SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः डो. रूपनारायणपाण्डेयः एस् II / ३३० राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः(उ.प्र.) २११००२ मान्याः , सादरं प्रणतयः । अधिगतो नवमोऽङ्को नन्दनवनकल्पतरोः । श्रीमुनिधुरन्धरविजयस्य 'वीतरागवन्दना' हृदयं स्पृशति । डॉ. आचार्यरामकिशोरमिश्रस्य 'हिन्दुराष्ट्रम्' इति रचना वर्तमानभारतराष्ट्रस्य यथार्थतां प्रस्तौति । तथैव डॉ. सुरेन्द्रमोहनमिश्रस्य 'वल्मीकगर्भ विश भो ! मुने ! पुनः' इति कविता भारतीयसंस्कृतिदुर्दशायाः व्यथां वर्णयति । वस्तुतः समाजे रामस्य रामायणसंस्कृतेश्चाऽवतरणमपेक्ष्यते । न केवलं भारतस्य, अपि तु निखिलजगतः कल्याणं रामचरितानुसरणं विना भवितुं न शक्नोति । पत्रिकायाः अन्या अपि रचना मार्मिक्यः सन्ति । सुरभारतीसपर्यायां संलग्ना एतादृश्यः पत्रिकाः विरलाः सन्ति । नन्दनवनकल्पतरु-सुसम्पादनार्थं तत्रभवन्तः सत्कारस्य सत्पात्रं सन्ति । विनीतः रूपनारायणपाण्डेयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy