________________
45
व
व्यवहारमप्येते न जानन्ति । एते गङ्गानदी पवित्रतीर्थतया न मानयन्ति, न वा सूर्यनारायणं दैवतत्वेन स्वीकुर्वन्ति । तथापि भवान् एतान् कथमिव सम्मानं ददाति? ।
शाह-अकबरो भ्रमितोऽनया वार्तया । तेन जैनमुनयः पृष्टा एतद्विषये, स्पष्ट- समाधानार्थं आदिष्टाश्च ।
तदा तैरुक्तम् – महाराज ! अस्माकं मते गङ्गानदी अतीव पवित्राऽस्ति । अस्माकं देवालयेषु यदा कदापि प्रतिष्ठामहोत्सवो भवति, तदा वयं तीर्थानां जलानि __ आनाययामो विधिपूर्वं बहुमानपूर्वं च । तत्र सर्वप्रथम तीर्थजलं गङ्गाया एवाऽऽनीयते,
नाऽत्र मतद्वयम् । किन्तु इमे वैदिका गङ्गां पवित्रतीर्थरूपां मन्यमाना अपि स्वकीयमरणानन्तरं निजास्थि-शवप्रभृतिकं जुगुप्सितं गङ्गायां प्रवाहयन्ति क्षिपन्ति च । एवं नित्यं शत-सहस्त्राधिकैः शवास्थिभिर्गङ्गामिमे मलिनयन्ति अपवित्रां च कुर्वन्ति यथा, तथा वयं न कुर्मः, न वा तथा कर्तुं वयं समर्था अपि । पवित्रजलेऽपवित्रपदार्थपरिष्ठापने तु इमे एव कामं क्षमाः सन्तु ।
अथ सूर्यदैवतविषयेऽस्माकमेवं नीतिर्यद् वयं जैनाः सूर्यस्योदयं विना न कदाऽपि भोजनं जलपानमपि वा कुर्मः, एवं सूर्यास्तगमनानन्तरमपि वयं न पानभोजने गृहणीमः । अर्थात् वयं सूर्यनारायणस्य महत्त्वं ईदृशं स्वीकुर्महे यत् सूर्यस्याऽनुपस्थितिसमये विना धर्मध्यानं न किमपि भौतिकं कार्यं कुर्महे । इमे तु रात्रिन्दिवं भुञ्जते यत्तत् च निरन्तरं पिबन्ति । अतः के सूर्यं बहु मन्यन्ते इति भवानेव निश्चिनोतु । शाहिः प्रसन्नः । मत्सरिणस्तु दिङ्मूढाः ।
81
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org