वदनीयमन्यान्प्रति । यतो हीनता ह्यार्तध्यानस्य कारणमस्ति । एवमार्तध्यानेन तु नवीनमशुभं कर्म बध्यते । अतो दैन्यमपाकृत्याऽऽपत्काले पौरुषं प्रकटीकरणीयम् । सम्पदि नम्रता यथाऽऽपत्तौ अदीनता तथैव सुखदकालेऽहङ्कारशून्यत्वेनैव भवितव्यम् । सम्पत्तिस्त्वभिमानजननी गीयते । गृहाङ्गणे लक्ष्मीदेव्या आगमने सति नम्रजनः सुजनश्चाऽपि गर्वोन्मत्तौ उद्धतौ च भवतः । नाऽन्यत् किन्तु तदेवाऽऽश्चर्यकारि यत् सम्पत्कालेऽपि चित्तेऽभिमानादिदुर्गुणा न स्फुरेयुः ।
-
बहुजनमान्यजनाना
प्रस्तावे मितभाषित्वम् - विनाऽवसरं न वक्तव्यम् । अथाऽऽवश्यककालेऽपि मितं स्वपरहितं चैव वचनं वदेत् । कदाऽपि तस्य सदाचारिणो मुखादमितमशुभं च वचनं न निर्गच्छेत् ।
उक्तं च- महुरं निउणं थोवं कज्जावडियं अगव्वियमतुच्छं । पुव्वि मइकलियं भांति जं धम्मसंजुत्तं ॥ [छाया मधुरं निपुणं स्तोकं कार्यापतितं अगवितमतुच्छम् । पूर्वं मतिसंकलितं भणन्ति यद् धर्म्मसंयुक्तम् ॥
१०. अविसंवादनम् - जनैः सावधानं वदनीयम् पूर्वं यदुक्तं तदेव पश्चादपि भाषेत । अपि तु पूर्वोदितेन कथनेन न विरुद्धं वचनं पश्चाद् वदेत् । वस्तुतो न कदाचिदपि कुत्रचिदपि यथा तथा भाषणीयम् ।
53
Page #63
--------------------------------------------------------------------------
________________
११. प्रतिपन्नक्रिया स्वीकृता नियमादयोऽवश्यंतया पालनीयाः । यदा कदाचित् शारीरिकपीडाया उपद्रवः, देवतादीनां प्रकोपः, स्वबन्धुजनानां विरोधश्च भवेयुः तथाऽज्ञानादबुधजना अवमन्येरन्, एवं सङ्कटे आपतिते सत्यपि प्राणत्यागेनाऽप्युररीकृतानां नियमादीनां सम्यक् पालनं कुर्यादेव । १२. कुलधर्मानुपालनम् - येन कारणेन स्वकीयो वंशः कलङ्कितो भवेत् तथा किमपि नाऽऽचरेत् । किन्तु स्वकुलस्य स्वकुटुम्बस्य च मर्यादामनुसृत्यैव सदा वर्तनीयम् ।
१३. असद्व्ययपरित्यागः
व्यसनार्थमहङ्कारपुष्ट्यर्थं च धनव्यय आत्मनोऽहितकारकोऽशुभकारी च भवति । अतः तादृशं धनव्ययं निराकुर्यात् ।
-
१५.
देवपूजा-नवीनजिनगृहनिर्माण-प्राचीनधर्मस्थानो
१४. सत्स्थाने व्ययः द्धारादिशुभकार्येषु दीनदुःखितपीडितसत्त्वानां साहाय्यकरणेषु च धनव्ययः प्रयोक्तव्य: । एषु सत्स्थानेषु सत्कार्येषु च धनस्य विनियोग एव लक्ष्मीनां फलमस्ति । यः शक्तौ सत्यामपि शुभमार्गे धनव्ययं न करोति तस्य गृहे भवान्तरे न भवति श्रीदेव्या आगमनम् । कथितं च- “व्यवसायस्य फलं वैभवोऽस्ति, तस्य फलं सुपात्रेषु दानमेवाऽस्ति । अन्यथा एतद्द्वयमपि दुर्गतेः कारणं भवति ।"
विशिष्टफलदायि कार्यं कर्तुं सदाऽऽग्रहः
1
प्रधानकार्ये निर्बन्धः करणीयः ।
-
-
१६. प्रमादस्य विवर्जनम् - मद्यपानं विषयो विकथा कषायो निद्रा चैवं प्रमादः पञ्चधाऽस्ति । यथाशक्ति तत्प्रमादस्योज्झनं विधेयम् ।
54
Page #64
--------------------------------------------------------------------------
________________
१७. लोकाचारानुवृत्ति:- शिष्टपुरुषैः मान्यजनैः साधुजनैर्वा यथा व्यवहियते तथा व्यवहारोऽस्माभिर्विधीयेत । तथाविधदेशकालयोर्या शिष्टसम्मता प्रणालिका-चर्याऽस्ति तदनुगुणमेव सदा वर्तनीयम् । आस्तां साधुजनैः सामान्यजनैरपि न जनविरुद्धं कार्यं कर्तव्यम् ।
कथितं च लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥ (प्रशमरतिप्रकरणम् - १३१)
अन्यथा स्वदेशकालविरुद्धाचरणेन तु तद्देशवासिजनताया विरोधसम्भावनात् भवेदनर्थः ।
१८. सर्वत्रौचित्यपालनम् - सर्वेषु स्थानेषु कालेषु जनेषु चौचित्यपूर्वकमेव सज्जनैः व्यवहर्तव्यम् । अत्रौचित्यार्हा नव विद्यन्ते । यथा- पिता माता बन्धुः पत्नी: तनयः स्वजनाः गुरुजना: नागरिकाः धार्मिकाश्च । १९. गर्हितेऽप्रवृत्तिः- यैः कार्यैः धर्मः स्ववंशश्च कलङ्कितौ स्यातां तानि निन्द्यकार्याणि कण्ठगतैः प्राणैरपि न आचरितव्यानि । निन्द्यकार्यकारिणोऽन्यत् शुभमपि कार्यं जने भवत्युपहासाय । तादृशामशुभकार्याणां त्यागादेवाऽऽचारशुद्धिर्भवति, तथाऽऽचाराशुद्धिरेव वस्तुतो धर्मोऽस्ति । अन्ते भिन्न-भिन्नरीत्योपरिवर्णितं सदाचारस्वरूपमवगम्य यदि चेत् केनाऽपि प्रकारेणाऽस्माकं जीवनेऽसदाचारो वर्तेत तदा तमसदाचारं विहाय वयं सर्वे लेशतोऽपि सदाचारिणो भवेमेति मे मतिः ।
55
Page #65
--------------------------------------------------------------------------
________________
-
अहिंसातत्त्वमनुष्ठानं च
स्वामिश्रीब्रह्मानन्देन्द्रसरस्वती
योगेवेदान्तमहाविद्यापीठम्
मत्तीकोप्प, पो. कल्मने ता. सागर, जि. शिवमोग्गा
६७७४०१
___ अहिंसा यद्यपि निषेधरूपेण लक्ष्यते तथापि सा विधायिका एव समस्ति, अन्यथा कुड्यस्तम्बादिस्थावरा अपि अहिंसन्तः, अहिंसानुष्ठायिनः कथ्येरन् । प्रेम, निर्वैरं, सहजीविषु सौहार्दै, आत्मीयता, आत्मौपम्यमेवाऽहिंसाया जीवसत्त्वम्, सारसर्वस्वम् ।।
कदाचित् पाण्डवकौरवाणां विद्याभ्यासे प्रचलति शिक्षणाधिकारी शालामागत्य उपस्थितान् छात्रान् प्रत्येकं पर्यायेण वर्षपर्यन्तं स्वशिक्षितं किञ्चिन्निवेदयितुमाज्ञप्तवान् । तदा दुर्योधनादयोऽजानन्तोऽपि पूर्णश्लोकं आदिमं अन्तिमञ्च श्लोकौ पठित्वा शिक्षणाधिकारिणे निवेदयामासुः अभिनन्दिताश्च । पर्यायेण धर्मपुत्रे पृच्छ्यमाने 'किं त्वया शिक्षित'मिति । तेन धर्मपुत्रेण न्यगादि मया द्वावेव पाठौ शिक्षितौ; वस्तुत एक एव पाठो मया शिक्षित इति वक्तुमुचितम् । प्रथमः पाठः सुष्ठ शिक्षितः द्वितीयस्तु किञ्चिदेव शिक्षितोऽद्याऽप्यपूर्णस्तिष्ठति । एवमत्यल्पशिक्षितं धर्मपुत्रं कट्वालोच्य निर्गते शिक्षणाधिकारिणि शालाध्यापकः धर्मपुत्रं प्रति भृशं कुद्धः वेत्रप्रहारेण तं दण्डयित्वा एवं पृष्टवान्-'रे रे मूर्खशिखामणे! कोऽसौ तव पूर्णं शिक्षितः पाठः कश्चान्यो योऽद्याऽप्यपूर्णशिक्षितस्तिष्ठति ? वद तावद् इति । धर्मपुत्रश्च अश्रूणि मुञ्चन्छ
hodae.des.ses.oroce-one-des-olce-des-oice-octors
For Private 56rsonal Use Only
Page #66
--------------------------------------------------------------------------
________________
स
स्थितोऽध्यापकं प्रत्यवक्, यतो हि 'नाऽहं सर्वज्ञः, अल्पश्रुतोऽह'मिति वास्तवं यथार्थमेव आर्जवेण मया निवेदितं शिक्षणाधिकारिणे, तेन प्रथमः पाठः अर्थात् सत्यसन्धता आर्जवं च मया सुष्ठु शिक्षिते इत्यवदम् । द्वितीयस्तु पाठः योऽद्याऽप्यपूर्णः शिक्षितस्तिष्ठति क्षमा । यद्यपि भवद्विहितं वेत्रप्रहारं दण्डनं मया प्रसन्नतया सोढं, तथापि तस्मिन् समये अन्यायेन मां दण्डयन्तं भवन्तं प्रति क्रोधः विद्वेषश्च मे मनसि समुद्भूतौ इत्यतः क्षमा- निर्वैरता नाम द्वितीयः पाठः पूर्णतया - ऽद्याऽप्यशिक्षितस्तिष्ठति इति यथार्थमेव मया निवेदितं गुरो !' इति ।
प्रेम, अनुरागो नाम तस्मिन् प्रियव्यक्तौ ममेत्यभिमानोऽर्थान्ममतैव । स्वहृदि अनुभूतस्य 'अहं' 'अह'मित्यन्तःस्फुरणस्याऽऽनन्दोत्कर्षस्य परस्मिन्नपि प्रियव्यक्तौ दर्शनमनुभवनमेव प्रेम नाम, अनुरागो नाम । अनेन प्रकारेण यदा व्यक्तिः व्यष्ट्यात्मा जलबिन्दुस्थानीयः, अतिमानसध्यानेन भावातीतात्मनिष्ठया बुद्धिसाक्षिणं प्रत्यगात्मानं, शुद्धचेतनमात्रं, सुखदुःखादिद्वन्द्वनिर्मुक्तं शान्तं नित्यतृप्तं सर्वचिन्तासमुत्थितं नित्यानन्दघनं, समुद्रस्थानीयं प्रत्यभिजानीते, तदा तत्समकाल एव सोऽसौ सर्वात्मा, विश्वात्मा, महात्मा बोभवीति । सर्वेषु भूतेषु यदा आत्मीयता आत्मौपम्यं प्रसरति तदा कुटुम्बसदस्येष्विव कुटुम्बसदस्येतरेष्वपि अभेदवृत्त्या क्षमा, प्रेम, दया, मैत्री, सौहार्दं च सहजमेव सञ्जायन्ते ।
इदमेव सत्यं उपनिषदा उच्चैरुद्घष्यते
"यस्तु सर्वाणि भूतानि आत्मन्येवाऽनुपश्यति सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते । "
57
-
Page #67
--------------------------------------------------------------------------
________________
-
SE
TEAM
"यस्मिन् सर्वाणि भूतानि आत्मैवाऽभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥" ई.३.७ ।। तथा च भगवद्गीतायां "सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।"
गी. ६-२९ "आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ! । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥" गी. ६-३२ "समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ॥" गी.१३-२८ "यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥" गी.१३-३० ___ आत्मीयतायां सत्यां आत्मौपम्ये सिद्ध एव यथा क्षमा प्रेम सौहार्द मैत्री च संतिष्ठन्ते तथैव तेनैव अन्योन्यव्यवहारे सत्यसन्धता अर्थात् आर्जवं, अन्योन्यं विश्वासः, अजिज़, अकुटिलता च स्थिरीभवन्ति । यत्र कुटम्बसदस्येषु अन्योऽन्यं आत्मीयता, आत्मौपम्यं वर्तते तत्र क्षमा, प्रेम, आर्जवं, सत्यसन्धता च सहजं संजायन्ते । एवं समस्ते न केवलं मानवसमुदाये, अपि तु पशुपक्षिजाते अपि आत्मीयता, आत्मौपम्यं इत्यादिकं अप्रयत्नेन सहजतया समुल्लसन्ति । तेऽपि नः सहजीविनो भूत्वा तेष्वपि नः क्षमा, दया, सौहार्द, सद्भावना च सञ्जायन्ते। __ अनेन अहिंसातत्त्वविचारोऽवसितः । इदानीं प्रकृतमहिंसाया अनुष्ठानम् । तस्याः प्रायोगिकतां विचारयामः ।
द
2.
58
Page #68
--------------------------------------------------------------------------
________________
हिसाताण्डवस्य अवलो
T
अहिंसायाः अनुष्ठानं प्रायोगिकता च
प्रथमं परधर्मद्वेषस्य तत्कृतस्य च हिंसाताण्डवस्य अवलोकनं । तावत्कुर्मः । अरब्बीप्रवाद्यनुयायिनां मन्तव्ये ईश्वरः खुदेति कथितः स्वकल्पितो व्यक्तिरूपेश्वरः । अत एव देशकालपरिच्छिन्नः मर्त्यस्वभावः स एव नैजो देवः । अन्यधर्मेष्वाराधिता देवाः तुच्छा: हीनाः । महम्मदीयान् विहाय परधर्मीयाः सर्वे काफिराः (Infidel) येषांक समूलविनाशः न केवलं नैव पापकृत्यं, नैव दोषाय, अपि तु तेषां महम्मदीयजनाङ्गस्य आद्यं कर्तव्यमेव । सोऽयमन्यधर्मीयाणां व्यवस्थितनिर्मूलनं 'जेहाद्' इति कथितं, यत् बाबरुप्रभृति औरङ्गजेब्पर्यन्तं विजृम्भितं, यच्च अद्याऽपि भारतस्य वायव्यभागे (ईशान्ये च क्रैस्तवानुयायिसमेधितं)-उग्रगामिकृतं विजृम्भते, एकान्तेन हिन्दुमन्दिराणां लुण्ठनं, बलात्कारेण मतान्तरणं, असम्मते मतान्तरणे मरणदण्डनंसर्वमेतत् ऐतिहासिकं कटुसत्यं सर्वविदितं वर्तते ।
किञ्च महम्मदीयानां मते केवलं मनुष्यस्यैव आत्मा (Soul) अस्ति । पशुपक्षिणां तावद् आत्मा नास्ति, ते च पशुपक्षिणः सृष्टिकृता करुणामयेन मानवानां आहारार्थमेव, निहत्य भक्षणार्थमेव सृष्टा भवन्ति।। संवत्सरे एकस्मिन् पर्वदिने समेतां मूकप्राणिनां गो-अजाव्यादीनां मूकप्राणिनां सहस्रशः सामूहिकं निर्दयं हननमाकण्ठं च भक्षणं प्रचलति। मनुष्याणामात्मास्तित्वस्य तथा पशुपक्षिणामात्मराहित्यविषये क्रैस्तवजनाङ्गस्य महम्मदीयानाञ्च सहमतिरस्ति । अस्मिन् विषये प्रमाणनिरूपणं बैबल्-धर्मग्रन्थे पश्यामः । कदाचिद् ईसुप्रभुः सूकरसमुदायस्यैकस्य पैशाचत्वारोपणेन सामूहिकहत्यां व्यदधात् । नूनमिदं दारुणो निर्दयः पशुमेधः सर्वथाऽसमर्थनीयः सन् प्रातिवेश्मिकस्या-ऽप्यात्मवत् प्रियदर्शनं (Love thy neighbour as thyself) नैव भवितुमर्हति ।
प्रियदर्शन
59
Page #69
--------------------------------------------------------------------------
________________
।
(Indeed a montsrous, cruel act of ordering the killing out of those dumb creatives, our fellow beings, quite unbecoming of the apostle of love).
अत्र वैज्ञानिक तथ्यं किमिति जानथ ? वस्तुतः तेषामपि पशुपक्षिणामपि आत्मा मनुष्याणामिव समान एवाऽस्ति । अस्माकमिव इन्द्रियविषयोपभोगः, सुखदुःखानुभवः, मोहशोकादिवेदनाश्च तेषां समानैव । केवलं तेषां वैशिष्ट्यं, न्यूनता च मनुष्याणामपेक्षया इयमस्ति यद् यद्यपि ते इन्द्रियार्थान् भुञ्जते सुखदुःखादिवेदनाश्चाऽनुभवन्ति तथापि 'अहं अस्य प्रमाता भोक्ता कर्ता' इत्येवंप्रकारं विवेचनं आत्मप्रज्ञा अहंबोधश्च (Self-Awareness) तेषां नास्ति । नूनं बुद्धिसामर्थ्य, ग्रहणस्मरण-भावन-योजन-भाविकल्पनादिचित्प्रवृत्तिषु, सौहार्द-मैत्रीसहानुभूति-कृतज्ञतादिविषयेषु ते पशुपक्षिणो मनुष्यानप्यतिशेरते । अत्र प्रसङ्गमेकमुदाहरामः । __ पूर्वं रोम्चक्राधिपत्ये आण्ड्रोक्लिस नामको युवा दास (Slave) आसीत् । एकदा राज्ञो रञ्जनाय आयोजितायां क्रीडायां सिंहेन सह योद्धं स: सिंहावरोधे प्रक्षिप्तः । तत्र युध्यता सिंहेन प्रेमवात्सल्येन स समालिङ्गितः । तेन सिंहेन सह मोदमानं नृत्यन्तं आण्ड्रोक्लिसं वीक्ष्य प्रेक्षकवृन्दं विस्मयमूकं स्तब्धं चाऽभवत् । पूर्वं कदाचित् आफ्रिकीये कस्मिन्श्चिदरण्ये विहरता आण्ड्रोक्लिसेन सिंह एकोऽनतिदूरे पादतले कण्टकविद्धो यातनया दूयमानोऽवलोकितः । सहजानुकम्पया स सिंह मंदं मंदमुपसृत्य पादतलवेधकं कण्टकं विकृश्य च विमोचयामासः । स च सिंह: कञ्चित् स्वोद्देशं पलायितः । अयमेव केसरी यः काकतालीयेन राजभटैः आण्ड्रोक्लिसेन दासेन सह राज्ञो मनोरञ्जनाय यो मरण्यादानीत आसीत् । राज्ञा अभिनन्दिताय आण्ड्रोक्लिसाय
C
.
..
60
Page #70
--------------------------------------------------------------------------
________________
की
बहुमानरूपेण प्रदत्तो मृगराज आण्ड्रोक्लिसेन रोमनगरवीथिषु श्वा इव इतस्ततो नीयमानो जनान् बहु रञ्जयति स्म ।
यद्यपि ते पशुपक्षिणः साहित्यसंगीतकलासु पुण्यपापविवेचने, दीर्घविस्तृतयोजने च मनुष्याणामपेक्षया दौर्बल्यं न्यूनसामर्थ्यं च दधते, तथापि कृतज्ञताविषये, उपकारस्मरणे, मनुष्यजाति नूनमतिशेरते ननु ?
अत्रैव अहिंसानुष्ठानप्रसङ्गे प्रकृते प्रकरणान्तरं तत्रैव बैबल-ग्रन्थे निदर्शनत्वेन लभ्यते । मार्गच्युतपुत्रपरावर्तनप्रसङ्गे (Return of the prodigal son) तस्य मार्गभ्रष्टस्य पुत्रस्य परावर्तनसमये तमभिनन्दितुकाम उत्सवमाचरितुकामश्च तस्य पिता सेवकानादिशति-'गच्छत तूर्णं, पीनं सुपरिपुष्टं गोवत्समानयत, तं छित्त्वा सर्वे वयं आकण्ठपूर्ति भक्षयित्वा नन्दामः' इति । नूनमिदं 'आत्मौपम्येन प्रातिवेश्मिकस्य प्रीणनं' नैव (Loving thy neighbour as thyself) भवितुमर्हति । ____ अत्र कश्चिदाक्षिपेत् - 'हिन्दुधर्मीयेष्वपि स्वजिह्वातोषणाय प्राणिजातस्य प्राणानपहरत्सु सत्सु कथमिदमन्यधर्मीया एव प्राणिहिंसया अधिक्षिप्यन्ते ? अत्र समाधीयते - योऽपि चाण्डालः अस्मत्सहजीविनां मूकप्राणिनां प्राणानपहरन्ति मृगयाव्यसनेन वा, मांसभक्षणेच्छया वा, सोऽयं, यत्किमपि नाम दधातु तत्र न कश्चिद्विशेषः । सोऽयं हिन्दुम्लेच्छो वा महम्मदीयम्लेच्छो वा क्रैस्तवम्लेच्छो वा अन्यनाम्नो वा म्लेच्छो भवतु तस्य गुणकर्मनिर्णीतो म्लेच्छस्वभावः म्लेच्छत्वं क्रूरकर्मित्वं तं । न जहाति । एवमपि हिन्दुधर्मीयाणां, अर्थात् सनातनधर्मीयाणां तु समाधानकरोऽशो विद्यते यत् एतन्म्लेच्छवृत्तिमातिष्ठतां प्रतिशतं संख्या (Percentage) इतरधर्मीयाणामपेक्षया अत्यल्पाऽस्ति ।
उक्तं संगृह्णीमः, महम्मदीयानां आत्मीयता, आत्मौपम्यं च केवलं
।
Page #71
--------------------------------------------------------------------------
________________
स्वधर्मीयान् संवृणोति, इतरधर्मीयान् मानवान्, तथा च अन्यं प्राणिसङ्कलं वर्जयति, द्वेष्टि, तुच्छीकरोति ।
अथ क्रैस्तवधर्मीयाणामात्मीयता, आत्मौपम्यं च यद्यपि न केवलं स्वधर्मीयान् अपि तु इतरधर्मीयानपि मानवान् संवृणोति, तथापि प्राणिजातं वर्जयति, द्वेष्टि, तुच्छीकरोति । हिन्दुधर्मीयाणां तु आत्मीयता, आत्मौपम्यं च न केवलं स्वधर्मीयान् अपि तु परधर्मीयान् मानवान्, तथा च प्राणिजातं संवृणोति । तान् इतरधर्मीयान् मानवान् तथैव प्राणिजातं नैव वर्जयति, द्वेष्टि, तुच्छीकरोति वा, किन्तु तान् सर्वान् सादरमात्मवत् पश्यति । अहिंसायाः प्रायोगिकतादृष्ट्या त्रैविध्यम्
व्यावहारिकदृष्ट्या (From the standpoint of practicality) अर्थात् प्रायोगिकतादृष्ट्या (From the standpoint of expediency) अहिंसा त्रिधा विविच्यते । तद्यथा
(1) आर्षा अहिंसा (Spiritual Sublime Non-violence) (2) ATET BEHI (Expedient Non-violence) (3) FARTUCHT BEFEHT (Deterrent Non-violence)
आद्या आर्षा अहिंसा नाम ऋषि-मुनि-तपोनिधीनां सहजा निर्वैरनिष्ठैव । जितकामकोधा जितेन्द्रियाः समस्तभूतसमुदाये आत्मीयतां धारयन्तः, परमशान्ताः, परमकारुणिकाः, न केवलं मनुष्येषु अपि तु क्रूरहिंस्रेष्वपि मृगेषु स्वतपःप्रभावेन निर्वैरतां समुद्भावयन्ति । गौतमबुद्धो शाक्यमुनिः उग्रलुण्ठाकमङ्गलिमालं सन्मार्गगामिनं सम्पाद्य तस्य हृदयपरिवर्तनमकरोत् ।
62
Page #72
--------------------------------------------------------------------------
________________
___ अम्बरीशो राजर्षिः क्रोधमूर्छितेन दुर्वाससा प्रवर्तितया दुष्टशक्त्या कृत्यया अभ्याक्रान्तोऽपि हरिभक्तिवज्रकवचायितः सन् सुतरां निर्भीतोऽप्रकम्पितः सुरक्षितः समासत । ततश्च प्रधावन्तं दुर्वाससं त्रिलोक्यामपि निराकृतशरणार्थिनमनुधावता सुदर्शनचक्रेण बहुक्लिश्यमानाय तस्मै अभयं दत्वा आर्षाहिंसायाः ज्वलन्तं निदर्शनं स्थापयामास । एवमेव प्रह्लादस्य हरिभक्तिपरायणस्य निर्वैरप्रभावेन पित्रा हिरण्यकशिपुना प्रेरिताः सर्वा बाधाः शीघ्रतया निरस्ताः । किञ्च दुरध्यवसायिनो हिरण्यकशिपोरपि सद्गतिः संपादिता । __अर्वाचीनाः कबीर-नानकादयोऽपि आर्षाहिंसायाः श्रेष्ठं निदर्शनं । स्थापयाञ्चक्रिरे । समेषां सात्त्विकानां संख्या लोकेऽतिविरला, अत एव द्वितीयविधा क्षात्राहिंसाऽवश्यानुष्ठेया भवति । राजसाया अस्याः क्षात्राहिंसाया विना केवलया उपर्युक्तया सात्त्विकया आर्षाहिंसया तामसशक्तीर्दमयितुं विजेतुं च सुदुष्करं यतो हि तादृशी सात्त्विकी अहिंसा तामसदुर्जनैः दौर्बल्यमित्येव, प्रच्छन्नक्लैब्यमित्येवमुपेक्ष्यते, परिहस्यते च । अत एव सात्त्विकाहिंसायाः तामसशक्ती: विरुद्ध्य प्रवर्त्यमाने युद्धे क्षात्राहिंसाऽवश्याश्रयणीया भवति । गान्धीमहात्मना प्रयुक्ता केवला सात्त्विकी अहिंसा, क्षात्राहिंसासहायरहिता निष्फला भूत्वा राष्ट्रविभजने (Partition), परकीयदुर्मदान्धैः भारतभूमेराक्रमणे, विशेषेण जम्मुकाश्मीरराज्ये प्रवर्तिते प्रवर्तमाने चाऽव्याहते नरमेधे, पण्डितसमुदायस्य च निष्कासने, निर्वासितत्वे निराश्रितत्वे च पर्यवसिता। अनयैव च सात्त्विकाहिंसया क्षात्रहीनया, दुर्बलतया, अस्थानया मृदुधोरणया एव प्रातिवेशिकराष्ट्रप्रोत्साहितेभ्यो भयोत्पादकेभ्य उग्रवादिभ्यो मुक्तसहायः संपादितः इत्येतत् सर्वं सर्वविदितं, ऐतिहासिकं
63
Page #73
--------------------------------------------------------------------------
________________
कटुसत्यम् । अत एव क्षात्राहिंसा राष्ट्रसुभद्रतादृष्ट्या सुरक्षतायै अवश्यानुष्ठेया भवति ।
यथा देहस्य कस्यचिदवयवे रोगग्रस्ते, तस्य रोगस्य सर्वावयवसङ्क्रमणेन संभाव्यमानां प्राणहानिं वारयितुकामो दक्षः शस्त्रचिकित्सकस्तं रोगग्रस्तमवयवं छित्त्वापि रोगिणं सञ्जीवयति तस्मै रोगिणे महदुपकरोति, यथा च केषुचिच्छात्रेषु संभाव्यमानां शीलचारित्र्यभ्रष्टतां वारयितुकामो दक्षः कश्चित् शिक्षकस्तान् छात्रान् सम्यग् दण्डयति, तथैव राष्ट्रीयसुरक्षतायै प्रजानां चाऽनातङ्कितजीवननिर्वाहणाय क्षात्राहिंसाऽवश्यानुष्ठेया भवति ।
अत एव श्रीकृष्णो दुर्योधनादिभिर्दुष्टतामसशक्तिभिरापद्यमानं प्रजासंक्षोभं वारयितुकामोऽर्जुनं क्षात्रवीराग्रण्यं प्रति बोधयामास 'क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तपे 'ति ।
अथ तृतीया निरोधका अहिंसा । अयं च अहिंसानुष्ठानप्रकारः शत्रुं तर्जयित्वा तस्य नो विरुद्ध्य दुराक्रमणसाहसं वारयितुमुद्दिष्टो भवति (Preventive Deterrence) | अद्यतने काले शक्तिसंपन्नै राष्ट्रैर्युद्धस्य, भीकरहत्याकाण्डरूपस्य, रक्तरञ्जितस्य व्यर्थतां शान्तसुखसमृद्धजीवनविघातकतां सुष्ठु जानद्भिरनुष्ठिता अहिंसा एवंरूपा निरोधका अहिंसा भवति । इयं नीतिः 'तटस्थतर्जन' मित्यपि (Brinkmanship) व्यवह्रियते ।
कस्मिंश्चित् वनोद्देशे भयङ्करः सर्प एको मार्गपार्श्वस्थे तरुकोटरे निवसन् पथिकेषु बहुभीतिं जनयति स्म । इदं पश्यता केनचिन्मुनिना शान्तमूर्तिना सोऽयं सर्पः 'सर्वथा त्वया निर्वैरेण भाव्यम्, अपकारिष्वपि प्रतीकारं मैव कुरु' इत्युपदिष्टः । अहिंसाव्रतदीक्षां तस्मै सर्पाय दत्त्वा
64
Page #74
--------------------------------------------------------------------------
________________
का opan
Shrs मनिः स्वेच्छया ततो निरगात । एतन्मध्ये सर्पण साधूपदिष्टमहिंसाव्रतं
तत्त्वशोऽक्षरशश्च पालितम् । भृशं प्रकोपितेऽप्यप्रतीकारव्रतनिष्ठं सदैव तूष्णीं स्थितं दृष्ट्वा तन्मार्गगामिनः शालाच्छात्रा लगुडैरश्मखण्डैश्च दीनवराकं तं सर्प प्रहृत्य तं क्षतविक्षताङ्गं मृतप्रायं चक्रुः। कतिचिद्दिनानन्तरमहिंसाव्रतोपदेष्टाऽसौ मुनिपुङ्गवस्तदरण्यमार्गगामी सर्पराजं क्षतविक्षताङ्गं जर्जरितसर्वावयवं, मृतप्रायं, दीनदुर्बलं ईषच्चलितुमप्यशक्तं वीक्ष्य 'किमापन्नं भोः ? कथं तव ईदृशी दुरवस्था ?' इति तं पृष्टवान् । सोऽवदत् पूज्यपाद ! अहिंसा, निर्वैरता, अपकारिष्वपि सर्वथा अप्रतीकारो भवदुपदिष्टास्तत्त्वशोऽक्षरशश्च: मया अनुष्ठिताः । तेन मे इयं दुर्गतिरिति न्यवेदयत् । मुनिरवक्, 'मन्दबुद्धे ! पथि सञ्चरतो दंशनं मा कुरु' इति मात्रमुपदिष्टं खलु मया । 'त्वं सीत्कारं फुत्कारं च मा कुरु' इति नैव उपदिष्टम् ।
___ कदाचित् बलप्रयोगं विनाऽपि बलप्रदर्शनमात्रेण क्रियासिद्धिर्भवति । ABI नखनिकृन्तनेनैव कार्ये साध्ये खड्गप्रयोगो नाऽपेक्ष्यते ।
अनेनाऽहिंसातत्त्वस्य तदनुष्ठानस्य तत्प्रायोगिकतायाश्च विचारोऽवसित - इति शम् ।
मातेव सर्वभूतानामहिंसा हितकारिणी अहिंसैव हि संसारमरावमृतसारिणी ॥
(योगशास्त्रे-हेमचन्द्राचार्यः)
65
Page #75
--------------------------------------------------------------------------
________________
पत्राम
मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
___धर्मलाभोऽस्तु । पूज्यपादगुरुभगवद्भिः सह वयं सर्वेऽप्यत्र कुशलाः स्मः । तत्रत्यानामपि सर्वेषां कुशलं कामये ।
बेंग्लूरुनगराद् विहत्य वयं सर्वेऽपि चेन्नैनगरं प्राप्नुम । विहारयात्रा सुखं प्रवृत्ता ।
पूर्वयोर्द्वयोः पत्रयोः “कर्मणा शुद्धि''रिति सूत्रेण विधेयात्मकनिषेधात्मक-कर्मणः स्वरूपं वर्णितम्, तत्तु विदितमेव त्वया। तत्राऽपि नक्तन्दिवं निरन्तरं कार्यं कृत्वाऽपि मनसः शुद्ध्यभावेन किमपि न कृतमिव प्रतिभाति; इत्येवं कर्मशब्दस्याऽर्थः कृतः । अद्य तत्सूत्रानुसारेणैव प्रत्यक्षेण किमप्यकुर्वन् सन्नपि कार्यरतः, इति कर्मशब्दस्याऽपरोऽर्थो वर्ण्यते ।
अस्त्यतीव रम्या सुन्दरा च कल्पनैषा, तथाऽपि निगूढार्था गहना चाऽस्ति । "क्रियारहितः - निष्क्रियोऽपि सन् सदा कार्यरतः - सक्रियः" इति श्रुत्वैव चित्तमाश्चर्यमनुभवति, मनसि कौतुकमपि सञ्जायते । किञ्च मनः प्रश्नयत्यपि यत् किमेतत् सत्यम् ? कथमस्य सम्भवः ? इति ।
66
Page #76
--------------------------------------------------------------------------
________________
अत्र प्रथमोऽर्थः संसारिजीवानाश्रित्य सम्भवति । तथा द्वितीयोऽर्थस्तु मुक्तजीवान्- संसारातीतजीवान् प्रतीत्य सम्भवति । एष द्वितीयोऽर्थो न वन्ध्यापुत्रवत् आकाशपुष्पवच्च निरर्थकोऽपि तु चरितार्थ एवाऽस्ति । एतदर्थस्याऽनुभूतिं वयं सर्वेऽपि कुर्म एव । तथाऽपि मुक्तजीवानां सर्वाऽपि चेष्टाऽगम्यैव भवति, अतो नाऽनुभूयतेऽर्वाग्दृग्गोचरजीवैः स्थूरबुद्धिभिश्चाऽस्माभिः सोऽर्थः । अत एव च सोऽर्थो मोघोऽसत्यश्चेति न चिन्तनीयम् ।
बन्धो ! जगति नैके पदार्था विद्यमानाः सन्ति, किन्तु ते सर्वेऽपि न दृष्टा न च ज्ञाता अस्माभिः । अतीन्द्रियपदार्थास्तु केवलं केवलिगम्या एव वर्तन्ते तथाऽपि तेषां निषेधं यथा न वयं कुर्मः, किन्तु श्रद्धया तान् पदार्थान् स्वीकुर्मः, तथैवाऽत्राऽपि ज्ञेयम् ।
किं न दृष्टस्त्वया सूर्यः ? स प्रातः यथाकालं प्रतिदिनमाक्रमते । पश्चात् स्वस्य स्वभावानुगुणं प्रकाशनं करोति, नाऽन्यत् किमपि कुरुते । तथाऽपि तस्याऽस्तित्वमात्रेण दर्शनमात्रेण चैव विश्वे सर्वेऽपि व्यवहारा: स्वतः प्रचलन्ति । विहङ्गमा विहायस्युड्डयन्ते, गावश्चरन्ति कृषिं कुर्वन्ति कृषीवलाः, वणिज आपणं यान्ति, बालका विद्यालयं यन्ति, साधुजना अपि स्वकार्ये निमग्ना भवन्ति, सूर्यविकाशिन आमोदन्ते, चन्द्रविकाशिनस्तु म्लानत्वं प्राप्नुवन्ति, तथा स्वकार्यस्याऽवरोधाच्चौरा द्विषन्त्यपि। एवं च सूर्योदये सत्येव सर्वेऽपि स्वस्वकार्ये प्रवर्तन्ते ।
अथाऽत्र कोऽपि विदग्ध एवं जल्पेत् यद् दिवाकर उदितः, ततस्तेन जनेन दुष्टकार्यमुत शुभं कार्यं कृतमिति, किन्तु तन्नोचितम् । नाऽत्र दिनकरस्य कोऽपि दोषोऽस्ति यतः प्रभाते " प्रकाशनम्उदयन''मिति तु तस्य सूर्यस्य स्वभाव एव । एवं सहजस्वभावतया प्रवर्तने को दोषः ?
67
Page #77
--------------------------------------------------------------------------
________________
र
किञ्च स्मर्यते बालकेन माता, क्रियते कलरवः पक्षिभिः, प्रातः कुक्कुटैः "कूकडे कूक्" इत्यारावो विधीयते, योगिभिः प्रभोः स्मरणं क्रियते, एवं यथैतेषामेष स्वभावोऽस्ति तथैव द्वादशात्माऽपि स्वस्वभावमनुसृत्य प्रकाशनं करोति, तत्र किं विकल्पेनाऽन्येन?
भ्रातः ! न केवलं चेतनवतां, अपि तु चेतनवतामचेतनवतां च सर्वेषामपि स्वकीयो धर्मः-स्वभावो वर्तते । तथैवमेते सर्वेऽपि स्वस्य स्वभावमनुसरन्त्येव। अतः तत्स्वभावं न निरोद्धं कोऽपि शक्तः ।
एवं प्रकाशनशीलः सूरो न केषाञ्चिदपि कदाचिदपि किमपि कार्यं करोति तथाऽपि स्वभावतः सोऽनेकेषां साहाय्यद्वारेण निरन्तरं कार्यं करोत्येव ।
अथ बन्धो ! दिनकरचेष्टावत् मुक्तजीवा अपि ज्ञेयाः । ते मोक्षे स्थिताः सन्ति । निजानन्दे स्वस्वभावे च सदा रममाणाः सन्ति । ते न किमपि वदन्ति, न कुर्वन्ति, न कदाचिदपि प्रेरयन्ति, नोपदिशन्ति, तथा न च साहाय्यमवरोधं चाऽपि कुर्वन्ति । एवं न किमपि कुर्वन्तः सन्तोऽपि ते सर्वं कार्यं कुर्वन्ति । __वस्तुतस्ते प्रत्यक्षतया न किमपि कुर्वते, किन्तु ये जीवास्तेषामाराधनं स्तवनं पूजनादिकं च विदधते, ये च तदाज्ञां पालयन्ति तज्जीवानामुपरि तेषामनुग्रहः प्रवर्तते । तदनुग्रहद्वारेणैव जीवाः स्वं कार्यं कर्तुं समर्था भवन्ति ।
ललितविस्तराग्रन्थे पूज्यपादश्रीहरिभद्रसूरीश्वर आह- "भगवदनुग्रहं विना न धर्मादिसिद्धिर्भवति । स्वयोग्यता-गुरुसंयोग-भगवदनुग्रहवीर्योल्लासादीनां विविधानां कारणानां मेलने सत्येव कार्यसिद्धिर्भवति, एतत् सत्यम्, तथाऽप्येतेषु समस्तेषु कारणेषु भगवदनुग्रहः प्रधानकारणमस्ति, यतः स एवाऽचिन्त्यशक्तिमानस्ति" इति ।
For Private 68sonal Use Only
Page #78
--------------------------------------------------------------------------
________________
एवं भगवदनुग्रहं विना न किमपि कर्तुं शक्ताः केऽपि जीवाः । एवं साक्षात् मुक्ता न किमपि कुर्वन्ति, किन्तु परम्परया तु त एव सर्वं कुर्वते ।
अथ खलु कोऽप्येवं प्रश्नं पृच्छेत् यत्पूर्वं भवतैव गदितं यन्मुक्तानुग्रहादेव जगतः सर्वं कार्यं भवति तहि ते मुक्तास्तु करुणाशीलाः, ततस्ते तु सर्वेषां जीवानामुपरि सदाऽनुग्रहं कुर्वन्त्येव; तथाऽपि कथं न सर्वेऽपि जीवा मुक्तिभागिनो भवन्ति ? ।
सत्यम्, परमकरुणावन्त एव मुक्ताः । ते सदाऽनुग्रहमपि कुर्वन्त्येव। तथाऽप्यत्रेदं ज्ञेयं यद्-यथा वृष्टिर्वने ग्रामे नद्यां समुद्रे मरुभूमौ चैवं सर्वत्र समानत्वेनैव पतति । किन्तु सा वृष्टिः तत्तत्स्थलानां योग्यतानुरूपमेव कुत्रचित् फलदायिनी भवति, अन्यत्र च निष्फलाऽपि भवति । तथैव मुक्ता अपि सर्वेषामुपरि अपृथक्त्वेनाऽनुग्रहं कुर्वन्ति, किन्तु प्रत्येकं जीवानां योग्यतानुरूपमेवाऽनुग्रह उपकारको भवति । एवं योग्यतायुक्तोऽनुग्रह एव फलदायको भवति । पूज्यपादश्रीहरिभद्रसूरिराह
अनुग्रहोऽप्यनुग्राह्य-योग्यतापेक्ष एव तु । नाणुः कदाचिदात्मा स्याद् देवतानुग्रहादपि ।
(योगबिन्दुप्रकरणम्-१२) अतो भगवदनुग्रहं ग्रहीतुमपि पात्रत्वं प्रापणीयम् । अन्यथा योग्यतामृतेऽनुग्रहो निष्फलो भवति । यथा कोऽपि जीवो जलार्थं हस्ते भाजनं गृहीत्वा तिष्ठति, किन्तु यदि तद्भाजनं सच्छिद्रं भवेत्तर्हि जलं बहिरेव पतेत् । तत्र न दोषो जलस्य किन्तु तद्भाजनस्य। तथैव समवसरणे विराजमानाः तीर्थकरा उपदेशद्वारेण जीवानामुपर्यनुग्रहस्य
म
69
Page #79
--------------------------------------------------------------------------
________________
वृष्टिं कुर्वन्ति । तदा नैके जीवास्तत्र विद्यमानाः सन्ति, किन्तु सर्वेऽपि जीवा व्रतादिकं नोररीकर्तुं समर्था भवन्ति । परंतु येषां जीवानां योग्यतायाः परिपाको जातः तादृशाः केचिज्जीवा एव व्रतादिकं स्वीकुर्वन्ति ।
एवं योग्यताऽनुग्रहश्चेति द्वावपि परस्परमपेक्षावन्तौ स्तः । किन्तु तत्राऽपि प्रधानं कारणमनुग्रहोऽस्ति यतो यदा भगवदनुग्रहो भवेत्तदा भगवति बहुमानो जागर्ति, पश्चात् तं प्रति श्रद्धा जायते, तत्श्रद्धया धर्मक्रियासु प्रवृत्तिर्भवति, अन्ते कार्यसिद्धिर्जायते । एवं परम्परया मुक्तानुग्रहद्वारेणैव सर्वमपि कार्यं भवति ।
अत्र न किमप्याश्चर्यमस्ति । यतस्तेषां मुक्तानामेतादृश: स्वभाव 'एवाऽस्ति । यथा 'प्रकाशन 'मिति' सूर्यस्य स्वभावः तथैवा' ऽनुग्रहकरणं” मुक्तानां स्वभावोऽस्ति । तदनुसारेण ते वर्तन्ते, तत्र का बाधा ? उपर्येव चोक्तं जगत्स्थितानां सर्वेषामपि पदार्थानां विशिष्टः स्वस्वभावो विद्यते । यदि चैतन्यशून्याः अजीवपदार्था अपि स्वस्वभावमाश्रित्य निराबाधं वर्तन्ते एव, तर्हि एते मुक्तास्तु खलु परमचैतन्यवन्तः सन्ति । अतस्ते कथं न स्वस्वभावनुगुणं वर्तेरन् ?
एवं कार्यमकृत्वाऽपि सर्वं ते मुक्ता एव कुर्वन्ति । ते जीवानामुपर्यनुग्रहं कुर्वते, तदनुग्रहद्वारेण जीवाः स्वं स्वं कार्यं कुर्वन्ति । एवं वस्तुतः प्रत्यक्षतया न किमपि विदधते, किन्तु परम्परया तु सर्वेषां जीवानां कार्यं पूर्वोक्तरीत्या ते एवं कुर्वते, इति ज्ञायते ।
अन्ते वयं सर्वेऽपि तेषामाराधनादिककर्मकरणेन तदनुग्रहं संप्राप्य पारम्पर्येण कर्मक्षयमवाप्नुयामेति मे स्पृहा ।
70
Page #80
--------------------------------------------------------------------------
________________
"काव्यानुवादः
मुनिरत्नकीर्तिविजयः
(१)
मैं आप अपनी तलाशमें हुं, मेरा कोई रहेनुमा नहीं; वो क्या बताएंगे यह राह मुझको, जिन्हें खुद अपना पता नहीं ?
(अज्ञातः)
अहं स्वयं स्वं परिशोधयामि, नास्तीह कश्चित् पथदर्शको मे । स दर्शयेत् मे कथमेव मार्ग ज्ञातं न येन 'स्वयमेव कोऽहम्' ?
Page #81
--------------------------------------------------------------------------
________________
"काव्यानुवादः
मुनिरत्लकीर्तिविजयः
(२)
मुसीबतमें शरीफोकी, कभी इज्जत नहीं घटती; जला भी डालो सोने को मगर किंमत नहीं घटती ।
(अज्ञातः) आपद्गतेऽपि महतो, महत्त्वं नैव हीयते । यथा स्वर्णस्य, दग्धेऽपि हानं नैवाऽऽप्नुते मूल्यम् ॥
Page #82
--------------------------------------------------------------------------
________________
29 अनुवादः
-
गुरोमहत्ता
*
मुनिधर्मकीर्तिविजयः
निशि नावं समुद्रे चालयितुमवश्यंतया दीपदण्डस्याऽऽवश्यकताऽस्ति, तथा सोऽपि प्रकाशमानः स्यात् ।
**
*
**
*
तथैव जीवनरूपेऽब्धौ आत्मकल्याणस्य दिशं प्रत्यात्मरूपनाव: चालनार्थं गुरुस्वरूपो दीपदण्डोऽत्युपयोग्यस्ति ।
गुरुः मार्गदर्शकोऽस्ति तथा स एव दीपदण्डरूपोऽप्यस्ति । आत्मा स्वयमात्मकल्याणस्य विशुद्धमार्ग शोधयितुं, केन वा मार्गेण गन्तव्यं इति ज्ञातुम्, तथा च मार्गप्राप्तौ सत्यां तन्मार्गस्योपरि गन्तुमसमर्थोऽस्ति, तत्तु निश्चितमेव । एतादृश्यां स्थित्यां गुरुस्वरूपो मार्गदर्शक एव 'केन मार्गेण गन्तव्य'मिति निर्णयति, स एव मार्गमपि दर्शयति, तथा कदाचिद्वयं मार्गभ्रष्टा भवेम तर्हि स गुरुरेव प्रशस्तमार्गेऽपि स्थापयति ।
एतादृशो गुरुतुल्यस्य मार्गदर्शकस्य चरणयोरात्मसमर्पणस्य करणे यदि लज्जा भवेत्तर्हि भौतिकदृष्ट्याऽन्यत् सर्वमपि शुभं प्राप्येत तथाऽपि हन्त ! आत्मकल्याणस्य लक्ष्यात्तु वञ्चिता एव भवेम । ___ अदृष्टे मार्गे कमपि विचारमृते मार्गदर्शकमनुसरन्तो वयं गुरुचरणयोः सर्वस्वसमर्पणे किमर्थं विचारयामः ?
(अनूदितम्)
***
**
*
*
Page #83
--------------------------------------------------------------------------
________________
अनुवादः
RAISERS
दर्शनम्
मुनिकल्याणकीर्तिविजयः दर्शनम् । अस्माकं भाषासु ग्रन्थेषु धर्मशास्त्रेषु सामान्येषु च वार्तालापेषु बहुशो दर्शनं, दार्शनिकं साहित्यं, दार्शनिको विद्वान् इत्यादयः शब्दाः प्रयुज्यन्ते । तथा दर्शनशब्दस्य रूढार्थं वयं तत्त्वविद्यायामध्यात्मविद्यायां वा पर्यवसितं कुर्मः । किन्तु तस्य तात्पर्यं किम् ? यतः चाक्षुषज्ञान-बोधकाद् दृश्-धातोर्निष्पन्नत्वात् दर्शनशब्दस्य प्रचलितो व्युत्पत्तिसिद्धश्चाऽर्थः चक्षुर्जन्ये ज्ञाने एव उपपद्यते ।
एवं चेत् स कथङ्कारं तत्त्वज्ञाने अध्यात्मज्ञाने अतीन्द्रिये वा विज्ञाने प्रयुक्तचर इति चिन्तनीयम् । अस्य समाधिरुपनिषतां सूक्तेभ्यः परोक्षतोऽपि प्राप्येत । तथा हि- उपनिषत्सु हि बहिरिन्द्रियाणां बलाबलविषये शक्तितारतम्यविषये वा विचारं कुर्वता एवं निदिष्टं यत् "चक्षुर्वै सत्यम्" (बृहदारण्यक. ५.१४.४) । कुत्रचित् विषये विवादे जाते तन्निर्णयार्थं साक्षी
आवश्यकः । यदि तदा द्वौ साक्षिणौ उपस्थितौ भवेतां ययोरेकेन केवलं तद्घटना-गोचरं श्रुतमेव स्यात्, अन्येन च सा घटना दृष्टाऽपि स्यात्; तदा श्रुतवतोऽपेक्षया दृष्टवत्येव विश्वस्यते तस्यैव च कथनं सत्यतयाऽङ्गीक्रियते। एवं च श्रवणेन्द्रियापेक्षया चक्षुरिन्द्रियस्यैव प्रामाण्यमिति निश्चितम् । ___तथा चक्षुरेव तादृशमिन्द्रियं यत् सर्वान् चक्षुर्धारिणः सम-विषमयोरुच्चावचयोश्चाऽन्तरं प्रदर्श्य स्खलनात् त्रायते स्थिरतां प्रतिष्ठां वा प्रदत्ते । यदाह "चक्षुर्वै प्रतिष्ठा" (बृहदारण्यक० ६.१.३) ।
74
Page #84
--------------------------------------------------------------------------
________________
इत्थमन्येषामिन्द्रियाणां तुलायां चक्षुषः स्थानं सत्यस्य समत्वस्य चाऽत्यन्तं समीपवर्ति, अधिकतया दृढं चाऽस्ति इति उपनिषदः सूचयन्ति । ततश्चाऽन्येन्द्रियजन्यज्ञानापेक्षया नेत्रजन्यं ज्ञानं यत् दर्शनतया प्रसिद्धम् एव उत्कृष्टम् । तथा व्यवहारेऽपि दर्शनस्य एव महिमा, अत एव च 'साक्षिन्' इति शब्दस्याऽर्थोऽपि वैयाकरणैः “साक्षात् द्रष्टा" इत्येव कृतः ।
एवं च व्यावहारिकेषु स्थूलेषु च कार्येष्वपि जीवने दर्शनस्यैव अत्यन्तं सत्यसमीपवर्तित्वात्, अध्यात्मज्ञाने तत्त्वज्ञाने चाऽपि स एव शब्दः प्रयुक्तो विद्वद्भिः । अत एव ये ऋषयः कवयो योगिनो वा आत्म-परमात्मादीन् अतीन्द्रियपदार्थान् साक्षात्कृतवन्त एषु च विषयेषु संशयातीतामक्षोभ्यां च प्रतीतिमपि प्राप्तवन्तः ते सर्वे द्रष्टारः कथ्यन्ते । तथाऽऽध्यात्मिकपदार्थगोचरं तेषां साक्षात् आकलनमेव दर्शनशब्दवाच्यं भवति ।
तथा चाऽध्यात्मविद्यायां रूढस्य दर्शनशब्दस्य तात्पर्यमात्मादीन्द्रियातीतवस्तूनां स्पष्टे निःसन्दिग्धेऽविचलिते च बोधे वर्तते । दर्शनं हि ज्ञानशुद्धेस्तत्सत्यतायाश्च पराकाष्ठा परिपाकञ्श्चाऽपि ।
अत्र ह्यन्यदपि बहु विचारणीयमस्ति । तथा हि तत्त्वविद्यातत्त्वदर्शनादिवद् बहवोऽन्येऽपि व्यापारा दर्शनत्वेन प्रयोयुज्यन्ते । यथा तत्त्वचिन्तनं तत्त्वविचारणं, तत्त्वजिज्ञासा, तत्त्वमीमांसा इत्यादयः । प्राकृतजनानां तु एते तत्त्वदर्शनं तत्त्वचिन्तनमित्यादयः शब्दाः पर्यायवाचिन एकार्थकाश्चैव प्रतीयन्ते । किन्तु यदा शास्त्रमनुभवं चाऽऽश्रित्य विचारयामस्तदैव बुध्येत यद् दर्शनस्वरूपां ज्ञानशुद्धेरात्मशुद्धेराध्यात्मिकशुद्धेश्च सर्वोच्चभूमिकां प्राप्तुं कियान् कीदृशश्च मानसिक आत्मिकश्च पुरुषार्थ आवश्यक इति, तथोक्तशब्दानां दर्शनशब्दवाच्यानामर्थच्छायासु कियदन्तरं वर्तत इति ।
इह ह्यतीन्द्रियाणां वस्तूनां दर्शनं साक्षात्कारो वा एवमेव हठात् सर्वेषां
75
Page #85
--------------------------------------------------------------------------
________________
न भवति । तत् प्राप्तुं महान् प्रयत्नः कर्तव्यो भवति । तस्य क्रमोऽपि शास्त्रेषु निश्चितोऽस्ति। अत्र हि मुख्यतया त्रीणि सोपानानि भवन्ति । यदाहुः ऋषयः "आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । मैत्रेयि ! आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्" (बृहदारण्यक० २.४.५) । तथा महर्षिासोऽपि आह
आगमेनाऽनुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥
(१.४८तमस्य योगसूत्रस्य भाष्ये) प्रथमं ह्यत्र सोपानं तावत् श्रवणम् । यस्य कस्याऽपि तत्त्वस्य वस्तुनो वा दिदृक्षा तत्तद्विषयकं ज्ञानमनुभविनां ज्ञानिनां च वचनानि श्रुत्वा शास्त्रेभ्यो वा प्राप्तव्यम् । इयं प्रथमा श्रवणभूमिका । प्रथमभूमिकायां यत् श्रुतं तेन च यदवबुद्धं तदुपरि तर्क-युक्ति-न्यायादिभिर्विशेषमूहापोहं चिन्तनं च कृत्वा शास्त्रवाक्यानां ज्ञानिवचसां च विशेषोऽर्थोऽवगन्तव्यः । एषा द्वितीया भूमिका चिन्तन-मननप्रधाना । तदनु चिन्तितस्य वस्तुनो हार्दै प्रवेष्टुमेकाग्रतया क्लेशमुक्तचित्तेन निजाभिनिवेशस्य च सर्वथा त्यागं कृत्वा प्रयत्नः करणीयः । एषा च तृतीया भूमिका । एता एव तिस्रो भूमिका वाक्यार्थ-महावाक्यार्थऐदम्पर्यार्थ-इतिनामभिरपि प्रसिद्धाः सन्ति । तथा बौद्धपरम्परायामपि क्रममेनं सूचयन्त्यस्तिस्रः प्रज्ञाः सन्ति । यथा - श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा च । __अथ च यावदेतानि त्रीणि सोपानानि यथावत् सिद्धानि हस्तगतानि च न भवन्ति, तावद् दर्शनस्य साक्षात्कारस्य वा भूमिका कदाऽपि स्पष्टा न भवेत् । अतस्तां स्पष्टीकर्तुमवश्यमेव सम्यक्तया चैतास्तिस्रो भूमिकाः साधनीया। यदा ताः सिद्धा भवन्ति तदा साक्षात्कारप्राप्तौ न कश्चिद् विलम्बो भवितुमर्हति । एवं चैतत् स्पष्टं यद् दर्शनं तत्त्वबोधस्य शिखरं पूर्वोक्ताश्च
Xpe******KRIRINAKARENDRA
76
Page #86
--------------------------------------------------------------------------
________________
तिस्रो भूमिकास्तस्य क्रमिकाणि त्रीणि सोपानानि ।
तथा च सिद्धमिदं यत्-तत्त्वचिन्तनं तत्त्वविचारणं तत्त्वजिज्ञासा तत्त्वमीमांसा इत्यादयः शब्दा दर्शनसिद्धेः प्राग् वर्तमाना मानसव्यापारा एव न तु दर्शनं स्वयम् । किन्तु द्रष्टारो हि विरला एव भवन्ति, तज्जिज्ञासवस्तु बहवोऽपि सम्भवन्ति । तत्र च केचित् प्रथमां भूमिकामाश्रिताः, केचित्तु द्वितीयां केचिच्च तृतीयामपि । अतः कारणे कार्योपचारं कृत्वा दर्शनस्य कारणभूतः क्रमिक मानसव्यापारोऽपि लोकव्यवहारे शास्त्रादिषु च दर्शनतयैव व्यवहियते ।
अस्या दीर्घचर्चाया मुख्य उद्देशो हि दर्शन-चिन्तनादिशब्दानामर्थच्छायाया यथावज्ज्ञानमेव । येन वयं यथार्थतया-किं दर्शनं? किं चिन्तनं ? किं मननम् ? इत्यादिकं-सम्यक्तयाऽवबुध्यामहे । यतो बहुशो वयं केवलं श्रवण-मनन-निदिध्यासनादिकमेव दर्शनतया गृहीत्वा तदाश्रयमेव चाऽन्तिम सत्यमिति प्रतिपद्य सन्तुष्टा भवामः, अन्यैर्वा सह मतभेदेन दुराग्रहं धारयामः ।।
वस्तुतस्तु दर्शनं योगिज्ञानमेव यद् ऋतम्भरा प्रज्ञा, कैवल्यं, केवलज्ञानं केवलदर्शनं इत्याद्यभिधानैर्विविधासु परम्परासु प्रसिद्धमस्ति । सहैव तासु तासु परम्परासु एतादृशा दर्शनेन विनाऽपि तत्तत् तत्त्वदर्शनं प्रति धार्यमाणं दृढं श्रद्धानमपि दर्शनेत्वेनैव व्यवह्रियते । तथाऽपि अतीन्द्रियवस्तूनां साक्षाद् दर्शनं विना केवलं श्रद्धानरूपं दर्शनं तु गौणं व्यावहारिकं परोक्षं वैव दर्शनं न तु प्रधानं प्रत्यक्षं नैश्चयिकं वा दर्शनम् ।।
तथा, इदमपि चिन्त्यमत्र यदध्यात्मविद्यानिरूपकाणि दर्शनशास्त्राणि प्रायशः श्रवण-मनन-चिन्तनकोटिकं कदाचिच्च निदिध्यासनकोटिकमेव तत्त्वं निरूपयन्ति, न तु तदग्रतः किञ्चित् । (यतस्तस्य योगिज्ञानस्वरूपस्य दर्शनस्य निरूपणं हि शब्दातीतं तथाऽनुभवेनैव साक्षात्कर्तुं शक्यम् ।) अतो विचारयामो
NRese%ANpNepKINARENDRAKARARNE
77
Page #87
--------------------------------------------------------------------------
________________
यदि अत्र, तदा, दर्शनशब्दो मूलतश्चाक्षुषेऽनुभवे, तदनु चक्षुनिरपेक्षे मनोगतेऽतिस्पष्टेऽनुभवे प्रसारं प्राप्तः, ततश्चाऽस्याऽतिस्पष्टमनोगतानुभवस्यैव श्रद्धायां तत्साधकेषु च तर्कोहापोहादिनिरूपकेषु शास्त्रेष्वपि दर्शनशब्दः प्रचलितः ।
ग्रन्थाश्चैते यद्यप्यध्यात्मलक्षिण एव । तथाऽन्तिमयथार्थदर्शनगोचरायां प्रतिपत्तावपि तेषु मतभेदो नाऽस्ति । तथाऽपि यदेतेषु परस्परं मतभेदा विवादा समालोचनानि च दृश्यन्ते तत्राऽपि समाधिरयं यद् यावत् चिन्तनमननकोटिकं निरूपणं भवति तावदेतेषु मतभेदानां सम्पूर्णोऽवकाशोऽस्त्येव । यदा ततोऽपि अग्रेऽतीन्द्रिये तत्त्वे वयं दृष्टिं प्रसारयामस्तदा मतभेदा विवादाश्च स्वयमेवोपशाम्यन्ति । यथार्थदर्शनार्थं च जीवस्य योग्यता विकसति । अध्यात्मविद्यां च प्राप्य जीवः क्रमेण यथार्थदर्शनं प्राप्नोति ॥
XPRESENApkesNResesexexe
टिप्पण्यः १. चक्षुर्वै सत्यम् । चक्षुर्हि वै सत्यम् । तस्माद्यदिदानी द्वौ विवदमानावे
यातामहमदर्शमहमश्रौषमिति । य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तद्वै तत् सत्यम् .....। किं पुनस्तत्सत्यमित्युच्यते ? चक्षुर्वै सत्यम् । कथं चक्षुः सत्यमित्याहप्रसिद्धमेतच्चक्षुर्हि वै सत्यम् । कथं प्रसिद्धतेत्याह- तस्मात् - यद् - यदीदानीमेव द्वौ विवदमानौ विरुद्धं वदमानावेयातामागच्छेतामहमदर्श दृष्टवानस्मीति। अन्य आहाऽहमश्रौषं त्वया दृष्टं न तथा तद्वस्तु-इति । तयोर्य एवं ब्रूयादहमद्राक्षमिति - तस्मा एव श्रद्दध्याम । न पुनर्यो ब्रूयादहमश्रौषमिति । श्रोतुर्मषा श्रवणमपि सम्भवति । न तु चक्षुषो मृषा दर्शनम् । तस्माच्चाऽ श्रौषमित्युक्तवते श्रद्दध्याम । तस्मात् सत्यप्रतिपत्तिहेतुत्वात् सत्यं चक्षुः ।।
(-बृहदारण्यकोपनिषद् - शाङ्करभाष्यम् - ५/१४/४)
78
Page #88
--------------------------------------------------------------------------
________________
Show
२. चक्षुर्वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
यद्येवम् - उच्यतां काऽसौ प्रतिष्ठा ? चक्षुर्वै प्रतिष्ठा । कथं चक्षुषः प्रतिष्ठात्वम् ? इत्याह- चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति ॥
(बृहदारण्यकोपनिषद्- शाङ्करभाष्यम् - ६/१/३) "साक्षाद् द्रष्टा" । साक्षातो द्रष्टेत्यस्मिन्नर्थे इन् नाम्नि स्यात् । साक्षी ॥ (सिद्धहेमशब्दानुशासनम् - लघुवृत्तियुतम् ७/१/१९७) (तथैतदपि द्रष्टव्यम्)
सेमक्षदर्शनात् साक्ष्यं श्रवणाच्चेति धारणात् । तस्मात् सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥
(महाभारते द्यूतपर्वणि २/६१/७६) ऋतम्भरा तत्र प्रज्ञा श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् (तत्रैव १/४९).. मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् (तत्त्वार्थसूत्रम् १०/१) कुसलचित्तसम्पयुत्तं विपस्सया आणं पञा (विसुद्धिमग्ग १४/२) तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् (तत्त्वार्थसूत्रम् १/२)
XXXCXEXP*EXPRMANENDRAKpe*
(मूललेखकः पं. सुखलालजी संघवी,
भारतीयतत्त्वविद्या-नाम पुस्तके)
227 दिव्यं चूतरसं पीत्वा गर्वं न याति कोकिलः । पीत्वा कर्दमपानीयं भेको रटरटायते ॥
(भामिनीविलासे)
79
Page #89
--------------------------------------------------------------------------
________________
सत्य घटना:
(१)
तदा भारतवर्षोपरि सुलतान - जलालदीन - अकबरशाहस्य शासनमासीत् । तेन निजसभायां जैनसाधून् आहूय तेभ्यो दयाप्रधानस्य धर्मस्य स्वरूपं ज्ञात्वा दयापरेण भूत्वा बहूनि जीवदयाकार्याणि कृतानि । यथा - विशालं लघुसागरोपमं 'डामर' नामकं सरः । तत् केवलं मत्स्यवधायैव । तत्र तेन 'कदापि मत्स्यवधो न कर्तव्य' इत्याज्ञा प्रदत्ता । स स्वयमतीव मृगयाप्रेमी आसीत् । प्रत्येकं मृगयावसरे लक्षाधिकानां वन्यपशु-पक्षिणां वधं करोति स्म सः । मृगयावसरे च पञ्चाशत्सहस्त्रमितास्तत्सेवकाः समग्रमरण्यं परिवेष्टयन्ति स्म, ततश्च स मृगयुवृन्देन सह यथेच्छं मृगयां करोति स्म । जैनमुनीनां बोधदानेन तेनैतादृशमसङ्ख्यप्राणिसंहारकं मृगयाव्यसनं त्यक्तम् । सम्पूर्णे हिन्दुस्थानदेशे गोवधनिषेधोऽपि तेन कृतः । प्रतिवर्षं षण्मासावधि सूनास्थानेषु तदितरस्थानेषु चाऽपि जायमानायाः पशुहिंसाया अपि निषेधः कृतस्तेन । स्वयं नित्यं प्रातराशे प्रायः पञ्चशतमितानां 'चटका'भिध पक्षिणां हत्यां सेवकैः कारयित्वा तासां जिह्वा निष्कास्य तन्निर्मितं व्यञ्जनं प्रतिदिनं भक्षयन्नासीत् सा हिंसा तद्भक्षणं चाऽपि तेन यावज्जीवं त्यक्तम् । नैके मनुष्याः प्राणदण्डं प्राप्ताः सन्तः जैनमुनिप्रेरणयाऽभयं । प्राप्य जीविता: । जैनानां हिन्दूनां च निजतीर्थयात्रासमयेऽवश्यदेय आसीत् जीजियाकरः । सोऽपि तैर्मुनिभिर्निवारितः । किं बहुना ? तेषां वीतरागिणां मुनीनां निर्लोभया शान्तवृत्त्या जीवदयापरतया च स सम्राड् अतीवाऽतीव प्रसन्नो वर्तते स्म निरन्तरं तेषामुपरि । तेषां प्रवर्द्धमानं प्रभावं दृष्ट्वा असहमानैर्हिन्दूधर्मपरायणैनैकैवैदिकैरेकवारं सभामध्ये सम्राड् उक्तः - एते जैना धर्मबाह्याः, धर्मस्य सामान्यं
,
विजयशीलचन्द्रसूरिः
80
Page #90
--------------------------------------------------------------------------
________________
45
व
व्यवहारमप्येते न जानन्ति । एते गङ्गानदी पवित्रतीर्थतया न मानयन्ति, न वा सूर्यनारायणं दैवतत्वेन स्वीकुर्वन्ति । तथापि भवान् एतान् कथमिव सम्मानं ददाति? ।
शाह-अकबरो भ्रमितोऽनया वार्तया । तेन जैनमुनयः पृष्टा एतद्विषये, स्पष्ट- समाधानार्थं आदिष्टाश्च ।
तदा तैरुक्तम् – महाराज ! अस्माकं मते गङ्गानदी अतीव पवित्राऽस्ति । अस्माकं देवालयेषु यदा कदापि प्रतिष्ठामहोत्सवो भवति, तदा वयं तीर्थानां जलानि __ आनाययामो विधिपूर्वं बहुमानपूर्वं च । तत्र सर्वप्रथम तीर्थजलं गङ्गाया एवाऽऽनीयते,
नाऽत्र मतद्वयम् । किन्तु इमे वैदिका गङ्गां पवित्रतीर्थरूपां मन्यमाना अपि स्वकीयमरणानन्तरं निजास्थि-शवप्रभृतिकं जुगुप्सितं गङ्गायां प्रवाहयन्ति क्षिपन्ति च । एवं नित्यं शत-सहस्त्राधिकैः शवास्थिभिर्गङ्गामिमे मलिनयन्ति अपवित्रां च कुर्वन्ति यथा, तथा वयं न कुर्मः, न वा तथा कर्तुं वयं समर्था अपि । पवित्रजलेऽपवित्रपदार्थपरिष्ठापने तु इमे एव कामं क्षमाः सन्तु ।
अथ सूर्यदैवतविषयेऽस्माकमेवं नीतिर्यद् वयं जैनाः सूर्यस्योदयं विना न कदाऽपि भोजनं जलपानमपि वा कुर्मः, एवं सूर्यास्तगमनानन्तरमपि वयं न पानभोजने गृहणीमः । अर्थात् वयं सूर्यनारायणस्य महत्त्वं ईदृशं स्वीकुर्महे यत् सूर्यस्याऽनुपस्थितिसमये विना धर्मध्यानं न किमपि भौतिकं कार्यं कुर्महे । इमे तु रात्रिन्दिवं भुञ्जते यत्तत् च निरन्तरं पिबन्ति । अतः के सूर्यं बहु मन्यन्ते इति भवानेव निश्चिनोतु । शाहिः प्रसन्नः । मत्सरिणस्तु दिङ्मूढाः ।
81
Page #91
--------------------------------------------------------------------------
________________
(२)
एकदा शाहिसभायां बीरबलेन जैनगुरवः पृष्टाः - यदि भवतां सम्मतिः स्यात् तदा सन्देहमेकं प्रष्टुमिच्छामि । सूरिभिर्दत्ताऽनुमतिः । तेन पृष्टम् - अहं शिवोपासकः । मम हृदये सततं वर्तते सन्देहो यत् शिवभगवान् सगुणो निर्गुणो वा ? ।
गुरुणा कथितम् - प्रथमं मम प्रश्नस्य स्पष्ट उत्तरो देयो भवता, ततो भवत्सन्देहसमाधानं करिष्यामि । स्वीकृतं तेन ।
गुरुणा पृष्टम् - शिवः ज्ञानवान् ज्ञानहीनो वा ? |
बीरबलेन उक्तम् - कोऽत्र प्रश्नावकाश: ? शिवः ज्ञानवानेव । गुरुणा पुनः पृष्टम् – ज्ञानं गुणो न वा ? |
-
बीरबल उक्तवान् - ननु ज्ञानं गुण एव ।
गुरुणा निगदितम् - तर्हि सिद्धमेतत् यत् शिवः सगुणः ।
यतो ज्ञानं गुणः, स गुण शिवभगवति विद्यते इति तु भवता एव कथितं, अतो यो गुणयुक्तः स सगुण एवेति कोऽत्र शङ्कावकाश: ? ।
नितान्तं सरलतया निजसन्देहस्य निवारणमेवमनुभूय अतीव प्रसन्नो बीरबलः ।
मुखं पद्मदलाकारं वाचश्चन्दनशीतलाः । हृदयं कर्तरीभूतमेतद् धूर्तस्य लक्षणम् ॥
(प्रबन्धचिन्तामणौ)
82
Page #92
--------------------------------------------------------------------------
________________
गरळपुरीशास्त्रिणां कविताचातुरी
-
एच्. वि. नागराजराव् अष्टादशे शतके मैसूरुराज्यं तृतीयः कृष्णराजः (मुम्मडिकृष्णराज-वोडेयर) शास्ति स्म । तस्याऽऽस्थाने बहवः पण्डिताः कवयो रसिकाश्चाऽवर्तन्त । कविषु अन्यतमाः श्रीगरलपुरीशास्त्रिणः । तेषां कविताचातुरी परिचाययितुं किञ्चिदत्र प्रस्तूयते। एष सन्दर्भः कृष्णराजकालानन्तरं चामराजप्रभोः शासनवेलायां सम्पन्न इति पुराविदो वदन्ति ।
कदाचन महाराष्ट्रतो द्वौ विद्वांसौ महीशूरराजं प्रति पत्रं प्रेषितवन्तौ । भागवतसप्ताहो महाराष्ट्र प्रवर्तिष्यते । तत्रागन्तव्यं भवद्भिरिति पत्रस्य सारांशः । तच्च पत्रं देववाण्यां रचितैः पद्यैः शोभितम् आसीत् । यथा
"अतिरुचिरभवनसीमनि वाग्यज्ञोऽयं सुदुर्लभोऽतिमहान् । भगवत्कृपैककारण-मचिरादाविर्भविष्यति महाघः ॥१॥ एतदतिमङ्गलतमं पवित्रतममद्भुतं मनोहारि । ब्रह्मसभं पारायण-गभीरमालोकनीयमिह सर्वैः ॥२॥ अभ्यर्थयावहे तद् युष्मान् शिरसा प्रणम्य शतकूत्वः । बद्धाञ्जलि बहुकृपया सप्ताहार्थं मुदा समायात ॥३॥ भवति महतां समाज-स्सप्ताहं परमदुर्लभतमोऽत्र । भागवती चाऽत्र कथा गभीरभाया प्रवर्तते मधुरा ॥४॥
83
Page #93
--------------------------------------------------------------------------
________________
श्रीभागवतसुधारस-पानविलोला भवन्त इह सर्वे । सपरीवाराः प्रेम्णा पदकमलपरागमत्र कुर्वन्तु ॥५॥ अगेवारऽऽरम्भात् सप्ताहस्याऽऽदरादुपेत्येह । आसप्ताहं भगवत्-कथामृतस्वादलोलुपैः स्थेयम् ॥६॥ यदि जातु नाऽवकाशो दिनमात्रं वा क्षणं क्षणार्धं वा ।
आगन्तव्यमवश्यं नाऽन्यदितः श्रेयसां पदं किञ्चित् ॥७॥ - तदुक्तं श्रीभागवते
किं प्रमत्तस्य बहुभिः परोक्षैयिनैरिह । . वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥१॥
न ह्यतोऽन्यः शिवः पन्था विशतस्संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥२॥ पिबन्ति ये भगवत् आत्मनः सतां कथामृतं श्रवणपटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥३॥ आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यः क्षणो नीतः उत्तमश्लोकवार्तया ॥४॥ इति । किं बहुना ? निगमभावुकाः !
सर्वे यूयं सुधियः चिकीर्षतोः किमपि दुर्लभं कृत्यम् । कृपयाऽऽवयोरुदारा मनोरथावनिरुहं कुरुत सफलम् ॥१॥
"
84
Page #94
--------------------------------------------------------------------------
________________
ये येऽत्र यद्यदिच्छाः ते ते निश्शङ्कमादरात्तारताः । भागवतकल्पवृक्षात् लभन्त एवास्ति कोऽत्र सन्देहः ? ॥२॥
किं पल्लवितेन ?
आस्माकीनं प्रार्थन - मङ्गीकृत्यादरेण पूर्णेन ।
आगच्छत रसिकतमा युष्माभिरिमेऽत्र वयमनुग्राह्याः ॥१॥
एतादृशं सुन्दरं दृष्ट्वा राजा विस्मतः सन्तुष्टश्च । यद्यपि तदा महाराष्ट्रदेशं गन्तुं शक्यं नाऽऽसीत्, तथाऽपि सुन्दरस्य पत्रस्य सुन्दरम् एवोत्तरं देयम् इति चामराजप्रभुः स्वमन्त्रिणं रङ्गाचार्यं समादिदेश । रङ्गाचार्यः परकालमठाधीशान् विज्ञापयामास । ते च सम्यगालोच्य अस्मिन् कर्मणि श्रीगरलपुरीशास्त्रिण एव समर्था इति तत्स्कन्धे भारम् आरोपितवन्तः ।
1
शास्त्रिणः आगतं पत्रं वाचयामासुः । पत्रस्य लेखको श्रेष्ठौ वैयाकरणौ इति तैर्ज्ञातम्। अन्यथा “ब्रह्मसभम्" इति कथं प्रयुज्येत ? " सभा राजामनुष्यपूर्वा" इति सूत्रेण किल सभाशब्दान्तस्तत्पुरुषो नपुंसकलिङ्गे प्रयुज्यते । तस्मात्तादृशव्याकरणविशेषविराजितशब्दैर्युतं पद्यसार्थं विरच्य पत्रं रचनीयम् इति तैर्निश्चयः कृतः । आशुकवयः शास्त्रिणस्तादृशं पत्रं विरच्य स्वामिनां सन्निधौ इत्थं वाचयामासुः ॥
यथा
वल्लवीजनवल्लभाय नमः ।
वैदर्भीप्रणयोपबृंहणपरः सत्यास्मरोद्दीपनः क्षीबो जाम्बवतीनवाधररसाद् राधापराधीनधीः । नीलाचोलनिविष्टदृष्टिरमनाग् अक्रीतदासः पुनगोपीनाम् अथ योगिनामसुलभो मुग्धो हरिः पातु नः ॥ १ ॥
85
Page #95
--------------------------------------------------------------------------
________________
-
स्वस्त्यस्तु सर्वजगते सन्तस्सन्तोषदन्तुरास्सन्तु । भुवि तत्क्रियाश्च धा निष्प्रत्यूहाः प्रवर्तन्ताम् ॥२॥ अस्ति ननु राजधानी काचन कर्णाटजनपदाभरणम् । महिशूरनामधेया स्वविभूतिलवावधीरितत्रिदिवा ॥३॥ तामध्यास्त वितन्द्रः सद्गुणसान्द्रः स कृष्णभूमीन्द्रः । विबुधजनाम्बुधिचन्द्रः किमन्यदन्यो हरिश्चन्द्रः ॥४॥ तेन दिगधीश्वरांश-प्रभवेनार्थिप्रदेयविभवेन । पित्रेव सप्रमोदं गोवा सर्वत्र गुप्तानाम् ॥५॥ अधुना तत्प्रतिबिम्ब-श्रीमच्चामक्षमामघोनाऽपि । तस्मादप्यत्यर्घ रक्षित्रा रक्ष्यमाणानाम् ॥६॥ उपनिषदर्थरहस्य-श्रवणस्मरणाद्युपायकलनेन । वाङ्मनसाडगोचरमपि तत्त्वं तत् किमपि कुर्वतां साक्षात् ॥७॥ विद्यारवष्टादशसु प्रागल्भ्यप्रतिभटत्रपाक्षेत्रम् । अपि बिभ्रतामजनं स्वप्नेऽप्यस्पृष्टविनयविरहाणाम् ॥८॥ श्रीकृष्णनृपतिदत्तं मुक्तामयमखिलसुग्रहगुणाढ्यम् । सद्वृतमग्रहारं दधतामथवा तमावसताम् ॥९॥ प्रतिषेधेऽपि स्पष्टं ध्वनिभङ्या विदधतीं विधिं वचन । प्रौढामिवाऽनुभवतां वनितां कवितां मनोजरसाम् ॥१०॥ अणुमात्रमपि मरन्दं सुमनसि धूलीविनेव पुष्पलिहाम् । दोषानपास्य तनुमपि गुणमभ्युपजग्मुषां विदुषाम् ॥११॥
86
Page #96
--------------------------------------------------------------------------
________________
शौरिपुरारिप्रमुख-स्वोपास्यप्रार्थनापुरस्सर्यः । आम्नायसमाम्नाताः शुभबीजान्याशिषः फलेग्रहयः ॥१२॥ आयुष्मतोरनल्पं राज्ञां महतीं श्रियं समुद्वहतनेः । मेरुहिमाचलयोरिव कृच्छ्रेष्वपि निष्पकम्पनिजधृत्योः ॥१३॥ पद्मापादपयोरुह-लाक्षामुद्राभद्रसद्मभुवोः । गोक्षीरमाक्षिके क्षु-द्राक्षाधिक्षेपसाक्षिवाग्रसयोः ॥१४॥ आजगदुत्पत्ति मिथो वैरिण्योरपि भृशं रमावाण्योः । सामानाधिकरण्यं सम्पादयतोः स्वनैपुण्यात् ॥१५॥ निद्राणपरमपूरुष-तनुरुचिसन्तानकवचिताभोगम् । दुग्धाम्बुधिं यशोभिः स्वामेव रुचं पुनर्नयतोः ॥१६॥ गुरुमपि सचिवपदोचित-मनघं स्वस्वामिराज्यकार्यभरम् । अश्रमतो निर्वहतो-रक्षिध्रुवविभ्रमैरेव ॥१७॥ आस्तीर्य भक्तितल्पं श्रद्धागुणभाजि चित्तडोलायाम् । अपितृकममातृकं पर-मनाथमेकं किशोरमुपचरतोः ॥१८॥ वेडोबरामचन्द्रा-भिध-नायकयोर्मनीषिरञ्जकयोः । श्रेयः परम्परायै कल्पन्तां दूरदीर्घायै ॥१९॥ विभवाब्दपौषमासा-सितदशमी प्रातरवधिकं कालम् । सर्वे वयं कुशलिनः कोसलनाथानुकम्पया गुळ ॥२०॥ भवतोरपि भाग्यवतोः सकलत्रसुपुत्रमित्रबान्धवयोः । भूयो नेया पत्री योगक्षेमावबोधनविधात्री ॥२१॥
87
Page #97
--------------------------------------------------------------------------
________________
-
सम्प्रति
श्रीपरकालस्वामिभि-रायैराश्चर्यकरतपश्चर्यैः । सानुग्रहमर्पितया पत्रिकया वाक्क्रतुप्रबोधिन्या ॥२२॥ पापिनि कलावपि युगे विधित्सतोः कर्म किमपि कार्तयुगम् । युवयोर्हि साहसिक्यं ग्राहं ग्राहं प्रहृष्यामः ॥२३॥ इदमेव हि जन्मफलं प्राणफलं वा धनर्धिफलमथवा । पुंसां स्वदेवताभि-र्यद्धरिराराध्यते द्विजैरसार्धम् ॥२४॥ तद् युवयोस्सत्कुलयो-रन्वयभाजां पुराणपुरुषाणाम् । वक्तुं सुचरितनिचयं कस्य न जिहेति जिद्वैव ॥२५॥ तत्राऽनाहूतैर-प्यस्माभिर्गन्तुमरित हि न्यायः । किं पुनरेतादृशि वां प्रणये विनयेन सारमये ॥२६॥ किन्तु चिरापरिशीलित-दूरपथैः स्थीयते यदस्माभिः । अत्रैव तद्धि सत्यं काष्ठप्रायेण कायमात्रेण ॥२७॥ साकं समस्तभावै-श्चेतोभिस्तु प्रयातमेव जवात् । तस्मात् किं नः क्षुण्णात् कथिता खलु भावनाऽपि फलदात्री ॥२८॥ प्रारिप्सिलवागध्वर-रम्यावभृतोत्सवप्रवृत्तीनाम् । श्रवणसुखाय द्राक् पुन-रेको लेखो विलेखनीयः स्यात् ॥२९॥ स्वत एव सर्वविदुषो-स्सद्गुरुचरणाजसेवया च चिरम् । व्यपगतदुश्शङ्कितयोः किं परमाशासास्यमस्तु तदपीदम् ॥३०॥
88
Page #98
--------------------------------------------------------------------------
________________
तव च तव च प्रसादो भवतु स्त्रीपुंसयोर्जगन्मात्रोः ।
यश्च युवयोरसहायः स च राजा राजराजोऽस्तु ॥३१॥ इत्याशिषः ।
स्मयकलितयशोदामोदभारं किशोरं परिषदमपि पुण्यां श्रीमतां ब्राह्मणानाम् । स्पुटमकपटभक्त्या शक्तित: सेवमाना जगति विमलकीर्तिं केऽपि धन्या लभन्ते ॥३२॥ गरळपुरिशास्त्रिनाम्नः प्राज्ञनियोज्यस्य तत्प्रसादेन । वाणीयमणीयस्यपि मुदमावहतां कलेव चान्द्रमसी ॥३३॥
एषा उत्तरपत्रिका सर्वेषां मनोहारिणी बभूव । प्रेषिता च महाराष्ट्रविद्वद्वन्द्वाय । अत्रत्या व्याकरणविशेषाः वैयाकरणैरुन्नेयाः ॥
इति शुभम् ।
0 C > < 0 - २ वयं येभ्यो जाता मृतिमुपगतास्तेऽत्र सकलाः समं यैः संवृद्धा ननु विरलतां तेऽपि गमिताः । इदानीमस्माकं मरणपरिपाटीक्र मकृ तां न पश्यन्नोऽप्येवं विघयविरतिं याति कृपणाः ।।
(अमितगतिः सुभाषितरत्नसन्दोहे) 6 > > <
< 0
89
Page #99
--------------------------------------------------------------------------
________________
कथा
वणिम्बुद्धिः *
विजयसूर्योदयसूरिः
द्वौ भिक्षुकौ आस्ताम् । एकः संन्यासी, द्वितीयस्तु द्विजः । एतौ द्वावपि भिक्षयाऽऽजीविकां कुर्वतः स्म । एकदैकस्य यजमानस्य गृहेऽकस्माद् द्वावपि मिलितौ । यजमानस्य गृहे तस्मिन् दिने इक्षूणां दण्डान्यागतान्यासन् । तत एकं दण्डं द्वाभ्यामार्पयत् स यजमान: । स दण्ड: पश्चाद्भागे कृशो, मध्यमे च भागे स्थूल आसीत् । अत: कया रीत्या विभज्य गृहणीयावेति संजातो विचारः । तदैव नन्दनामा वणिक आगतः ।
द्वाभ्यां इक्षुदण्डं तस्मै दत्त्वा गदितम् - विभज्याऽऽवाभ्यां देहि ।
तदा वणिकेन किञ्चिन्मनसि विचार्य प्रोक्तम् - शास्त्रे कथितमस्ति यत् - " अग्रे अग्रे विप्रा: "; इत्युक्त्वा इक्षुदण्डस्याऽग्रभागं ब्राह्मणायाऽदात्, ब्राह्मणेनाऽपि स गृहीतः । तदनन्तरं च "जटिलो योगी" ति शास्त्रवचनमुक्त्वा मूलं च सन्यासिने प्रदत्तम् । पश्चात् " मध्यो यः कन्दः, स गृह्णाति नन्दः" इत्युक्त्वा स - रसं मध्यभागं स्वयं गृहीत्वा गतवान् ।
*
एता: कथा: पूज्याचार्यश्रीविजयसूर्योदयसूरिमहाराजैः स्वविद्यार्थिकाले लिखिताः आसन् ।
90
Page #100
--------------------------------------------------------------------------
________________
कथा
शठे शाठ्यं समाचरेत्
विजयसूर्योदयसूरिः आसीदेको वञ्चकः । चौर्यवृत्तिना स जीवति स्म । स मनस्येवंविधमभिमानं दधाति स्म "यदखिलं जगत् वञ्चयामि, किन्तु न मां कोऽपि वञ्चयितुं समर्थ" इति।
एकदा स कस्यचिदपि ग्रामस्य सीम्नो निर्गच्छन्नासीत् । सीम्नि चैकः कूपोऽप्यासीत् । तन्मुखस्योपर्युपविश्यैको बालको रुदन्नासीत् ।
वञ्चकेन पृष्टम्- "भोः ! किमर्थं रोदिषि ?" इति ।।
बालकेन कथितम्- "मम रजतपात्रमस्मिन् कूपे पतितमतो मे पिता मां ताडयिष्यती" ति ।
"मा चिन्तां कुरु, अहमेव निष्कास्य दास्यामी"ति कथयित्वा दयया स वञ्चको वस्त्राण्युत्तार्य स्वां पोट्टलिकां च कूपकण्ठे मुक्त्वा कूपेऽवातरत् । सम्पूर्ण कूपतलमीक्षितं तेन, किन्तु नाऽऽप्तवान् वञ्चको रजतपात्रम् । पुनरीक्षितम् तेन । श्रान्तेन तेनोच्चैःस्वरेण पूत्कृत्य पृष्टम्-“भो ! बालक ! कुत्राऽस्ति ते रजतपात्रम्"। प्रत्युत्तरो न लब्धः । पुनरपि पूत्कृतम् । किन्तु प्रत्युत्तरं नाऽलभत । ___ततः कूपान्निर्गत्याऽपश्यत्, किन्तु न बालकः, न वस्त्रम्, न पोट्टलिका चेति न किमपि तत्राऽऽसीत् । तदा स स्वगतमुक्तवान्- "जगद्वञ्चकोऽपि वञ्चितोऽनेन बालकमात्रेणे" ति ।
MARITRAATHMousam
91
Page #101
--------------------------------------------------------------------------
________________
कथा
अहो ! बन्धूनां सहृदयता !
मुनिरत्नकीर्तिविजयः
पुत्रः पाकं सज्जीकुर्वन्नासीत् । वारं वारं फूत्कारं कुर्वति सत्यपि चुल्ल्यां स्थितानि काष्ठानि न ज्वलन्ति स्म । स स्वगतमुक्तवान् 'एतानि कीदृशान्यार्द्राणि सन्ति, महति श्रमेऽपि न ज्वलन्त्येव ?” एवं विचार्य पुनरेकवारमुच्चैः सशब्दं फूत्कृतवान् । तत्फूत्कारेण च काष्ठानि प्रज्वलितानि । तज्ज्वालायां च तस्य मुखमपि प्रकाशितमभवत् ।
सर्वामपि तस्य क्रियामेकस्मिन् भग्नपल्यङ्के उपविष्टः पिता पश्यन्नासीत् । तस्मिन् गृहे तौ द्वावेव वसतः स्म । पिता मोहन: श्रमिक आसीत् । ततः प्राप्तेन वेतनेन तौ कथमप्याजीविकां निर्वहतः स्म । गृहमपि जीर्णप्रायमासीत् । गृहस्योपरितनभागाज्जलमपि स्रवति स्म ।
'पितः ! श्वो व्रीहीन् कुत आनेष्यावः ? विक्रयिकोऽपि ऋणेन सम्प्रति दातुं निषिध्यति' पाकं कुर्वन् पुत्र उक्तवान् ।
किन्तु पिता कथं तस्योत्तरं दातुं शक्नुयात् ! सोऽपि किमपि न जानाति क्षणं विचार्य स उक्तवान्- 'वत्स ! एवं कुरु यत् श्वस्तस्त्वमपि मया सह कार्यार्थमागच्छ ।'
-
पितुर्वचनमङ्गीकृतवान् पुत्रः । द्वितीयदिनादारभ्य तौ द्वावपि कार्यार्थं गन्तुं प्रवृत्तौ । एवं चोभाभ्यामपि प्राप्यमाणेन वेतनेन प्रथमं तूदरभरं भोजनं प्राप्तुमशक्नुताम् । कदाचिच्चाऽपरदिनार्थं भोजनं धान्यं वाऽवशिष्यात् तदा तद्
92
Page #102
--------------------------------------------------------------------------
________________
दृष्ट्वा प्रसन्नतां प्राप्नुतः स्म। एवं च सुखेन दिनानि व्यतियन्ति स्म ।
किन्तु सर्वं सुखं सुखेन प्रवर्ततामिति विधिः सर्वदा न स्वीकरोति । एवमेव च विधिना पुत्रः कदाचिद् रोगग्रस्तो जातः । कतिचिद् दिनानि व्यतीतानि किन्तु रोगस्तस्योपशान्तो नाऽभवत् । गच्छद्भिर्दिनैः सह स कृशतामपि प्राप्नोति स्म सततम् । चिन्तातुरस्तस्य पिता किमपि कर्तुं न प्रभवति स्म । यत्र पुत्रस्योदरपूरणार्थं पर्याप्तं धान्यमपि तत्पाद्यं नास्ति तत्रौषधोपचारस्य का वार्ता ? शून्यमनस्को जातः सः ।
क्षेम इति नामा भागिनेय एकस्तस्य स्मृतिपथमागतवान् । एकस्मिन् दिने तस्य गृहं गत्वा स औषधोपचारार्थमृणं याचितवान् । किन्तु तं दृष्ट्वा तत्स्थिति च स्मृत्वा स ऋणार्पणं निषिद्धवान् । आर्द्रभावेन बहुवारं याचिते सत्यपि स तस्मै किमपि न दत्तवान्।
व्यतीतानि पञ्च दिनानि । मोहनः किमपि न भुक्तवानासीत् । पुत्रस्य चिन्ता एव तं भृशं सततं च पीडयन्ती आसीत् । स पुत्रस्तस्यैक एवाऽऽधार आसीत् । अतस्तस्य चिकित्सार्थमृणं प्राप्तुं स स्वजनानां ज्ञातिजनानां सम्बन्धिनां च सर्वेषां गृहं गतवान् किन्तु नैराश्यं विना किमपि स न लब्धवान् । तं तत्स्थितिं च दृष्ट्वा कस्याऽपि हृदये दया नोत्पन्ना । अन्ततो गत्वा स महाजनसमक्षमुपस्थितवान् । किन्तु तं दृष्ट्वा तु प्रत्युत महाजन एवोपालम्भं दत्तवान्-कथं कार्यार्थं नाऽऽगच्छसि रे !? - मम पुत्रो रोगग्रस्तोऽस्ति । तस्य परिचर्यार्थं गृहे कोऽपि नास्ति । - स उक्तवान् । - यदि कार्यं न करिष्यसि तर्हि किं भक्षयिष्यसि ? - तात ! कृपया शतं रूप्यकाणि ददातु । मम पुत्रस्य प्राणा रक्षिता भविष्यन्ति । - किम् ? किम् ? अद्यपर्यन्तं तु पूर्वमृणमपि न प्रत्यर्पितं त्वया नवं च ऋणं
MARCH
For Private &
Ronal Use Only
Page #103
--------------------------------------------------------------------------
________________
याचसे ? किं न लज्जसे ? मद्गृहे किं धनस्य वृक्षाणि भवन्ति ? - स्वामिन् ! कृपां करोतु । यत्किमपि कृत्वा मम पुत्रस्य प्राणान् रक्षतु । आजीवनं ___भवतो भृत्यो भविष्यामि । एकवारं दयां करोतु । - 'न' इति कथितं मयैकवारं खलु ? किमर्थं वारं वारं वदसि ? न, नैव दद्याम् !
एवं स्पष्टं निर्दयं च निषेधं श्रुत्वा- अथ कोऽपि नास्ति ग्रामे यो मह्यं दद्यात् - इति विचिन्त्य मोहनो हताशो जातः, हृदयं च तस्य भग्नम् । आतुरस्य पुत्रस्य दीनं बुभुक्षापीडितं चिकित्सां विना च शुष्यन्मुखं तस्य स्मृतिपथमागतम् । अतीवदुःखभारात् दीर्घ निःश्वस्य स ततो निर्गतः ।
गृहे स पुत्रस्य समीपे एवोपविशति । तस्य शिरसि रोगाभिभूते च शरीरे सस्नेहं स स्वहस्तं प्रसारयति । अन्यत्किमपि तस्य पार्वे नाऽऽसीत् । एवमेव च विना चिकित्सां पञ्चदशदिनान्तरे पुत्रो मरणं प्राप्तवान् । मोहनः स्वस्य निराधारतां भावयन् सततं रोदिति किन्तु तस्य दुःखपूर्ण हृदयद्रावकं च रोदनं श्रोतुं तं चाऽऽश्वासनं दातुं कोऽपि तत्र नास्ति ।
पञ्च दिनानि व्यतीतानि । द्वादशे दिने श्राद्धं कर्तव्यमिति रीतिः । रात्रौ सर्वेऽपि ज्ञातिजनाः सम्बन्धिनश्च तस्य गृहे एकत्र भूताः । मोहनोऽद्य सर्वेषां सहानुभूतेः पात्रमभवत् । सर्वेऽपि प्रतीक्षमाणा उपविष्टा आसन् यद् यदि स रुद्यात् तर्हि वयं सान्त्वनं दास्यामः इति । किन्तु मोहनस्तु जान्वोर्मध्ये शिरोऽवनमय्य किमप्यवदन् शून्यमनस्क उपविष्ट आसीत् । अतः शनैः शनैः सर्वेषां ध्यानं श्राद्धवार्तायां प्रवृत्तम् ।
श्राद्धे किं किं करणीयं किं किं चाऽऽवश्यकमित्यस्य सूचिरेकेन दर्शिता । अपरेण च तत्र सम्भवितो धनव्ययः प्रदर्शितः - 'तत्र के-के आहूतव्याः, कस्मै कस्मै कियत् कियत् देयम्, आगन्तुकानां भोजनमपि भविष्यति तत्र इयान् व्ययः
94
Page #104
--------------------------------------------------------------------------
________________
भविष्यति, श्राद्धार्थं च काः काः सामग्र्यः आनेतव्याः-एवं चाऽऽहत्य सहस्ररूप्यकाणां द्विशतस्य वाऽधिकस्य व्ययो भविष्यति' - इति ।
'सत्यम्, सत्यम्, नैष अधिको व्ययः । बहूनि श्राद्धानि मया दृष्टानि । यदि किञ्चिदपि न्यून भविष्यति तर्हि सर्वे वक्ष्यन्ति - नास्तिकोऽयं कृपणोऽयं वेत्यादि' | - एक उक्तवान् ।
तदैव क्षेमः सहसोत्थाय स्नेहं दर्शयन्निवाऽवदत्- मातुल ! मदीयस्य धनस्याऽन्यः कः शोभन उपयोगोऽस्ति ? एतादृशि समये यदि भवते साहाय्यं न करिष्यामि चेत् कदा करिष्यामि ? चिन्ता माऽस्तु, शनैः शनैरेव भवता ऋणं प्रत्यर्पितव्यम्, अधैर्यं न कर्तव्यम् !-इति । तच्छ्रुत्वा - 'अहो ! कीदृश उदारोऽयम्' - एकोऽजल्पत् ।
कीदृशी विनम्रताऽस्य ! - अपरोऽवदत् । एको वृद्धो जन उक्तवान् - 'अस्माकं सर्वेषामस्ति मोहनस्य परिचयः ।। ऋणस्य भारं वोढुं स न प्रभविष्यति - इत्यपि वयं जानीमः । वास्तविकं श्राद्धं तु हृदयेनैव भवति। सपादरूप्यकेणैव वृन्दावने श्राद्धं भवति' - इति ।
किन्तु तस्यैतादृशं सहानुभूतिपूर्णं वचनं सर्वैरपि श्रुतमप्यश्रुतं कृतम् । कश्चिच्च मन्दमुवाच - 'द्वादशवर्षीयस्य ब्राह्मणस्य कृते त्वेतावान् व्ययोऽल्प एव' ।।
__ एतावत्पर्यन्तं मौनं स्थित्वा सर्वं श्रुतवता मोहनेन शिर ऊर्ध्वं कृतम् । तस्य मुखे कठोरताऽऽगता । स उच्चैराक्रोशत- "गच्छन्तु, सर्वेऽपीतो गच्छन्तु । यदा स जीवन्नासीत् तदा तस्य चिकित्सार्थं दातुं शतं रूप्यकाणि कस्याऽपि पार्वे नाऽऽसन् । अधुना यदा स मृतस्तदा सर्वेषां हृदये करुणा उद्गताऽस्ति ! शीघ्रमपसरन्तु सर्वे । कस्याऽपि किमपि प्रयोजनं नास्त्यत्र मम । एकं तुलसीपत्रमेव भगवच्चरणयोः समर्प्य श्राद्धमहं करिष्यामि" - इति । एवमुक्त्वा स उच्चै रोदनमारब्धवान् ।
95
Page #105
--------------------------------------------------------------------------
________________
कथा
एतादृशोऽनुसरणीयः
मुनिधर्मकीर्तिविजयः आसीत् 'लेनिन्' नामा 'रुस'जनपदस्य नेता ।
देशाधिपतिः सन्नपि स निरभिमानी आडम्बरशून्यश्चाऽऽसीत्, तत एव देशस्य सर्वजनानां प्रिय आसीत् ।
सामान्यजनवदेव तस्य जीवनं सरलमासीत्, तथा सर्वैः सह सौम्यमेव व्यवहारं स कुर्वन्नासीत् ।
देशनेतुळजेन वसनार्थं तेनाऽनेकेऽपवरकाः प्राप्ताः, परन्तु चत्वारि गृहखण्डानि विना सर्वाण्यपि गृहखण्डानि देशस्य भिन्नकार्यार्थं तेन समर्पितानि।
एकदाऽऽगतवानेकः कविः लेनिनस्य गृहे । किन्तु तदा लेनिनो देशस्य हितकारिकार्येषु व्यस्त आसीत् । ततः केनचित् सदस्येन "स तु मध्यरात्र्याः पश्चादागमिष्यती"ति कथितम् । ___एतच्छ्रुत्वा कविरभूदुद्विग्नः । तदा निराशामवाप्य गृहं प्रति गन्तुकामः स कविस्तेन सदस्येन पुनराहूतः, प्रोक्तश्च-भवानस्य गृहस्य कस्मिन्नप्यपवरके आस्ताम् । बहिस्त आगत्य स भवता सह चर्चा करिष्यति ।।
एकस्मिन् गृहखण्डे स उपविष्टः । मध्यरात्रिः प्रसृता । प्राय एकवादनसमयेऽतीव परिश्रान्तो लेनिनो गृहमागतः । तेनैष आगन्तुको दृष्टः । त्वरितमेव तेन परिश्रममवगणय्य प्रसन्नीभूय च तस्याऽऽगन्तुकस्य स्वागतं
For Private 96 sonal Use Only
Page #106
--------------------------------------------------------------------------
________________
कृतम् । शरीरकुशलतादिकं पृष्ट्वा स आह- किं भवान् कोफीपानं करिष्यति?
कवेः मानसे आश्चर्यं जातम् । नाऽऽवश्यकं कोफीपानं, किन्तु कोफीपानं कृत्वा परिश्रान्त एष लेनिनः स्वस्थः प्रसन्नश्च भवेदिति मत्वा स्वसम्मतिं सूचितवान् । ____ अचिरमेव लेनिन उत्थितः । गृहकोणे स्थिता चुल्लि: सज्जीकृता । कोफीयोग्यानि वस्तूनि एकत्र कृत्वा स्वयमेव कोफी कर्तुं प्रयतवानभूत् ।। आगन्तुकं पाययित्वा स्वयमप्यपात् ।
एतादृशं सारल्यं निरभिमानित्वमौचित्यपूर्णव्यवहारं च सम्प्रेक्ष्य लेनिनस्य चरणेऽनमत् स आगन्तुकः ।
स्वगतमुक्तम् - "येन जनपदेनैतादृशो नेता प्राप्तः स देशः खलु महानेवाऽस्ति । तथा तस्य देशस्य जना अपि पुण्यशालिनः सन्ति । एतादृशस्य देशस्योन्नतिः सर्वतो भवत्येव, तत्र नाऽऽश्चर्यस्य किमपि कारणम् ।
06
)
मैत्र्यङ्गना सदोपास्या हृदयानन्दकारिणी । या विधत्ते कृतोपास्तिश्चित्तं विद्वेषवर्जितम् ॥ (तत्त्वामृते)
For Private
Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
कथा
संस्कृतिः
मुनिधर्मकीर्तिविजयः
प्रायः पूर्वतनकालीनस्य 'मुम्बाई'नगरस्येयं कथाऽस्ति ।
तदात्वे इदानींतनकालवन्नाऽतिविस्तृतं तन्नगरम् । तथाऽपि सुखसाधनसंभारैः संपूर्णमासीत् । तत्र वसन्तो गृहिणो धनिकाः किन्तु तेऽभिमानिनोऽप्यासन् ।
तन्नगरात् नाऽतिदूरं वनमेकमासीत् ।
केचिनगरजना वनात् काष्ठान्यानीय विक्रीणन्ति स्म । एकदा काचिदेका दुर्बला वृद्धा काष्ठाभारं मस्तकस्योपरि धृत्वाऽऽगच्छन्त्यासीत् । किन्त्वतिभारात् परिश्रान्तया तया स काष्ठभारोऽधो मुक्तः । कञ्चित् कालं विश्रम्य तं काष्ठभारं ग्रहीतुं प्रयतते स्म, किन्तु तं काष्ठभारं मस्तकस्योपरि स्थापयितुं न प्राभवत् सा । ततस्सा मार्गे गच्छतो जनान् विज्ञपयति स्म, परन्तु न केऽपि जनास्तां वृद्धां साहाय्यं कुर्वन्ति स्म । एवं कश्चित् कालो व्यतीतः।
तदा धृतनूतनोज्ज्वलवसनस्तेजोन्वितमुख एकः पुरुष आगतः । तेन दृष्टा सा वृद्धा । तस्याः परिस्थितिं ज्ञात्वा तत्र गत्वा स्वयमेव तं काष्ठभारं गृहीत्वा तस्याः मस्तके स्थापितवान् । वृद्धाऽतीव प्रसन्ना बभूव । - नाऽन्य एष कोऽपि, किन्तु "महादेव रानडे" इति भारतस्याऽनन्यो देशभक्तः सन्निष्ठो न्यायाधीश आसीत् ।
98
Page #108
--------------------------------------------------------------------------
________________
TECARTOKAARYA.
कथा विलक्षणो न्यायः
मुनिकल्याणकीर्तिविजयः अथैकदा त्रयो युवानो द्यूतं क्रीडन्तोऽभिगृहीता राजभटैः । ते तान् । त्रीनपि बद्ध्वा राज्ञो विक्रमादित्यस्याऽऽस्थानमण्डपमानीतवन्तः । तत एकेन भटेन राज्ञे एतेषां दुष्कृत्यं निवेदितम् । राजा तान् त्रीनपि सम्यङ् निरीक्षितवान् प्रत्यभिज्ञातवांश्च। ततस्तेन प्रथमो युवको निजपावें आहूतः । सोऽपि (10) लज्जावनम्रशिराः नृपपुरतः समागतः । राजाऽतीवमृदुस्वरेण प्रेमपूर्वकं तं कथितवान् - "भो मित्र ! भवांस्तु नः सेनापतेः पुत्रो न वा ? भवतः पिता ह्यनन्यसदृशो महापराक्रमी देशभक्तश्च । अद्यत्वे च स सीमस्थान् शत्रून् पराभवितुं रणे गतोऽस्ति तदा भवता पराक्रमं तु दूरे, ईदृशं लज्जास्पदं कुकृत्यं क्रियते ? भवतः पर्वात् मम नाऽसीदेतादृशी अपेक्षा, गच्छतु तावत् ।" इत्थमुपालब्धः स विलक्षो भूत्वा शनैः शनैस्ततो निर्गतः ।।
ततो राजा द्वितीयमपराधिनमाहूतवान् । तं चेषत्कठोरस्वरेण तर्जयन् राजा - अहो ! नगर श्रेष्ठिपुत्रो भवानपि द्यूतं क्रीडति? भवत्पिता तु भवदर्थं प्रभूतां सम्पत्तिं मुक्त्वा मृतः । तस्याः सम्पदो वर्धनस्य सामर्थ्य तावन्नाऽस्त्येव भवति, रक्षणस्याऽपीच्छा नाऽस्तीति मन्येऽहम् । येनैतावति लघुवयसि कुसङ्गं समादृत्य कुमार्गेण धनस्याऽपव्ययं कुरुषे ? धिगस्तु तव । इत्युक्त्वा निजाङ्गरक्षकमिङ्गितेन दृष्टवान् । सोऽपि तमिङ्गितमवबुध्य द्वित्रान् चपेटाप्रहारान् दत्तवान् तस्मै । ततो राज्ञा विसृष्टः सोऽपि निर्गत आस्थानात् ।
ततो राजा तृतीयमपराधिनमदृष्ट्वैव नगरारक्षमादिष्टवान् यद् -- अस्मद्राज्ये
99
Page #109
--------------------------------------------------------------------------
________________
द्यूतकाराणां यद् दण्डनं विहितं तदस्मै भवतात् । नगरारक्षोऽपि तामाज्ञां स्वीकृत्य तं चाऽऽदाय ततो निर्गतवान् ।
अथैतस्मिन्नवसरे केनचित् कारणजातेनाऽऽगतः प्रातिवेश्मिकराजस्य महामन्त्री तत्रैवाऽऽस्थाने उपविष्ट आसीत् । स एतत् सर्वं दृष्ट्वा विस्मयं प्राप्य राजानं पृष्टवान् - प्रभो ! भवान् हि राजकविभिायावतार इति वर्ण्यते । भवत्कृतस्य न्यायस्य प्रशंसा देश-विदेशेषु क्रियते जनैः । किन्त्वत्र तु सर्वमसमञ्जसं पश्यामि । यत एकस्यैवाऽपराधस्य दण्डस्तत्कारिणां त्रयाणां पुरुषाणां भिन्नो भिन्नो आदिष्टो भवता । एकस्य तूपालम्भमात्रं, नाममात्रं दण्डनं ह्यपरस्य, अन्यस्य तु सम्पूर्णो दण्डः ! नेह भवतो निष्पक्षता दृश्यते। जगति तु भवान् निष्पक्षपातितया विश्रुतोऽस्ति ।
राज्ञोक्तं - महाशय ! मया ह्यपराधिनां मनःस्थिति परीक्ष्यैव ते दण्डिताः, न तु यथाकथमपि पक्षपातेन वा । यदि भवान् परीक्षितुमिच्छति तस्य दण्डस्य परिणामं पश्यतु । यस्याऽल्प एव दण्डो विहितः स एव सर्वाधिकतया दण्डितोऽस्ति । यश्च सर्वाधिकतया दण्डितस्तस्य त्वल्पोऽपि दण्डो न कृतोऽस्ति । ___मन्त्री तच्छ्रुत्वा निश्चयं कर्तुं ततो विनिर्गतः । सर्वप्रथमं स सेनापतेर्गृहं ।) प्राप्तः । तत्र सर्वानपि स्वजन-परिजनान् उच्चै रुदतो दृष्ट्वा स कञ्चित् तत्कारणं पृष्टवान् । तेनोक्तं - सेनापतेयूंना पुत्रेणाऽधुनैवाऽऽत्मघातः कृतोऽस्ति । तेनैवैते सर्वे रुदन्ति । तच्छ्रुत्वा स्तब्धो मन्त्री यथाकथमप्यात्मानं संयम्य तांश्च मृदुवचोभिः सान्त्वयित्वा ततो निर्गतः ।
तदनु स नगरश्रेष्ठिगृहमागतः । तत्राऽपि सर्वान् शोकाकुलान् किंकर्तव्यविमूढांश्च दृष्ट्वा तेन पृष्टम् - किमिति भोः सर्वे इयच्छोकाकुलाः दृश्यध्वे ?
100
Page #110
--------------------------------------------------------------------------
________________
तादृशं किमभवत् ? तदैकेन कथितम् - नगर श्रेष्ठिनः पुत्रोऽद्य "यदाऽहं प्रभूतं धनं यशश्चाऽऽर्जयिष्यं तदैव प्रत्यागमिष्यमिति प्रतिज्ञाय नगरान्निर्गत्य देशान्तरं गतवान् । अतो वयं सर्वेऽपि शोकाकुलाः स्मः । तच्छ्रुत्वा विस्मितः स तानप्याश्वासयित्वा ततो निर्गतः । ___अथ तृतीयस्याऽपराधिनो द्यूतकारस्य शुद्धिस्तु तेन महाप्रयत्नेन लब्धा । स तु राजपुरुषैर्गर्दभोपरि विपरीततयोपवेशितो, मुखे मषिकया रञ्जितः कण्ठे च पादत्रहारेणाऽलङ्कृतः सन् नीयमान आसीत् । बालकास्तु तदुपरि कर्करान् पाषाणखण्डांश्च क्षिपन्त आसन् । एतावतैव स निजगृहपार्वं प्राप्तः। तदा वातायने स्वपत्नीं दृष्ट्वा निर्लज्जतया तेनोक्तं - अयि ! द्रुतमेव जलमुष्णीकुरु। अहं रथ्याद्वयं भ्रान्त्वा सद्य एवाऽऽगन्तेति ।।
एतच्छ्रुत्वा दृष्ट्वा च चित्ते चमत्कृतः मन्त्री व्यचारयत् - अहो धृष्टताऽस्य द्यूतकारस्य ? नूनं सत्यमेव राज्ञो वचनं यद् - अल्पो दण्डो अधिकायितः, अधिकस्तु अल्पायित: । यत उपालम्भमात्रं मरणे परावर्तितम् । चपेटाद्वयं नगरनिष्कासने पर्यवसितम् । तथा सम्पूर्णदण्डस्तु सर्वथाऽवगणित एव । ननु महानयं राजा विक्रमादित्यः महांश्च तस्य न्यायः ।
(
A
न सा दीक्षा न सा भिक्षा न तद्दानं न तत् तपः । न तद् ध्यानं न तन्मौनं दया यत्र न विद्यते ॥
(सूक्तमुक्तावल्याम्)
101
Page #111
--------------------------------------------------------------------------
________________
कथा
झेनकथा
मुनिधर्मकीर्तिविजयः
(१) कोऽपि शिष्यः स्वगुरोः 'सेकित'स्य समीपं गतवान् । “प्रभो ! ददातु भवान् मह्यमेकमपि शब्द"मिति विज्ञप्तिः कृता तेन ।
गुरुस्तु मौनं स्थितवान् ।
गुरुः कदाचिदेव वदेत्, अतः पुनः शिष्योऽपृच्छत्- प्रभो ! एकमेव शब्दं प्रयच्छतु ।
20888888888888888888888888888800388
गुरुः करुणानिधिरासीत् । तेन मनसि विचिन्तितं यत् “अस्मै ईदृशः शब्दो देयो येन तच्छब्दमात्रेणैव तस्य सर्वमपि कार्यं सफलं भवेत्" इति विचिन्त्याऽपि गुरुर्मोनमवलम्बितवान् ।।
निराशामवाप्य शिष्यः स्वस्थानं प्रति गन्तुमुद्यतोऽभूत् । तदैव गुरुणाऽऽहूय "क्षणं तिष्ठतु" इत्युक्तम् । एतच्छ्रुत्वैव शिष्यो गुरुमभिमुखोऽभूत् ।
गुरुराह - अलं, अलं, एतदेव करणीयम् । विभावं प्रति न गन्तव्यम्, तां दिशं विहाय परमात्मानं प्रति.....
शिष्यो ज्ञातवान् ।
102
Page #112
--------------------------------------------------------------------------
________________
(२)
झेनगुरोः सविधे त्रयः शिष्या आगताः ।
एकेन कथितम् गुरुणा पृष्टम् - कस्त्वम् ?
स आह- श्रेष्ठिपुत्रोऽहम् ।
गुरुरवोचत् - षण्मासानन्तरमागच्छेः । मह्यं दीक्षा दीयताम् ।
द्वितीयेन प्रोक्तम्
गुरुरुवाच
कस्त्वम् ?
स आह अहं राजपुत्रः ।
गुरुणोदितम् - वर्षद्वयस्य पश्चादागच्छेः ।
तृतीयेन व्याकृतम्
गुरुः कथयाञ्चकार कस्त्वम् ।
-
-
1
भवान् मह्यं दीक्षां ददातु ।
1
प्रभो ! कृपया मे दीक्षां प्रदेहि ।
स आह "कोऽह " मिति न जानाम्यहम् ।
गुरुणा तत्क्षणमेव तस्मै दीक्षा दत्ता ।
माता पशूनां सुतसत्तयैव धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमानां लोकोत्तमानां चरितैः पवित्रैः ॥
(भविष्यपुराणे)
103
Page #113
--------------------------------------------------------------------------
________________
राङ्गमशः
नागानन्द-नवनीतम्
स्वामी श्रीब्रह्मानन्देन्द्रसरस्वती
पात्राणि
जीमूतवाहनः
मलयवती
चतुरिका
आत्रेयः
मित्रावसुः
विद्याधरराजकुमारः
तस्य भामिनी
तस्याः सखी
जीमूतवाहनस्य सुहृत्
मलयवत्या अग्रजः
गृध्रराज:
नागः
गरुडः
शंखचूड:
जीमूतवाहनस्य वृद्धमातापितरौ
104
Page #114
--------------------------------------------------------------------------
________________
प्रथमं दृश्यम्
(विद्याधरराजकुमारो जीमूतवाहन आत्रेयेण सुहृन्मित्रेण सह मलयगिरिसानौ विहरन् वसन्ते बहुशोभमानां मनोज्ञां प्रकृतिं प्रशंसति ।)
,
जीमूतवाहनः मित्र ! क्वेदं प्रकृतिमनोहरेषु वनराजिषु गुच्छगुल्मतरुलतासु मध्ये शान्तं निरातङ्कतं तृप्तं जीवनं क्व च तत् धूमरजःकल्मषदूषितमशान्तमतृप्तं सदाऽऽतङ्कितं कृत्रिमं नगरजीवनम् ? राज्येन वा, राजधान्या वा, राज्यकार्यभारेण वा, मन्त्रिसामन्तजनेन वा, छत्रचामरपरिसेवितसिंहासनाधिष्ठानेन वा किं मे करणीयम् ? तैरेतैरशान्तिप्रभवैः राजभोगैः नूनं जुगुप्सितोऽस्मि । इतः परं त्वमेव मे इदं विद्याधरीयं राज्यं निर्वह । प्रजाश्च सुष्ठु प्रशाधि । शिष्टं मे आयुषमहं मे वृद्धमातापित्रोरनन्यसेवायां तयोः सन्तोषणाय विनियुयुक्षुरहं सखें ! एवं संपन्ननिर्मलमानसोऽहमात्मोद्धाराय लोकहिताय चेमां मे कार्यशक्तिं चिच्छक्तिं च सर्वां समर्पयितुं सार्थयितुं च व्यवसितोऽस्मि ।
मलयवती
(आत्रेयः सख्युरमुमुग्रनिश्चयं श्रुत्वा संभ्रान्तो व्याकुलश्च सञ्जातः । अतस्तं जीमूतवाहनो यथामति सान्त्वयति । अत्रान्तरे समीपस्थात् देवमन्दिरात् सुमधुरं वीणागानं श्रूयते । तयोः सुहृदोस्तन्मन्दिरमुपगच्छतोर्मन्दिराभ्यन्तरे वीणां वादयन्ती मलयवतीनाम्नी सिद्धानां राजकुमारी सख्या चतुरिकया सह गवाक्षद्वारा मन्दिर बहिर्विहरन्तं जीमूतवाहनं परिलक्ष्य तस्य कायसंपदं स्फुरद्रूपं तेजोराशिं वीक्ष्य स्वहृदि तस्मिन् जीमूतवाहने गाढानुरक्ता समजायत ।)
सखि ! वद, कथं वाऽहं तं विद्याधरं भर्तृतया लभेय ?
105
Page #115
--------------------------------------------------------------------------
________________
p
100000
| मित्रावसुः
मलयवती
( सख्या सहितां मन्दिरान्निस्सरन्तीं मलयवतीं जीमूतवाहनः परिलक्ष्य तस्या मुग्धमनोहरसुन्दराकृत्या हृतमनस्कः सञ्जातः । ते च युवत्यौ समीपस्थेषु गुच्छगुल्मेषु निलीने सत्यौ तयोर्जीमूतवाहनात्रेययोः सञ्चलनं वीक्षमाणे तिष्ठत: । तौ जीमूतवाहनात्रेयौ तन्मन्दिरं प्रविश्य वेत्रास उपविशतः। जीमूतवाहनः प्रियाया: सुन्दरं भावचित्रं विलिख्य आत्रेयाय दर्शयित्वा तस्य प्रशंसनं निरीक्षते । आत्रेयश्च तत् मलयवत्या: प्रतिरूपं सुन्दरं भावचित्रं श्लाघते । तयोर्मिथः सँल्लापस्य शुश्रूषया बहिरेव गवाक्ष्या अधः प्रदेशे सा अवहिता तिष्ठति । एवं सति मित्रावसुर्नाम सिद्धानां युवराजो मलयवत्या अग्रजो मन्दिरं प्रविश्य तौ जीमूतवाहनात्रेयावुपगच्छति, सहसा जीमूतवाहनः प्रियाया भावचित्रमागन्तुरगोचरीचिकीर्षया वस्त्रेण समाच्छादयति ।) जीमूतवाहन ! अस्मत्प्रजाः सर्वा मद्भगिनीं परिणेतुं त्वामेव अनुरूपं संदधते । अनेन संबन्धेनोभयोर्विद्याधर-सिद्धसमुदाययोः कल्याणं भविता । मत्पिता मन्मुखेन तेऽभिनन्दनान्युपहरति ।
जीमूतवाहनः प्रिय भ्रातः नूनं सम्भावितोऽस्म्यनेन त्वदभिलषितेन । किन्त्विदं ते आवेदयितुमहं नितरां खिन्दे, अन्यथा मा भावयेथाः । अत्राऽहं निःसहायस्तिष्ठामि भोः ! अहं तावदन्यायां कन्यायामनुरक्तोऽस्मि तदन्यां कन्यां कथं वाऽहं वरये ?
( चतुरिका मलयवतीं निपुणं वीक्षते । मित्रावसुकृतं प्रस्तावं जीमूतवाहनः कथमुत्तरयतीति सावधाना भवति ।)
(इदं जीमूतवाहनप्रत्युक्तं श्रुत्वैव मलयवती मूर्च्छिता विसंज्ञा भूमौ निपपात । सखी च तां सान्त्वयितुं प्रवृत्ता ।)
सखि ! त्वं शीघ्रं राजसौधं गच्छ । अहमपि क्षणार्धेन त्वामनुसरामि । मम शीघ्रं प्रत्यागमनं पूज्यपितरौ भ्रातरञ्च आवेदय ।
106
Page #116
--------------------------------------------------------------------------
________________
-
D
TUD
KINNI
KI
Kा
(मलयवत्या प्रेषिता अपि चतुरिका तत्र वनोद्देशे तामेकाकिनी परित्यज्य निर्गमनमसमीचीनं मत्वा तत्रैव तरुगुल्मेषु निलीना मलयवतीकृत्यं सर्वं वीक्षते । भग्नहदया मलयवती तत्रत्यां लतामेव रज्जु संपाद्य तया स्वकण्ठं बद्ध्वा अवनतवृक्षशाखायां स्वमुद्बध्नाति । प्रायेण गतासुं शाखायां लम्बमानां बहुक्लिश्यन्तीं दृष्ट्वैव चतुरिका तत्र समागच्छति । 'त्राहि त्राहि राजकुमारी मत्सखी'मिति
चतुरिकाकृतमाक्रन्दनं श्रुत्वैव जीमूतवाहनो मित्रेण सह तत्रोपतिष्ठते ।) जीमूतवाहनः (तां सुकुमारीमुद्बन्धनादवमोचयन्) अलं साहसेन प्रिये ! कुतो
वेदमनपेक्षितं त्वया साहसं विहितम् ? नूनं संभ्रान्तोऽस्मि ! मलयवती 'अन्यायां कस्याञ्चित् कन्यायामनुरक्तोऽस्मीत्यतो नाऽहं ते भगिनी
परिणेतुं पारयामी'ति तव मित्रावसुं प्रत्युच्चरितं श्रुत्वैव भग्नहृदयाऽहं सञ्जाता । नाऽहं त्वद्विहीना जिजीविषामि । (जीमूतवाहनस्तां सान्त्वयित्वा मन्दिरं प्रवेशयति । तस्यै च स्वलिखितं भावचित्रं दर्शयति । स्वस्या भावचित्रं जीमूतवाहनलिखितं दृष्ट्वा स्वस्यामेव नान्यस्यां कस्याञ्चित् जीमूतवाहनो गाढानुरक्तोऽस्तीति यथार्थं विज्ञाय मोमुद्यमाना मलयवती जीमूतवाहनेन सह स्वस्या विवाहमहोत्सवं विधित्सन्ती तं राजसौधं नीत्वा मित्रावसुं
स्वभ्रातृत्वेन परिचाययामास ।) " जीमूतवाहनः मित्रावसो ! मय्यनुरक्तां मम प्रेयसी मलयवतीं तव भगिनीत्यजानता
मया त्वत्प्रस्तुतः परिणयप्रस्तावः निराचक्रे। मलयवतीं मुक्त्वाऽन्यां कन्यां नाऽहं वरये इति मम विवक्षा आसीत् । कुतो वा त्वं 'मलयवती मम भगिनी'ति मां नाऽऽवेदयः ?
