________________
का opan
Shrs मनिः स्वेच्छया ततो निरगात । एतन्मध्ये सर्पण साधूपदिष्टमहिंसाव्रतं
तत्त्वशोऽक्षरशश्च पालितम् । भृशं प्रकोपितेऽप्यप्रतीकारव्रतनिष्ठं सदैव तूष्णीं स्थितं दृष्ट्वा तन्मार्गगामिनः शालाच्छात्रा लगुडैरश्मखण्डैश्च दीनवराकं तं सर्प प्रहृत्य तं क्षतविक्षताङ्गं मृतप्रायं चक्रुः। कतिचिद्दिनानन्तरमहिंसाव्रतोपदेष्टाऽसौ मुनिपुङ्गवस्तदरण्यमार्गगामी सर्पराजं क्षतविक्षताङ्गं जर्जरितसर्वावयवं, मृतप्रायं, दीनदुर्बलं ईषच्चलितुमप्यशक्तं वीक्ष्य 'किमापन्नं भोः ? कथं तव ईदृशी दुरवस्था ?' इति तं पृष्टवान् । सोऽवदत् पूज्यपाद ! अहिंसा, निर्वैरता, अपकारिष्वपि सर्वथा अप्रतीकारो भवदुपदिष्टास्तत्त्वशोऽक्षरशश्च: मया अनुष्ठिताः । तेन मे इयं दुर्गतिरिति न्यवेदयत् । मुनिरवक्, 'मन्दबुद्धे ! पथि सञ्चरतो दंशनं मा कुरु' इति मात्रमुपदिष्टं खलु मया । 'त्वं सीत्कारं फुत्कारं च मा कुरु' इति नैव उपदिष्टम् ।
___ कदाचित् बलप्रयोगं विनाऽपि बलप्रदर्शनमात्रेण क्रियासिद्धिर्भवति । ABI नखनिकृन्तनेनैव कार्ये साध्ये खड्गप्रयोगो नाऽपेक्ष्यते ।
अनेनाऽहिंसातत्त्वस्य तदनुष्ठानस्य तत्प्रायोगिकतायाश्च विचारोऽवसित - इति शम् ।
मातेव सर्वभूतानामहिंसा हितकारिणी अहिंसैव हि संसारमरावमृतसारिणी ॥
(योगशास्त्रे-हेमचन्द्राचार्यः)
65
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org