SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ एवं भगवदनुग्रहं विना न किमपि कर्तुं शक्ताः केऽपि जीवाः । एवं साक्षात् मुक्ता न किमपि कुर्वन्ति, किन्तु परम्परया तु त एव सर्वं कुर्वते । अथ खलु कोऽप्येवं प्रश्नं पृच्छेत् यत्पूर्वं भवतैव गदितं यन्मुक्तानुग्रहादेव जगतः सर्वं कार्यं भवति तहि ते मुक्तास्तु करुणाशीलाः, ततस्ते तु सर्वेषां जीवानामुपरि सदाऽनुग्रहं कुर्वन्त्येव; तथाऽपि कथं न सर्वेऽपि जीवा मुक्तिभागिनो भवन्ति ? । सत्यम्, परमकरुणावन्त एव मुक्ताः । ते सदाऽनुग्रहमपि कुर्वन्त्येव। तथाऽप्यत्रेदं ज्ञेयं यद्-यथा वृष्टिर्वने ग्रामे नद्यां समुद्रे मरुभूमौ चैवं सर्वत्र समानत्वेनैव पतति । किन्तु सा वृष्टिः तत्तत्स्थलानां योग्यतानुरूपमेव कुत्रचित् फलदायिनी भवति, अन्यत्र च निष्फलाऽपि भवति । तथैव मुक्ता अपि सर्वेषामुपरि अपृथक्त्वेनाऽनुग्रहं कुर्वन्ति, किन्तु प्रत्येकं जीवानां योग्यतानुरूपमेवाऽनुग्रह उपकारको भवति । एवं योग्यतायुक्तोऽनुग्रह एव फलदायको भवति । पूज्यपादश्रीहरिभद्रसूरिराह अनुग्रहोऽप्यनुग्राह्य-योग्यतापेक्ष एव तु । नाणुः कदाचिदात्मा स्याद् देवतानुग्रहादपि । (योगबिन्दुप्रकरणम्-१२) अतो भगवदनुग्रहं ग्रहीतुमपि पात्रत्वं प्रापणीयम् । अन्यथा योग्यतामृतेऽनुग्रहो निष्फलो भवति । यथा कोऽपि जीवो जलार्थं हस्ते भाजनं गृहीत्वा तिष्ठति, किन्तु यदि तद्भाजनं सच्छिद्रं भवेत्तर्हि जलं बहिरेव पतेत् । तत्र न दोषो जलस्य किन्तु तद्भाजनस्य। तथैव समवसरणे विराजमानाः तीर्थकरा उपदेशद्वारेण जीवानामुपर्यनुग्रहस्य म 69 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy