SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Jain Education International कदा गायं गायं तव गुणगणान् स्यां प्रमुदितः । तथा पायं पायं श्रुतमधुरसं नर्तनपरः ॥ कदा दर्शं दर्शं हृदयमुकुरे ते प्रतिकृतिं । चिदानन्दे मग्नो भवपथि भविष्यामि भगवन् ! भवे भ्रामं भ्रामं तव वचनतो दूरचलितः । सदा श्रान्तः क्लान्तः व्यथिततनुको भीतचकितः ॥ कदाचित् सम्प्राप्तो न शमरसलेशोऽपि मयका । चचः पीयूषं ते कथमपि विभो प्राप्तमधुना ! झरन्तं ते वक्त्रात् प्रशमरसपीयूषझरणं । पुटाभ्यां नेत्राभ्यामनिमिषमथो स्यान्न रसितम् । महाभीष्मे ग्रीष्मे भववनसमुत्थेऽतिथकितः । कथं स्वस्थोऽहं स्याम् बहुविषयतृष्णातरलितः नयप्रामाण्यैस्ते वचननिचयोऽनन्यसदृशः । शुभोदर्के रतकै स्त्रिदशगुरुभिस्तीव्रमतिभिः । अनुल्लङ्घ्यः सर्प्पन्सकलसमये सर्वजगतः । प्रकुर्वन्भव्यानां भ्रमनिरसनं कौ विलसति प्रभो ! ते वाग्धारा विशदशरद: शुभ्ररजनी । स्फुरज्ज्योत्प्राधारा धवलितक कुब्वृन्दवलया ॥ यया स्पृष्टः सर्वो जगति निचितो द्रव्यनिचयः । स्फुटं विज्ञातः स्याद् विशदमतिभिस्तत्त्वरतिभिः For Private & Personal Use Only ॥१५॥ ોદ્દો ॥१७॥ in un www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy