________________
पत्राम
मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
___धर्मलाभोऽस्तु । पूज्यपादगुरुभगवद्भिः सह वयं सर्वेऽप्यत्र कुशलाः स्मः । तत्रत्यानामपि सर्वेषां कुशलं कामये ।
बेंग्लूरुनगराद् विहत्य वयं सर्वेऽपि चेन्नैनगरं प्राप्नुम । विहारयात्रा सुखं प्रवृत्ता ।
पूर्वयोर्द्वयोः पत्रयोः “कर्मणा शुद्धि''रिति सूत्रेण विधेयात्मकनिषेधात्मक-कर्मणः स्वरूपं वर्णितम्, तत्तु विदितमेव त्वया। तत्राऽपि नक्तन्दिवं निरन्तरं कार्यं कृत्वाऽपि मनसः शुद्ध्यभावेन किमपि न कृतमिव प्रतिभाति; इत्येवं कर्मशब्दस्याऽर्थः कृतः । अद्य तत्सूत्रानुसारेणैव प्रत्यक्षेण किमप्यकुर्वन् सन्नपि कार्यरतः, इति कर्मशब्दस्याऽपरोऽर्थो वर्ण्यते ।
अस्त्यतीव रम्या सुन्दरा च कल्पनैषा, तथाऽपि निगूढार्था गहना चाऽस्ति । "क्रियारहितः - निष्क्रियोऽपि सन् सदा कार्यरतः - सक्रियः" इति श्रुत्वैव चित्तमाश्चर्यमनुभवति, मनसि कौतुकमपि सञ्जायते । किञ्च मनः प्रश्नयत्यपि यत् किमेतत् सत्यम् ? कथमस्य सम्भवः ? इति ।
66
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org