AND
Tim
MILLD
TLED
रा
Tin
NIYA
107
Page #117
--------------------------------------------------------------------------
________________
द्वितीयं दृश्यम्
(मलयवती - जीमूतवाहनविवाहो हुतवहसन्निधौ समपद्यत । जीमूतवाहनो वनराजिषु मध्ये पर्णकुटीरमेकं निर्माय तत्र वृद्धमातापित्रोः सेवायां निमग्नस्तौ च सर्वप्रकारैः संतोषयामास । कदाचिदात्रेयेन सह समुद्रतीरे विहरति जीमूतवाहने आत्रेयो राज्यपरिपालनाय जीमूतवाहनेन नियुक्तो राज्यं यथामति निर्वहति स्म । जीमूतवाहनस्याऽरण्यवासेन प्रोत्साहितो मतङ्गो नाम सामन्तराजो यो जीमूतवाहनस्याऽऽज्ञाधारक आसीत् सोऽसौ सेनासमेतो विद्याधरराजधानीं प्रसभमाचक्राम राज्यकोषं च लुण्ठितुं प्रववृते । आत्रेयोऽरण्यवासिनं जीमूतवाहनमुपगम्य युद्धवा शत्रुं परावर्तयितुमाजग्राह । )
जीमूतवाहनः आत्रेय ! युद्धं नाम असंख्याकानां प्रजानां नरमेध एव खलु ? अस्माकं शत्रोश्चोभयोर्महद्विशसनं प्राणहानिर्द्रव्यहानिश्च सम्भवितारः । तन्मे सुतरां नेष्टम् । कामं राज्यं मतङ्ग एव गृह्णातु न्यासरूपेण च राज्यं प्रशासतु । गच्छ ममेदं निश्चयं मतङ्गाय निवेदय । (आत्रेयो जीमूतवाहनस्य आज्ञां शिरसा वहन् प्रतिन्यवर्तत । जीमूतवाहनस्याऽऽशयं मतङ्गाय न्यवेदयत् । स च मतङ्गो राज्यं जीमूतवाहनस्य इष्टमनुसन्धाय, तस्य प्रतिनिधिरूपेण राज्यं निरवाक्षीत् । इतः समुद्रतीरे विहरतोर्जीमूतवाहनात्रेययोरनतिदूरे मलयसानौ गिरिरेकः श्वेतप्रभाभास्वरस्तयोर्दृग्गोचर्यभूत् ।)
जीमूतवाहनः पश्य, पश्य सखे ! सानौ तं श्वेतगिरिं उद्यद्भानुचमत्कृतं
रजतघनराशिमिव शोभमानम् ।
108
000
D
Page #118
--------------------------------------------------------------------------
________________
mm
mm
D
Ka
mum
DITIO
Tum
mom
आत्रेयः नाऽसौ श्वेतगिरिः मित्र! सोऽसौ गरुत्मता सर्पभक्षणलालसेन
तदनुयायिगृध्रसमूहेन च भुक्तावशिष्टानां नागानामस्थिसञ्चयो
गिरिसन्निभः । HIM जीमूतवाहनः अहो दुर्गतिः सर्पाणाम् । तेषामेवंविधो वैशसः सर्वनाशः कथं
सञ्जात इत्यवबोद्धं, सकुतूहलोऽस्मि । सर्पाणां घोरसङ्कटं गरुत्मता तदनुयायिभिश्च गृधैः समापादितं मां भृशं दुनोति । नागेभ्यः समापादिताया हिंसायाः स्थगनं न केनापि विहितमिति नूनं चकितोऽस्मि। यदि एकस्याऽपि नागस्य प्राणहानिर्मया परिहियते, हतानां नागानामुज्जीवनं मया कर्तुं पार्यते तहि इदं मे मानुषं जन्म सार्थक्यं भजते नाऽन्यथा। स्वाङ्गानां क्षतिविक्षतिः तन्निमित्ता पीडा दुःखवेदनं च यथा ममाऽप्रियतयाऽनुभूयते, तथैव सर्वेषां जीवजन्तूनां तदप्रियं भवति । यथैव मम जिजीविषा प्राणैरवियुयुक्षाऽस्ति तथैव सर्वजन्तूनां नः सहजीविनाम् । सर्वस्य प्राणिजातस्य ममाऽऽत्मीयबन्धूनां दुःखं दूरीकृत्य तेभ्योऽमितमानन्दं कथं कदा वा संपादयेयमिति चिन्तितोऽस्मि सखे ! अग्रे तावत् केन कदा कथं
समेषां नागानामेवंविधा दुर्गतिः सञ्जाता इति जिज्ञासा मामुत्कण्ठयति । II आत्रेयः
शृणु सखे ! पुरा अवसन्ने कुरुक्षेत्रयुद्धे परीक्षिन्नाम राजा अनेकसंवत्सराणि राज्यं प्रशशास। कदाचित् मृगयाव्यसनेन काननोद्देशे विहरति तस्मिन् सोऽसौ भृशं क्लान्तः पिपासादितः तत्रैव गोचरिते कुटीरे पेयं जलमयाचत । निर्जने कुटीरे वृद्धतापसं ध्याननिमग्नमवलोक्य मत्तः प्रमत्तः क्रोधावेशेन परिसरे दृष्टं मृतसर्प धनुष्कोणेनोद्धृत्य तस्य वृद्धतापसस्य कण्ठे मालामिव लम्बयित्वा निरगात् । अनतिचिरादेव समिध् आहरन् निवर्तमानो मुनिकुमारः एवमपमानितं स्वपितरमुपलभ्य क्रोधमूर्छितः ‘अद्यप्रभृति सप्तमे दिने
mm
Lun
D
mmm
पm
m
Kा
109
Page #119
--------------------------------------------------------------------------
________________
WO
I
पापा
immmm
m
ID
सोऽसौ धूर्तापसदो सर्पदंशनेन म्रियता'मिति शशाप । m जीमूतवाहनः हा हन्त ! प्रजावत्सलस्य राज्ञो अल्पप्रमादनिमित्ता मुनिकुमारेण
बालचापल्येनाऽनभिज्ञेन संपादिता घोरविपत्तिः । " आत्रेयः आवेदितमुनिकुमारशापो राजाऽधृत्या सर्वलोकशरण्यं हरिं शरणं ययौ।
भागवतोत्तमेन शुकेन श्रावितहरिमहिमा देहात्मबुद्धिमतिक्रम्य जन्मजरामरणदिसकलदेहविकारैरस्पृष्टे नित्यनिर्विकारे स्वस्वरूपे
प्रत्यगात्मनि लीनचित्तो मृत्युं निरीक्षमाणो ध्यानारूढः समतिष्ठत । जीमूतवाहनः ततस्ततः ? आत्रेयः राजा शापग्रस्तो मन्त्रिगणैः समुद्रमध्ये द्वीपे गुहायां रक्षिभटैः सुरक्षितः
प्रतिष्ठापितः । सप्तमे दिने राजानं दष्टुमभ्यागच्छति तक्षके कश्यपो नाम द्विजवरो गारुडमन्त्रज्ञः प्रवेशद्वारे तं तक्षकमधर्षीत् । तं तक्षकं स्वमहिमानं निरूपयितुं च समाह्वयत् । स च तक्षकस्तत्रस्थं वृक्षमेकमदशत्, क्षणमात्रेण वृक्षः भस्मीभूतः । तदनु कश्यपस्तं भस्मीभूतं वृक्षं पुनरुज्जीवयामास । वृक्षं यथापूर्वं शाखापर्णपल्लव
प्रसूनैरशोभिष्ट। जीमूतवाहनः ततस्ततः ? आत्रेयः तक्षकगण इदं कश्यपोपस्थापितं विघ्नं निवारयितुकामस्तस्मै कश्यपाय
त्रिंशत्स्वर्णमुद्राणामुत्कोचनं प्रदाय तं ततो निवर्तयामास । लब्धप्रवेशस्तक्षकः फलेषु राज्ञे उपहारीकृतेषु कीटरूपेण स्थित्वा
राजानमदशत् । राजा च विसंज्ञितो मृतिमगात् । जीमूतवाहनः ततस्ततः ? आत्रेयः पश्चात् परीक्षितपुत्रो जनमेजयः पितृहन्तारं तक्षकं तत्सन्ततिं च
विनाशयितुं प्रतिजज्ञे । तदर्थं च सर्पयागमियाज यत्र असंख्याका नागा अग्निकुण्डे निपतिता अस्थिमात्रसवशेषिताः । प्रायेण नागसङ्कलं
पिया
LD
|
"
m
110
Page #120
--------------------------------------------------------------------------
________________
Im
m
हतप्रायमभूत् । तक्षकोऽपि आसन्नमृत्युराकस्मिकतया तत्राऽऽगतेनाऽऽस्तिकेन करुणालुना विमोचितः । भीतभीतस्तक्षकः सर्पराजो दन्द्रम्यमाणः कुत्रचिदलब्धाश्रयो ऽन्ते मलयसानौ निवसन्तं त्वत्पितरमुपजगाम । त्राहि मां मत्सन्ततिं चेति तक्षकेण अनुरुद्धस्तव पिता स्वभावसहजजीवकारुण्येन तस्मै तक्षकाय तत्सन्तत्यै चाऽत्र मलयगिरिसानावाश्रयं ददौ । दत्ताश्रयस्य तक्षकस्य संततिरल्पकालेनैव वृद्धिंगता। सन्ततिस्फोटेन सञ्जातेनाऽऽहारहासेन बुभुक्षापीडिता बहवो नागा मृतिमगमन् । शिष्टान् दुर्बलशतान् नागान् गृध्रराजो वैनतेयः
स्वेच्छया गृहीत्वा भक्षयितुं प्रववृते । जीमूतवाहनः जानामि सखे ! देवो दुर्बलघातक इति । o आत्रेयः
स्वकुलस्य सर्वनाशपरिजिहीर्षया तक्षको वैनतेयमुपगम्य, 'आर्य ! एवं स्वैरभक्षणेन अस्मत्कुलं मा विनाशय । प्रत्यहं नियमेन नाग एको रक्तपटधारी गिरिशिखरे तदर्थं निर्मितं शिलाफलकं बलिपीठमध्यासिता, स च तद्दिनस्य ते आहारो भविता, मत्सन्ततिश्च
शेषिता इति तेन गृध्रराजेन सह समयः कृतः । AIM जीमूतवाहनः तथा वा ?
PAN
D
Im
O
प
m
m
में तृतीयं दृश्यम्
आत्रेयः मित्र ! सोऽयं श्वेतगिरिः हतानां नागानामस्थिसञ्चयो, वैनतेयविहितस्य
नागानां मारणहोमस्य अवशेषः । जीमूतवाहनः हन्त ! यद्यहमेकमपि नागं मृत्युसङ्कटान्मोचयितुं प्रभवेयं, तदर्थं
ममेदं क्षुद्रमनित्यं शरीरं बलिं कृत्वाऽपि यद्येकस्याऽपि नागस्योज्जीवनं संपादयितुं शक्नुयां तर्हि मां प्रसूतवत्या मन्मात्रा प्रसववेदना नैव
mil
111
Page #121
--------------------------------------------------------------------------
________________
7701200
आत्रेयः
जीमूत ! सायंसन्ध्या सन्निहिता । शर्वरी लोकं समावृणोति । तत्प्रतिनिवर्ताव है, यतो हि वृद्धौ ते मातापितरौ तव चिरविरहमसहमानौ तव निरीक्षयैव जीवं धारयतः ।
जीमूतवाहनः मैवं मित्र ! नाऽहं त्वां निरुणध्मि । गच्छ शीघ्रम् । वृद्धौ सान्त्वय, अचिरादेव त्वामहमनुगच्छामि ।
शंखचूड:
माता
निष्फला सोढेति मन्ये । तद्दिशि कथं वाऽहं प्रवर्तेय ? को वाऽस्ति यो मे मार्ग दर्शयिता ?
(आत्रेय: जीमूतवाहनेनाऽनुज्ञातोऽरण्यकुटीरं प्रति निर्जगाम । जीमूतवाहन एकल एव समुद्रतीरे प्राणसंकटग्रस्तानां नागानां समुज्जीजिवयिषया तप्तहृदयो व्याकुलितचित्त इतस्ततः परिभ्रमति स्म । सहसा - 'हा ! हतभाग्याऽहं, हा पुत्र ! शङ्खचूड ! कथं त्वां विहाय अहं जीवेयम् ? को वा मां त्राता' ? इतीदमाक्रन्दनं दारुणं श्रुतं तेन । जीमूतवाहनस्तत्र प्रधावितो यत्र गिरिशिखरे बलिपीठस्य उपान्तिके नागमाता स्वपुत्रं शंखचूडं गरुत्मतस्तद्दिनस्य नियताहारत्वेन तक्षकेन भुजगाधिपतिना परित्यक्तं बलिपीठमधिरोढुं सन्नद्धं, कथं कथमपि संरक्षितुकामाऽप्रतिसमाधेया करुणं विलपति । नियतिमनुसृत्य रक्तपटं परिधाय बलिपीठाधिरुरुक्षुः शंखचूडः मातरं सान्त्वयति । जीमूतवाहनस्तयोर्मातापुत्रयोर्मिथः संलापं निकटवर्तिषु गुल्मगुच्छेषु निलीनो निपुणं शृण्वंस्तिष्ठति ।)
अम्ब ! मा शुचः । सर्वस्य प्राणिजातस्य देहत्यागोऽपरिहार्यः खलत ? अलं मोहपरवशतया ।
कथं त्वां हित्वाऽहं जीवेयं वत्स ! आभ्यां वृद्धनेत्राभ्यां गरुत्मता ह्रियमाणं त्वां कथं वा पश्येयम् ? न नैव पुत्र ! यच्छ मे रक्तपटपरिधानं, त्वत्स्थानेऽद्य अहमेव बलिर्भवानि । वृद्धशरीरस्य
112
Page #122
--------------------------------------------------------------------------
________________
Lumb
माता
" माता
सन्निहितनिपातस्य धारणेन कस्य को वा पुरुषार्थः ? वृद्धानां पुरतः
तत्संततेविनाशो नैव गुरुजनसम्मतः । HIM शंखचूडः मैवमम्ब ! तक्षकेण प्रभुणाऽहमेव गरुत्मते उपहारीकृतः । मत्तोऽन्यस्य
कस्यचिदप्यत्र अवकाशो नैव। तत्प्रतिनिवर्तस्व अम्ब ! । गरुत्मत आगमनं सन्निहितम् । हा कष्टम् ! को वा मत्पुत्रस्य त्राता ? (आक्रन्दति) (शंखचूडः प्रणतातिहरं हरं महादेवं ध्यायन् बलिपीठमुपसर्पति ।) हा पुत्र ! को वा मां नष्टसर्वस्वां दीनां त्राता ? (करुणमाक्रन्दति)
(जीमूतवाहनः सहसा तयोर्मातापुत्रयोर्मध्ये समुपतिष्ठते ।) जीमूतवाहनः अहमस्मि मातः ! तव प्रियपुत्रस्य त्राता । यच्छ मे रक्तपटपरिधानम् ।
तव पुत्रेण सह स्वगृहं निवर्तस्व । शंखचूडः (साश्चर्य) मैवमार्यपुत्र ! धन्योऽस्मि मयि तव सहानुभूत्या। किन्तु
एकस्य मातुरश्रूणि परिमृज्याऽपरस्य तवैव मातुर्नयनाभ्यामश्रूणि मोचयितुं नैव युक्तं भो: ! (एवमुक्त्वा शंखचूडोऽम्बया सह तद्देशं विहाय दूरं गतः । पुनश्च जीमूतवाहन एकल एव स्थितः । तदैव
श्वश्र्वा प्रहितः सेवको रक्तपटपरिधानं गृहीत्वा जीमूतवाहनमुपसर्पति ।) HD सेवकः प्रभो ! विजयतात्, राज्ञी तव श्वश्रूर्नवपरिणीताभ्यां युवाभ्यां दम्पतीभ्यां
दशदिनपर्यन्तमेतदमोघं रक्तपटपरिधानं विवाहविधिं पुरस्कृत्य परिधातव्यमित्याज्ञापयति । तव प्रियभामिनी पवित्रं रक्तपटपरिधानं
परिधृतवती । त्वमपि गृहाण तथा परिधत्स्व भोः ! SHIR जीमूतवाहनः तथास्तु, तथास्तु, अवश्यं परिधास्ये, गच्छ शीघ्रम् । राज्यै सूक्तं
निवेदय । (सेवकः जीमूतवाहनस्य प्रसारितहस्ते रक्तपटपरिधानं निधाय प्रतिनिवर्तते ।)
MED
Im
113
Page #123
--------------------------------------------------------------------------
________________
का
दी
तत्काल एव सिद्धराज्ञः सेवको रक्तपटपरिधानं गृहीत्वा समुपस्थितः । आर्यपुत्र इदं रक्तपटपरिधानं गृहाण, राज्या ते श्वश्र्वा प्रेषितं वर्तते । नूतनपरिणीतेन त्वयैतद् दशदिनपर्यन्तं परिधातव्यमित्याज्ञापयति ।
कार
एक किमी
ड)
साम
811 114
अहो मे सौभाग्यम् । योग्यकाले रक्तपटपरिधानमुपलब्धम् । राज्य मे गौरवाभिनन्दनमावेदय ।
TOTH
Page #124
--------------------------------------------------------------------------
________________
शि शिक
की
HISPER $652215
शल
तदैव जीमूतवाहनो रक्तपटं परिधाय बलिपीठमध्यारूढः ।
कोकु
मलयवत्या सह मे परिणयः सफलो जातः । तदेतत्जन्तोरेकस्य प्राणरक्षणाय कल्पते।
ट्राफिशिए मागील
एक एक
शिका
लिंगाय
2017 For Povate & Personal Use Only 115
इतभारस्य
काम
कार्य
コット
Page #125
--------------------------------------------------------------------------
________________
KITO
Kmm
जीमूतवाहनः दिष्ट्या मया प्राप्तमिदं रक्तपटपरिधानं योग्यकाले बलिपीठारोहणाय
अपेक्षितम् । (रक्तपटपरिधानेन स्वशरीरमाकण्ठमाच्छाद्य बलिपीठमधितिष्ठति । गरुत्मत आगमनमेव निरीक्षते । गरुत्मान् अचिरादेव निपरिपत्य रक्तपटं परिधायाऽवनतमुखं बलिपीठमधितिष्ठन्तं नियतोपहृतं बलि नागं मन्वान उग्ररवैः बलिपीठादुद्धृत्य उड्डयते । जीमूतवाहनं राजकुमारं गृहीत्वोड्डयमानं गरुत्मन्तं वीक्ष्य खिन्नः स्वं महापराधिनं विगर्हयन् जीमूतवाहनस्य वृद्धमातापितृभ्यां, तद्भामिन्यै मलयवत्यै च यथाघटितं दुरन्तमावेदयितुकाम आत्रेयः काननकुटीरं प्रति धावति । वैनतेयनखप्रहारविक्षताङ्गात् जीमूतवाहनशरीराद् निःस्रवन्तो रक्तबिन्दवो गिरिसानौ तत्र तत्र निपतन्ति ।)
m
4
in
चतुर्थं दृश्यम्
पिता
(अरण्ये पर्णशालाकुटीरे जीमूतवाहनस्य वृद्धमातापितरौ मलयवती च संल्लपन्तः सुखमासते।) जीमूतवाहनः कथमिव प्राप्तायामपि सन्ध्यायां नैव प्रतिनिवृत्त इति नूनं चिन्तिताऽस्मि भोः !। कुत्र गतोऽसौ ? कुतोऽद्याऽपि न प्रत्यागत इति वक्तुं न प्रभवामि । (मलयवतीमुद्दिश्य) अपि त्वं जानासि पुत्रि, व ते भर्ताऽऽस्ते ? नैव जाने पितः ! अथाऽपि अन्तर्हदि किञ्चिदिव त्रस्ताऽस्मि । प्राणनाथस्य सुरक्षाविषये भीतिर्मा भृशमुद्वेजयति। (तस्मिन्नेव क्षणे गरुडो नखगृहीतजीमूतवाहनशरीरो गगने उड्डयमानस्तैरवलोकितः । सर्वे उन्नमितशिराः तं बृहदाकृति
मलयवती
116
Page #126
--------------------------------------------------------------------------
________________
&
Rm पिता
rod माता
Find मलयवती
R
माता
SIM पिता FIM, मलयवती
mum
m
खगराजमास्फालितपक्षं, गगनमणिमपि स्वबृहत्कायेन समाच्छादयन्तमभूतपूर्वमपश्यन् । एवं विलोकयत्सु तेषु गगनाद् जीमूतवाहनस्य रत्नखचितमङ्गलीयकमासीनस्य वृद्धपितुः पादयोरुपर्यपप्तत् । मलयवती तदुद्धृत्य साश्चर्यं वृद्धपितुर्हस्ते निचिक्षेप ।) (अङ्गलीयकं रक्तसिक्तं निपुणं वीक्ष्य) कस्य वा अङ्गुलीयकमेतद् भवेदिति नूनं सम्भ्रान्तोऽस्मि । इदमङ्गलीयकं जीमूतवाहनस्यैवेति सम्भावये भोः ।। न, न, नैव । तन्नूनमसम्भवम् । मा भैषीः पुत्रि ! इदमङ्गलीयकं कस्यचित् नागस्य हतभाग्यस्य गरुडेन ह्रियमाणस्य हस्तच्युतं स्यात् । तथैव स्यादित्याशास्महै । चतुरिके ! मित्रावसुं मदग्रजं त्वरितमुपगच्छ । जीमूतवाहनस्तत्रोपस्थितो वेति ज्ञात्वा प्रत्यागच्छ। (चतुरिका निर्गच्छति ।) (अत्रान्तरे शंखचूडः प्रतिनिवृत्य बलिपीठमुपगम्य रक्तसिक्तं रिक्तं बलिपीठं विलोक्य भृशं दुःखितः ।) वैनेतेयस्तं मे आपद्वान्धवं देवमानवं करुणासमुद्रं गृहीत्वा निरगमदिति । सम्भावये । (बलिपीठादवतीर्य गिरिसानौ त्वरमाणश्शंखचूडो
PRIM गिरिशिखरं प्रति जीमूतवाहनान्वेषणकातरान् तत्पितरौ तद्भामिनी मलयवतीं च विलोक्य तेषामभिमुखं प्रधावति । तं नागं शंखचूडं I परिपश्यन्) पश्य पश्य कश्चिन्नागो नोऽभ्यागच्छति । अङ्गलीयकं तस्यैव स्यात्, " विनष्टस्वाङ्गलीयकजिघृक्षयाऽत्र त्वरयतीति सम्भावये। (उद्विग्नं शंखचूडमभिमुखीभूतमुद्दिश्य) वत्स ! अपि तव रत्नं विनष्टमिति पृच्छामि ।
Turm
शंखचूडः
" पिता
Im
mum
117
.
Page #127
--------------------------------------------------------------------------
________________
----
------
wwwwww
शंखचूड:
पिता
शंखचूड:
गरुडः
गरुडः
न, न केवलं रत्नं भोः ! त्रिलोकरत्नं विनष्टमिति दूयमानहृदयोऽहं निवेदयामि । धिङ् मां सज्जनप्राणघातिनम् । कश्चिद् विद्याधरो राजकुमार इहागत्य आपन्नमृत्युं मामल्पक्षुद्रजीविनं मृत्युमुखाद् विमोच्य स्वीयान् प्राणान् निर्घृणाय गृध्रराजाय उपहार्यकृत । तस्य तव प्रियसुनोर्हन्ता वैनतेयो नैव, अहमेव तस्य हन्ता । (विलपन् ) क्व गतोऽसि पुत्र अस्मान् विहाय ? त्वां विहाय कथं वा वयं जीवेम पुत्र !? (शंखचूडमुद्दिश्य) वत्स ! चितां समेधय । अग्नाविदं वृद्धशरीरं हुत्वा प्रयातं जीमूतवाहनमनुगच्छामि । जिजीविषा मे सुतरां नास्ति विनष्टप्रियपुत्रकस्य हतभाग्यस्य । (विलपन्) वत्स ! अङ्गुलीयकमवमुच्य मम पादयोः पातयित्वा मम पादसेवनं चिकीर्षसि वा ?
