________________
र
किञ्च स्मर्यते बालकेन माता, क्रियते कलरवः पक्षिभिः, प्रातः कुक्कुटैः "कूकडे कूक्" इत्यारावो विधीयते, योगिभिः प्रभोः स्मरणं क्रियते, एवं यथैतेषामेष स्वभावोऽस्ति तथैव द्वादशात्माऽपि स्वस्वभावमनुसृत्य प्रकाशनं करोति, तत्र किं विकल्पेनाऽन्येन?
भ्रातः ! न केवलं चेतनवतां, अपि तु चेतनवतामचेतनवतां च सर्वेषामपि स्वकीयो धर्मः-स्वभावो वर्तते । तथैवमेते सर्वेऽपि स्वस्य स्वभावमनुसरन्त्येव। अतः तत्स्वभावं न निरोद्धं कोऽपि शक्तः ।
एवं प्रकाशनशीलः सूरो न केषाञ्चिदपि कदाचिदपि किमपि कार्यं करोति तथाऽपि स्वभावतः सोऽनेकेषां साहाय्यद्वारेण निरन्तरं कार्यं करोत्येव ।
अथ बन्धो ! दिनकरचेष्टावत् मुक्तजीवा अपि ज्ञेयाः । ते मोक्षे स्थिताः सन्ति । निजानन्दे स्वस्वभावे च सदा रममाणाः सन्ति । ते न किमपि वदन्ति, न कुर्वन्ति, न कदाचिदपि प्रेरयन्ति, नोपदिशन्ति, तथा न च साहाय्यमवरोधं चाऽपि कुर्वन्ति । एवं न किमपि कुर्वन्तः सन्तोऽपि ते सर्वं कार्यं कुर्वन्ति । __वस्तुतस्ते प्रत्यक्षतया न किमपि कुर्वते, किन्तु ये जीवास्तेषामाराधनं स्तवनं पूजनादिकं च विदधते, ये च तदाज्ञां पालयन्ति तज्जीवानामुपरि तेषामनुग्रहः प्रवर्तते । तदनुग्रहद्वारेणैव जीवाः स्वं कार्यं कर्तुं समर्था भवन्ति ।
ललितविस्तराग्रन्थे पूज्यपादश्रीहरिभद्रसूरीश्वर आह- "भगवदनुग्रहं विना न धर्मादिसिद्धिर्भवति । स्वयोग्यता-गुरुसंयोग-भगवदनुग्रहवीर्योल्लासादीनां विविधानां कारणानां मेलने सत्येव कार्यसिद्धिर्भवति, एतत् सत्यम्, तथाऽप्येतेषु समस्तेषु कारणेषु भगवदनुग्रहः प्रधानकारणमस्ति, यतः स एवाऽचिन्त्यशक्तिमानस्ति" इति ।
Jain Education International
For Private 68sonal Use Only
www.jainelibrary.org