________________
Jain Education International
कटुसत्यम् । अत एव क्षात्राहिंसा राष्ट्रसुभद्रतादृष्ट्या सुरक्षतायै अवश्यानुष्ठेया भवति ।
यथा देहस्य कस्यचिदवयवे रोगग्रस्ते, तस्य रोगस्य सर्वावयवसङ्क्रमणेन संभाव्यमानां प्राणहानिं वारयितुकामो दक्षः शस्त्रचिकित्सकस्तं रोगग्रस्तमवयवं छित्त्वापि रोगिणं सञ्जीवयति तस्मै रोगिणे महदुपकरोति, यथा च केषुचिच्छात्रेषु संभाव्यमानां शीलचारित्र्यभ्रष्टतां वारयितुकामो दक्षः कश्चित् शिक्षकस्तान् छात्रान् सम्यग् दण्डयति, तथैव राष्ट्रीयसुरक्षतायै प्रजानां चाऽनातङ्कितजीवननिर्वाहणाय क्षात्राहिंसाऽवश्यानुष्ठेया भवति ।
अत एव श्रीकृष्णो दुर्योधनादिभिर्दुष्टतामसशक्तिभिरापद्यमानं प्रजासंक्षोभं वारयितुकामोऽर्जुनं क्षात्रवीराग्रण्यं प्रति बोधयामास 'क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तपे 'ति ।
अथ तृतीया निरोधका अहिंसा । अयं च अहिंसानुष्ठानप्रकारः शत्रुं तर्जयित्वा तस्य नो विरुद्ध्य दुराक्रमणसाहसं वारयितुमुद्दिष्टो भवति (Preventive Deterrence) | अद्यतने काले शक्तिसंपन्नै राष्ट्रैर्युद्धस्य, भीकरहत्याकाण्डरूपस्य, रक्तरञ्जितस्य व्यर्थतां शान्तसुखसमृद्धजीवनविघातकतां सुष्ठु जानद्भिरनुष्ठिता अहिंसा एवंरूपा निरोधका अहिंसा भवति । इयं नीतिः 'तटस्थतर्जन' मित्यपि (Brinkmanship) व्यवह्रियते ।
कस्मिंश्चित् वनोद्देशे भयङ्करः सर्प एको मार्गपार्श्वस्थे तरुकोटरे निवसन् पथिकेषु बहुभीतिं जनयति स्म । इदं पश्यता केनचिन्मुनिना शान्तमूर्तिना सोऽयं सर्पः 'सर्वथा त्वया निर्वैरेण भाव्यम्, अपकारिष्वपि प्रतीकारं मैव कुरु' इत्युपदिष्टः । अहिंसाव्रतदीक्षां तस्मै सर्पाय दत्त्वा
64
For Private & Personal Use Only
www.jainelibrary.org