________________
गरळपुरीशास्त्रिणां कविताचातुरी
-
एच्. वि. नागराजराव् अष्टादशे शतके मैसूरुराज्यं तृतीयः कृष्णराजः (मुम्मडिकृष्णराज-वोडेयर) शास्ति स्म । तस्याऽऽस्थाने बहवः पण्डिताः कवयो रसिकाश्चाऽवर्तन्त । कविषु अन्यतमाः श्रीगरलपुरीशास्त्रिणः । तेषां कविताचातुरी परिचाययितुं किञ्चिदत्र प्रस्तूयते। एष सन्दर्भः कृष्णराजकालानन्तरं चामराजप्रभोः शासनवेलायां सम्पन्न इति पुराविदो वदन्ति ।
कदाचन महाराष्ट्रतो द्वौ विद्वांसौ महीशूरराजं प्रति पत्रं प्रेषितवन्तौ । भागवतसप्ताहो महाराष्ट्र प्रवर्तिष्यते । तत्रागन्तव्यं भवद्भिरिति पत्रस्य सारांशः । तच्च पत्रं देववाण्यां रचितैः पद्यैः शोभितम् आसीत् । यथा
"अतिरुचिरभवनसीमनि वाग्यज्ञोऽयं सुदुर्लभोऽतिमहान् । भगवत्कृपैककारण-मचिरादाविर्भविष्यति महाघः ॥१॥ एतदतिमङ्गलतमं पवित्रतममद्भुतं मनोहारि । ब्रह्मसभं पारायण-गभीरमालोकनीयमिह सर्वैः ॥२॥ अभ्यर्थयावहे तद् युष्मान् शिरसा प्रणम्य शतकूत्वः । बद्धाञ्जलि बहुकृपया सप्ताहार्थं मुदा समायात ॥३॥ भवति महतां समाज-स्सप्ताहं परमदुर्लभतमोऽत्र । भागवती चाऽत्र कथा गभीरभाया प्रवर्तते मधुरा ॥४॥
83
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org