मा मा त्वरिवं भोः ! सम्भवेदपि यत् त्वत्पुत्रकः स नागो नेति संपश्यता ं गरुडेन राजकुमारोऽमराकृतिर्विमुक्तः स्यात् ।
( तेन शंखचूडप्रदत्तेन समाश्वासनेन किञ्चिदिव समाहितास्ते रक्तबिन्दुपङ्क्तिमनुजग्मुः । गिरिशिखरे सुदूरे गरुडो नागबुभुक्षुर्यदा रक्तपटमपसारयति स्म तीक्ष्णनखैः क्षतविक्षताङ्गनराकृतिं दृष्ट्वा चकित: सन्)
अहो ! विचित्रमिदम् । अद्यपर्यन्तं मदुपहारीकृताः सर्वे नागाः मन्नखप्रहारमसहमानाः भयभीता वेपमाना आसन् । एष निर्भीतोऽप्रकम्पितः शान्तमना हसन्मुखो दृश्यते । (जीमूतवाहनोऽवशिष्टलेशमात्रप्राणः कष्टेन किञ्चिदिव समुत्थाय गरुडं विलोकयति ।)
(साश्चर्यं) कस्त्वम् ? न त्वं नागः ।
(तस्मिन्नेव समये शंखचूडस्तत्रोपगच्छति । गरुडमुद्दिश्य)
118
Page #128
--------------------------------------------------------------------------
________________
KTM
Hum
Im शंखचूडः भो भोः ! नाऽसौ नागः, सोऽसौ जीमूतवाहनो राजकुमारो विद्याधराणां
कुलचूडामणिः । अहमेव नागो योऽद्य त्वत्कृते उपहारीकृत आसीत।
उपस्थितोऽस्मि तव नियतो बलिः । जीमूतवाहनः मैवं शंखचूड ! मृत्युमुखात् तव विमोचनाय, भग्नहृदया।यास्तव
मातुर्नेत्राभ्यामश्रुप्रमार्जनाय कृतसंकल्पं मां भग्नसंकल्पं मा कुरु । (वृद्धदम्पती मलयवती च क्षणद्वयेन तत्र उपस्थातारो यत्र जीमूतवाहनः क्षतविक्षताङ्गो लेशमात्रावशिष्टप्राणः सन्निहितमृत्यु मौ
विलुण्ठति ।) जीमूतवाहनः शंखचूड सखे ! क्षिप्रं मच्छरीरमाच्छादय, येन क्षतविक्षतं रुधिराप्ला
वितं मत्प्रियजना मैक्षिषन्त । विह्वला वीतसंज्ञा च मा भूवन् । (शंखचूडः स्ववस्त्रमवमुच्य त्वरया जीमूतवाहनशरीरमाच्छादयति येन ते तस्य बन्धुजनास्तं दारुणस्थितं न पश्येयुः ।)
'
र
m
पा
, पञ्चमं दृश्यम्
एम्पो
एप
Im
माया
FULL
(गरुडो जीमूतवाहनं रुधिराप्लावितशरीरमार्तभीतस्य कस्यचिदेकस्य जन्तोर्जीवस्य रिरक्षयिषया स्वीयममूल्यं सर्वभोगसाधनसंपन्न जीवमुपाहतवन्तं विलोक्य तत्क्षण एव व्याकुलितहृदयो पश्चात्तापेन संतप्तहृदयो स्वात्मानमधिक्षिपति ।) धिङ् मां । क्वैषो दीनदुर्बलजीविनः समुद्धर्ता, क्वाहं दीनदुर्बलजीविनो निघृणनिहन्ता ? इमं महात्मानं नागं मन्वानोऽहमविचारेण नागभक्षणलालसयाऽमुं विद्याधरं मृत्युमुखं प्रावेशयम् । अद्याऽहं प्रतिजानामि यदितः प्रभृति कामं मे प्राणा बुभुक्षया मां जयुः,
KINगरुड:
VAR
119
Page #129
--------------------------------------------------------------------------
________________
पा
Kum
माता
TITIO
मार्ग
"गरुडः
प्रया
पाय
नाऽहं कस्याऽपि जन्तोर्जीवं हिंसितास्मि, नाऽहं कस्यापि जीवस्य प्राणानपहर्तास्मि । हा हन्त ! अस्ति लोके कश्चिन्महानुभावो योऽमृतमपि समानीय मत्पुत्रकमुज्जीवयेत् ? (अमृतमिति स्मारितः सन् हृष्टपुलकितः सन् केकायते) तिष्ठ तिष्ठ मातः ! माभैषीरम्ब ! सुधासञ्जीवनी यत्र कुत्र वा त्रिलोक्यां विद्यताम्, तदहं गृह्णामि, गृहीत्वा क्षणार्धेन प्रत्यागच्छामि । (उड्डयते । अनतिदूर एव सञ्जीवनीसंपन्नं गिरिवरमुपलभ्य तद्गतां सञ्जीवनीमूलिकाप्रभावितां मृत्तिकां संगृह्य प्रतिनिवर्तते। तां च सञ्जीवनीमृत्तिकामद्भिः संमिश्य तया ईषन्मात्रसन्धारितप्राणस्य जीमूतवाहनस्य रक्तसिक्तकलेवरमभिषिञ्चति । जीमूतवाहनो सुप्तोथित इव सजीव: सकलाङ्गः समुत्तिष्ठते ।) (गरुड एतावत्पर्यन्तमात्मनः प्रमादेन निघृणतयाऽविचारेण हतानां नागानां मृतकलेवराणां तथा च तेषामस्थिसञ्चयस्योपरि सञ्जीवनीमृत्तिकयाऽभिषिञ्चति, तेऽपि सर्वे नागा सुप्तोत्थिता इव सजीवाः सकलाङ्गाः समुत्तिष्ठन्ते । तत्काल एव तक्षको नागाधिपतिरपि तत्रोपतिष्ठते । स्वबन्धुजनान् सर्वानुज्जीवितानुपलभ्य हर्षोल्लासेन मोमुद्यते । नागानां आनन्दस्त्वया संपादित इत्यतस्त्वं 'नागानन्द'
इति विश्रुतो भव इति च जीमूतवाहनायाऽऽशिषं व्याहरति । जीमूतवाहनः अनुजानीहि मां खगोत्तम ! । गरुडः निरपराधिनं विद्याधरवंशतिलकमेवं प्रमादपरवशतया निघृणं
हिंसितवन्तं मां क्षन्तुमर्हसि जीमूतवाहन ! । राज्यलिप्सया प्रवृत्तमाने युद्धोद्यमेऽवश्यंभाविनो वैशसस्य परिजिहीर्षया स्वायत्तं राज्यमेव त्वं पर्यत्याक्षीः । वृद्धमातापितृसेवैव राज्यभोगविलासादपि श्रेयसीति
amIID
Tim
In
120
Page #130
--------------------------------------------------------------------------
________________
AD
निश्चित्य राज्यभोगविलासिजीवनाद् व्यरंसीः । अल्पीयस एकस्य नागस्य प्राणानां रिरक्षयिषया स्वीयानमूल्यानतिप्रियानपि प्राणानहौषीः । जीवकारुण्यस्य वसुधाकुटुम्बत्वस्य आत्मौपम्यस्य सर्वात्मनिष्ठायाश्च लोकोत्तरमादर्श प्रत्युपस्थापयांचकर्थ । सर्वैराचन्द्रार्कं तवैषोऽमोघस्त्याग
उपगीयतात् । हार्द मेऽभिनन्दनं स्वीकुरु जीमूतवाहन ! । जीमूतवाहनः अहिंसा निर्वैरभाव एव परमो धर्म इति सुष्टु जानीहि पक्षिराज!।
प्रेम विना जीवनं शुष्कं नीरसमिति बुध्यस्व । यथैव हिंसा तत्कृतं दुःखं च तवाऽप्रियमनिष्टं तथैव हिंसा तत्कृतं च दुःखमन्येषामपि जीवानामप्रियमनिष्टमित्यवगच्छ सखे ! । अतो कदापि जीवान् मा वधीः । महाशक्तिमतस्तव शक्तिः खलस्य इव परपीडनाय मैवाऽस्तु अपि तु रक्षणाय सम्पद्यताम् । उक्तं खलु-दुर्बलानां बलं राजा । त्वमसि खगराज इत्यतस्त्वं दुर्बलानां जीवानां रक्षको भूयाः ।। मांसभक्षणाद्विरम । धान्यफलैः सस्योत्पन्नैः प्राणान्धारयस्व। (तक्षकमुद्दिश्य) सहजस्वभावमप्यतिक्रम्य विषदंशनाद्विरमत। धान्यफलैः सस्योत्पन्नैः प्राणान् धारयध्वम्। प्राणघातकमपि विषं वः सिद्धौषधं भूयात् । लोकाराध्यस्त्वं संपत्सीष्ठाः । (ततो जीमूतवाहनः सबन्धुजनस्तान् सर्वानापृच्छति। स्वस्थानं प्रति
निष्कामति ।) मित्रावसुः जीमूतवाहन ! उपलब्धेष्वसंख्येष्वादशेषु बहुप्रकारै-निंबोधितेष्वपि
कथमिदमुपलभ्यते यत्, जीवा अहिंसां निर्वैरभावनां च नाऽनुतिष्ठन्ति, अपि तु हिंसामेव वैरभावमेव च साधयन्ति ? "मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनाः निष्कारणमेव वैरिणो जगति ।" स्वभावो दुरतिक्रम इति मन्ये ।
Im
m
माया
IP
Kा
KTIm
m
For Private Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
-
जीमूतवाहनः नूनं यद्यपि त्वयोदाहृतेन सूक्तिवचसा हिंसाया, वैरभावस्य च
निष्कारणत्वं प्रतिपाद्यते, तथाऽपि सुविचारितं चेत् सर्वस्य समाचरणस्य सकारणत्वमेवाऽवगम्यते । कार्यस्य दृष्टस्य कारणवत्त्वेनैव भाव्यमिति निरपवादो नियमः। स्वार्थ एव स्वदेहपरिच्छिन्नात्मबुद्धिकृतो, लोके हिंसायाः वैरभावस्य मूलकारणमिति मे निश्चितिः । सर्वात्मनिष्ठया स्वदेहपरिच्छिन्नात्मबुद्ध्यत्यय एवाऽहिंसाया निर्वैरभावस्य रहस्यं मूलं चेति मे निबोध सखे !
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ।। (तदनु पश्चात्तप्तेन मतङ्गेन प्रत्युपाहृतं विद्याधरराज्यं माता-पित्रोरनुज्ञया जीमूतवाहनो जग्राह, प्रजाश्च प्रेम्णा दक्षतया च प्रशशास । इति ॥)
D
पर
Pum
॥ नागानन्दनवनीतं नाम रूपकं समाप्तम् ॥
um
m
D
Kmmm
D
सिया
Kा
mmm
पm
For Private Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
मर्ग नर्ग
- कीर्तित्रयी
अद्य मयैक आरक्षकः प्रतारितः । * कथम् ? स मां छगनलालाभिधं मत्वा
"
नायनासीत किन्त्वहं तु मगनलालाभार
श्रेष्ठिन् । एतावताऽल्पीयसा वेतनेन त्वहमाजीवनं विवाहं कर्तुं न शक्ष्यामि ! । _ तदहं जानाम्येव । अत एव च त्वं ।। जीवनपर्यन्तं ममोपकारं मंस्यसे ।
मयूरः यदि चेन्मदीयस्य भ्रातुरुचितं पात्रं किमपि भवेत्तदा कथनीयम् । केयूरः भोः ! पात्राणि तु बहूनि सन्ति, किन्तु तव भ्रातुर्योग्यतै"व
चिन्तनीया।
For Pr123 Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
।
मित्र ! त्वं मम विवाहकाले सार्द्धमेव स्थास्यसि खलु ?
अवश्यम्, अवश्यमेव ! अहं न तादृशं * मित्रं यदापत्तिकाले पृष्ठं दर्शयेयम् ।
विवाहप्रसङ्गे भोजनसमारम्भः प्रवर्तमान आसीत् । विद्युत्प्रकाशस्तदा नाऽऽसीत् । ०० + एकत्र तैलदीपं प्रज्वाल्य तस्य प्रकाशे सर्वेऽपि पङ्क्तौ भोजनार्थमुपविष्टा आसन् । केचन : * जना भोजनं पुरस्कुर्वन्त आसन् । एकैकं खाद्यपदार्थं गृहीत्वा सर्वेषां पात्रेषु ते मुञ्चन्त + 2. आसन् । किन्तु दैवयोगादेकस्य प्रौढजनस्य पात्रे केनापि किमपि न दत्तम् । अल्पप्रकाशात् ४
कस्याऽपि लक्ष्यमपि तत्र न गतम् । एवमेव च काचिद् वेला व्यतीता। स प्रौढश्चिन्तितवान् – यत् कोऽप्युपायो योजनीयः, अन्यथा बुभुक्षितेनैव गन्तव्यं भविष्यति । अतः क्षणं विचार्य . + स उच्चैरुक्तवान्___ अरे ! भोः ! पश्यन्तु पश्यन्तु, किमपि पतितं मम पात्रे ।
तस्य तादृशं भयमिश्रितं स्वरं श्रुत्वा केचन तैलदीपं गृहीत्वा धावन्त इवाऽऽगताः-3 X कुत्राऽस्ति ? किं पतितम् ? ___ पश्यन्तु, पात्रे पश्यन्तु, किमपि पतितं मन्ये ! - प्रौढ उक्तवान् ।
तैलदीपं पुरतः कृत्वा सर्वैर्दृष्टं किन्तु किमपि न लक्षितमतः - 'किं वदति भवान् ? किमपि नास्त्यत्र !' - इत्यवदन् । ___ तदा प्रौढोऽवदत्- भोः ! तदेव कथयामि यत् किमपि नास्ति मम पात्रे !
124
Page #134
--------------------------------------------------------------------------
________________
पिता-पुत्र ! द्यूतं त्वत्यन्तं हानिकार- । कमस्ति । एकस्मिन् दिने तत्र जयं प्राप्नोति * जनस्तदाऽपरस्मिन् दिने पराजयं प्राप्नोति ।
पुत्रः- चिन्ता माऽस्तु पितः ! अहं अन्यतरस्मिन् दिने एव तत्र प्रवर्थे ।
(कोऽपि राजनीतिज्ञः सभायामेकदा प्रवचनं कुर्वन्नासीत्, तदा तन्मध्ये एव) युवा भवत्पिता तु गर्दभयानं चालयन्नासीत् ।
तद् विहाय भवता कदा प्रारब्ध एष
व्यापारः? राजनीतिज्ञः भो ! यानं तु यानगृहेऽस्त्येव,
किन्तु गर्द भस्तु मम सम्मुखं स्थितोऽस्मि, अतः...
(अपराधिनं वधस्तम्भमानीय) न्यायाधीशः भवतः काऽन्तिमाऽपेक्षा ? अपराधी यावदहं जीवेयं तावन्मां मा मारयतु ।
For Priv125Personal use Only
Page #135
--------------------------------------------------------------------------
________________
कोपनः रे दुष्ट ! एकयैव चपेटया
प्रहृतस्त्वं लङ्कां प्राप्स्यसि । भोः ! अहं कन्याकुमारीमेव जिगमिषुः । अतः स्वल्पं
शमनः
H
W
शनैः प्रहर ॥
मितेशः भोः ! कथमुद्विग्नोऽसि त्वम् ? रीतेशः हन्त ! मम पितृव्यो मृतः । मितेशः का सेवा कृता तस्य त्वयाऽद्यपर्यन्तम् ? रीतेशः अन्तिमकाले मयैवोन्मत्तचिकित्सालयं प्रापितवान् । मितेशः किमर्थमेवं कृतवान् भवान् ? रीतेशः तेन "आत्मनः सर्वाः सम्पदो मह्यं दत्ताः" इति लिखितमासीत्,
"तत्तेन मनसः स्वस्थतया लिखितं न वा" एतदेव प्रमाणीकर्तुं चिकित्सालयं प्रापितवान् ।
आपणिकः भोः ! भवताऽस्मदापणात् यत्
कार्-यानं क्रीतमासीत् तत् कथं
प्रचलति । . ८ ग्राहकः किं वक्तव्यं तत्र ? ऋते घण्टिकां
(Horn) तस्य यानस्य सर्वेऽपि विभागाः शब्दं कुर्वन्ति ।
126
Page #136
--------------------------------------------------------------------------
________________
68
(अश्वशालायाम्)
महिला
अश्वविक्रयिक ! अयमश्वो मे बहु रोचते । किन्तु..... अस्य पादा अतिस्वाः सन्ति ।
अश्वविक्रेता ह्रस्वा: ? ? नैव महोदये ! तस्य चत्वारोऽपि पादाः पृथिवीं स्पृशन्त्येव । पश्यतु कृपया ।
127
Page #137
--------------------------------------------------------------------------
________________
(प्राकृतामा
कथा
(१)
दइवस्स पहुत्तणं
मुनिकल्याणकीर्तिविजयः
एगया केणई मंतवाइणा कुओ वि सप्पो गहिओ करंडमज्झे य खित्तो। अह सो सप्पो अच्चंतं बुभुक्खापीडिओ वाउलीहूओ । परं करंडाओ निस्सरिउं न कोवि उवाओ आसि । अओ सो तहेव मुहं उग्घाडेऊण चिट्ठइ । इओ सो वाई करंडं घेत्तूण गिहमागओ । गिहमज्झे बहुणो उंदुरा आसि । रत्तीए ते उंदुरा इओ तओ धावमाणा रमंति । ताव एगेण उंदुरेण सो करंडओ दिट्ठो। अओ एत्थ किंपि खज्जं हवेज्ज त्ति चिंतिऊण तेण करंडमज्झे विवरं कयं तत्थ य पविट्ठो । इओ सप्पो वि तं दट्ठण हरिसिओ जाव उंदुरो किंपि चिंतेइ ताव तं मुहंमि पक्खित्तवंतो । एएणं तस्स बुभुक्खा पसंता । तओ उंदुरेण कयं विवरं पाविऊण तेणेव मग्गेण सो तओ करंडाओ नीसरिओ नियट्ठाणं च पत्तो । एवं तेण सप्पेण दइवप्पहावेण बुभुक्खा वि दूरीकया मुत्ती वि लद्धा। अओ आवईपडिएण पुरिसेण वि दइवस्स विस्संभो कायव्वो अनाउलेण च होयव्वं ।
128
Page #138
--------------------------------------------------------------------------
________________
-
-
(प्राकृतम
(२)
कथा
चवलाण भोयणं
मुनिकल्याणकीर्तिविजयः कोवि दरिद्दपुरिसो नियगेहे अण्णस्स धन्नस्स विरहेण सया वि चवले चेव खाएइ । एवं निच्चं खायंतो सो. अण्णया तेसु अच्चंतं निव्विण्णो चिंतेइ जं "धिरत्थु मं, जं निच्चं एए चेव चवला खाएयव्वा । अज्ज अहं भइणीगिहं वच्चामि, जेण किंचि सरसं भोयणं लब्भइ । जओ सा वि मज्झ भइणी पभूयधणस्स सामिणी अत्थि अओ दुतिदिणाणि तीसे गिहंमि वासे न कावि चिंता अस्थि । तहा अहं पि बहूहिंतो दिणेहितो तीसे गिहं गच्छामि अओ सा मह आतिथेज्जं पि सम्मं करिस्सइ ।"
एवं चिंतेंतो सो मिट्ठभोयणस्स इच्छाए भइणीगिहं गओ। सा वि तं दठूण अईव हरिसिआ । चिंतेइ य-जं-"अज्ज किं पि नूयणं भोयणं तस्स दायव्वं" । एत्थंतरे तीसे गिहे नवा चवला आगया आसि । अओ तीए चिंतियं जं-"अण्णं तु सव्वं निच्चं पि लब्भइ किंतु ईइसा सरसा चवला कया लब्भंति ? अओ अज्ज एए चेव चवला पइऊण तिल्लेण य सम्मं सक्कारिऊण भाउणो देमि जेण सो वि पसन्नो हविस्सइ' ।
__ तओ तीए वि तस्स भोयणे ते चेव चवला पुरक्कया । सो वि ते दळूण नियनिलाडं ताडेइ कहेइ य-जं-"आगच्छंतु मह निच्चमित्ताणि ! किं भवंतो मज्झ पुरओ चेव एत्थ आगया ?"
एयं सोच्चा सा वि तं पुच्छेइ-तस्स कारणं । तया भाउणा सव्वो वि । नियवित्तंतो कहिओ । पच्छा जं जायं तं सयं चेव चितेज्ज । त्ति |
Page #139
--------------------------------------------------------------------------
________________
Page #140
--------------------------------------------------------------------------
________________ ईश्वरस्य व्यथा (अमेरिका जपान्-रूस्-भारतदेशानां राष्ट्रप्रमुखा ईश्वरस्य पार्वे निजसमस्याः परिहर्तुं गतवन्तः कदाचित्) अमेरिकीयप्रमखः प्रभो ! मम देशाद् भ्रष्टाचारः कदा व्यपगमि-ष्यति? ईश्वरः वत्स ! विंशतेवर्षाणामनन्तरम् / (एतत् श्रुत्वा अमेरिकीयप्रमुख उच्चै रोदितुं लग्नः / सर्वैस्तत्कारणे पृष्टे कथितवान्) अमे०प्रमुखः भोः ! मदीये कार्यकाले भ्रष्टाचारो दूरं न भवितेति रोदिमि / (तदनु-) जपान्-प्रमुखः भगवन् ! मदीयो देशः कदा भ्रष्टाचारवियुक्तो भविष्यति ? ईश्वरः बालक ! वर्षपञ्चदशकानन्तरम् / (अयमपि प्रमुखो रोदनमारब्धवान् / तत्कारणं पृष्टः कथयति-) जपान्-प्रमुखः मम कार्यकाले एव भ्रष्टाचारं दूरीकर्तुं कृताः करिष्यमाणाश्च मे प्रयत्ना न सफलीभविष्यन्तीति रोदिमि। (तत्पश्चात्) रूस-प्रमुखः प्रभो ! ममाऽप्येष एव प्रशनः / कृपया समाधानं ददातु / ईश्वरः वत्स ! तव देशे दशभिर्वर्षेः भ्रष्टाचारः समाप्तिमेष्यति / रूस्-प्रमुखः (उच्चैराकन्दन) अहो ! अहमपि भाग्यहीनोऽस्मि यन्मयि प्रधाने सति मम देशो भ्रष्टाचारेण रहितो न भवितेति / (तदनन्तरं भारतप्रमुखोऽपि ईश्वराय सोत्साहं तमेव प्रशनं पृष्टवान्। प्रशनश्रवणसमनन्तरमेव ईश्वर एवोच्चै रोदितुं लग्नः / एतद् दृष्ट्वा विस्मयचकिता: सर्वेऽपि भगवते रोदनकारणं पृष्टवन्तः / तदा ईश्वरः सखेदमाह) ईश्वरः भोः ! मामकीने कार्यकाले हि कदाचिदपि भारतदेशाद् भ्रष्टाचारो न दूरीभविष्यतीति रोदिमि //