________________
वृष्टिं कुर्वन्ति । तदा नैके जीवास्तत्र विद्यमानाः सन्ति, किन्तु सर्वेऽपि जीवा व्रतादिकं नोररीकर्तुं समर्था भवन्ति । परंतु येषां जीवानां योग्यतायाः परिपाको जातः तादृशाः केचिज्जीवा एव व्रतादिकं स्वीकुर्वन्ति ।
Jain Education International
एवं योग्यताऽनुग्रहश्चेति द्वावपि परस्परमपेक्षावन्तौ स्तः । किन्तु तत्राऽपि प्रधानं कारणमनुग्रहोऽस्ति यतो यदा भगवदनुग्रहो भवेत्तदा भगवति बहुमानो जागर्ति, पश्चात् तं प्रति श्रद्धा जायते, तत्श्रद्धया धर्मक्रियासु प्रवृत्तिर्भवति, अन्ते कार्यसिद्धिर्जायते । एवं परम्परया मुक्तानुग्रहद्वारेणैव सर्वमपि कार्यं भवति ।
अत्र न किमप्याश्चर्यमस्ति । यतस्तेषां मुक्तानामेतादृश: स्वभाव 'एवाऽस्ति । यथा 'प्रकाशन 'मिति' सूर्यस्य स्वभावः तथैवा' ऽनुग्रहकरणं” मुक्तानां स्वभावोऽस्ति । तदनुसारेण ते वर्तन्ते, तत्र का बाधा ? उपर्येव चोक्तं जगत्स्थितानां सर्वेषामपि पदार्थानां विशिष्टः स्वस्वभावो विद्यते । यदि चैतन्यशून्याः अजीवपदार्था अपि स्वस्वभावमाश्रित्य निराबाधं वर्तन्ते एव, तर्हि एते मुक्तास्तु खलु परमचैतन्यवन्तः सन्ति । अतस्ते कथं न स्वस्वभावनुगुणं वर्तेरन् ?
एवं कार्यमकृत्वाऽपि सर्वं ते मुक्ता एव कुर्वन्ति । ते जीवानामुपर्यनुग्रहं कुर्वते, तदनुग्रहद्वारेण जीवाः स्वं स्वं कार्यं कुर्वन्ति । एवं वस्तुतः प्रत्यक्षतया न किमपि विदधते, किन्तु परम्परया तु सर्वेषां जीवानां कार्यं पूर्वोक्तरीत्या ते एवं कुर्वते, इति ज्ञायते ।
अन्ते वयं सर्वेऽपि तेषामाराधनादिककर्मकरणेन तदनुग्रहं संप्राप्य पारम्पर्येण कर्मक्षयमवाप्नुयामेति मे स्पृहा ।
70
For Private & Personal Use Only
www.jainelibrary.org