________________
सत्य घटना:
Jain Education International
(१)
तदा भारतवर्षोपरि सुलतान - जलालदीन - अकबरशाहस्य शासनमासीत् । तेन निजसभायां जैनसाधून् आहूय तेभ्यो दयाप्रधानस्य धर्मस्य स्वरूपं ज्ञात्वा दयापरेण भूत्वा बहूनि जीवदयाकार्याणि कृतानि । यथा - विशालं लघुसागरोपमं 'डामर' नामकं सरः । तत् केवलं मत्स्यवधायैव । तत्र तेन 'कदापि मत्स्यवधो न कर्तव्य' इत्याज्ञा प्रदत्ता । स स्वयमतीव मृगयाप्रेमी आसीत् । प्रत्येकं मृगयावसरे लक्षाधिकानां वन्यपशु-पक्षिणां वधं करोति स्म सः । मृगयावसरे च पञ्चाशत्सहस्त्रमितास्तत्सेवकाः समग्रमरण्यं परिवेष्टयन्ति स्म, ततश्च स मृगयुवृन्देन सह यथेच्छं मृगयां करोति स्म । जैनमुनीनां बोधदानेन तेनैतादृशमसङ्ख्यप्राणिसंहारकं मृगयाव्यसनं त्यक्तम् । सम्पूर्णे हिन्दुस्थानदेशे गोवधनिषेधोऽपि तेन कृतः । प्रतिवर्षं षण्मासावधि सूनास्थानेषु तदितरस्थानेषु चाऽपि जायमानायाः पशुहिंसाया अपि निषेधः कृतस्तेन । स्वयं नित्यं प्रातराशे प्रायः पञ्चशतमितानां 'चटका'भिध पक्षिणां हत्यां सेवकैः कारयित्वा तासां जिह्वा निष्कास्य तन्निर्मितं व्यञ्जनं प्रतिदिनं भक्षयन्नासीत् सा हिंसा तद्भक्षणं चाऽपि तेन यावज्जीवं त्यक्तम् । नैके मनुष्याः प्राणदण्डं प्राप्ताः सन्तः जैनमुनिप्रेरणयाऽभयं । प्राप्य जीविता: । जैनानां हिन्दूनां च निजतीर्थयात्रासमयेऽवश्यदेय आसीत् जीजियाकरः । सोऽपि तैर्मुनिभिर्निवारितः । किं बहुना ? तेषां वीतरागिणां मुनीनां निर्लोभया शान्तवृत्त्या जीवदयापरतया च स सम्राड् अतीवाऽतीव प्रसन्नो वर्तते स्म निरन्तरं तेषामुपरि । तेषां प्रवर्द्धमानं प्रभावं दृष्ट्वा असहमानैर्हिन्दूधर्मपरायणैनैकैवैदिकैरेकवारं सभामध्ये सम्राड् उक्तः - एते जैना धर्मबाह्याः, धर्मस्य सामान्यं
,
विजयशीलचन्द्रसूरिः
80
For Private & Personal Use Only
www.jainelibrary.org