SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ___ अम्बरीशो राजर्षिः क्रोधमूर्छितेन दुर्वाससा प्रवर्तितया दुष्टशक्त्या कृत्यया अभ्याक्रान्तोऽपि हरिभक्तिवज्रकवचायितः सन् सुतरां निर्भीतोऽप्रकम्पितः सुरक्षितः समासत । ततश्च प्रधावन्तं दुर्वाससं त्रिलोक्यामपि निराकृतशरणार्थिनमनुधावता सुदर्शनचक्रेण बहुक्लिश्यमानाय तस्मै अभयं दत्वा आर्षाहिंसायाः ज्वलन्तं निदर्शनं स्थापयामास । एवमेव प्रह्लादस्य हरिभक्तिपरायणस्य निर्वैरप्रभावेन पित्रा हिरण्यकशिपुना प्रेरिताः सर्वा बाधाः शीघ्रतया निरस्ताः । किञ्च दुरध्यवसायिनो हिरण्यकशिपोरपि सद्गतिः संपादिता । __अर्वाचीनाः कबीर-नानकादयोऽपि आर्षाहिंसायाः श्रेष्ठं निदर्शनं । स्थापयाञ्चक्रिरे । समेषां सात्त्विकानां संख्या लोकेऽतिविरला, अत एव द्वितीयविधा क्षात्राहिंसाऽवश्यानुष्ठेया भवति । राजसाया अस्याः क्षात्राहिंसाया विना केवलया उपर्युक्तया सात्त्विकया आर्षाहिंसया तामसशक्तीर्दमयितुं विजेतुं च सुदुष्करं यतो हि तादृशी सात्त्विकी अहिंसा तामसदुर्जनैः दौर्बल्यमित्येव, प्रच्छन्नक्लैब्यमित्येवमुपेक्ष्यते, परिहस्यते च । अत एव सात्त्विकाहिंसायाः तामसशक्ती: विरुद्ध्य प्रवर्त्यमाने युद्धे क्षात्राहिंसाऽवश्याश्रयणीया भवति । गान्धीमहात्मना प्रयुक्ता केवला सात्त्विकी अहिंसा, क्षात्राहिंसासहायरहिता निष्फला भूत्वा राष्ट्रविभजने (Partition), परकीयदुर्मदान्धैः भारतभूमेराक्रमणे, विशेषेण जम्मुकाश्मीरराज्ये प्रवर्तिते प्रवर्तमाने चाऽव्याहते नरमेधे, पण्डितसमुदायस्य च निष्कासने, निर्वासितत्वे निराश्रितत्वे च पर्यवसिता। अनयैव च सात्त्विकाहिंसया क्षात्रहीनया, दुर्बलतया, अस्थानया मृदुधोरणया एव प्रातिवेशिकराष्ट्रप्रोत्साहितेभ्यो भयोत्पादकेभ्य उग्रवादिभ्यो मुक्तसहायः संपादितः इत्येतत् सर्वं सर्वविदितं, ऐतिहासिकं 63 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy