SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ (२) एकदा शाहिसभायां बीरबलेन जैनगुरवः पृष्टाः - यदि भवतां सम्मतिः स्यात् तदा सन्देहमेकं प्रष्टुमिच्छामि । सूरिभिर्दत्ताऽनुमतिः । तेन पृष्टम् - अहं शिवोपासकः । मम हृदये सततं वर्तते सन्देहो यत् शिवभगवान् सगुणो निर्गुणो वा ? । गुरुणा कथितम् - प्रथमं मम प्रश्नस्य स्पष्ट उत्तरो देयो भवता, ततो भवत्सन्देहसमाधानं करिष्यामि । स्वीकृतं तेन । गुरुणा पृष्टम् - शिवः ज्ञानवान् ज्ञानहीनो वा ? | बीरबलेन उक्तम् - कोऽत्र प्रश्नावकाश: ? शिवः ज्ञानवानेव । गुरुणा पुनः पृष्टम् – ज्ञानं गुणो न वा ? | - बीरबल उक्तवान् - ननु ज्ञानं गुण एव । गुरुणा निगदितम् - तर्हि सिद्धमेतत् यत् शिवः सगुणः । यतो ज्ञानं गुणः, स गुण शिवभगवति विद्यते इति तु भवता एव कथितं, अतो यो गुणयुक्तः स सगुण एवेति कोऽत्र शङ्कावकाश: ? । नितान्तं सरलतया निजसन्देहस्य निवारणमेवमनुभूय अतीव प्रसन्नो बीरबलः । Jain Education International मुखं पद्मदलाकारं वाचश्चन्दनशीतलाः । हृदयं कर्तरीभूतमेतद् धूर्तस्य लक्षणम् ॥ (प्रबन्धचिन्तामणौ) 82 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy