SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ - ૩૦ अहो भाग्यं मेऽद्य प्रकटविभवोल्लासललितं । क्षणः सोऽयं पुण्यप्रचुरजनिते ! मेऽद्य सफलः ॥ यदा ते सञ्जातं परमसुभगं दर्शनमहो । मनो मे सन्तृप्तं परममुदितानन्दसदनम् अहो रम्यं रम्यं प्रशमझरणं नेत्रयुगलं । सदा सौम्यं सौम्यं वदनकमलं दिव्यममलम् ॥ स्फुरच्छायां कायां शमरससुधासाररचितां प्रकुर्वन्ति प्रातस्तव सुकृतिनः चक्षुरतिथिम् भवाख्ये कान्तारे भ्रमणमतिकुर्वन् भविजनो । भयत्रस्तो भूत्वा भजति भवतः पादपदवीम् ॥ तदा तं प्रस्फूज्जद्भयभवनमुत्तीर्य सपदि प्रभो ! भूतिस्थानं श्रयति बहुसौभाग्यसुभगः || STRO ?? समुनीर्णः सोऽयं भवजलधिरत्यन्तगहनः । दुरन्तो दुःखान्तो दुरितसलिलैर्लोलतरलः ॥ यदा प्राप्तं स्वामिन् ! तव चरणमर्थ्य सुरनरैः सुमैर्मन्दाराद्यैः सुरभिसरसैः घ्राणसुभगैः TO રૂ मया नौः संप्राप्ता भवजलधिमध्ये प्रपतता । तवाऽऽज्ञा संप्रौढा सकलभविकोद्धारसुदृढा । हहा सा चेत् न स्यात् सुकृतविकलाः भ्रष्टशरणाः । कथं मादृक्षाः स्युः सरभसमितः पारगमनाः ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy