SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आस्वादः सदाचारः मुनिधर्मकीतिविजयः शोभन आचार इति सदाचारः । सद्विचाराणां पालनमिति सदाचारः ।। इह-परलोकहिता प्रवृत्तिः सदाचारः । सन्तः- वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षाः पुरुषविशेषाः, तेषामाचारः सदाचारः ।। न हि खलु साधकजीवैर्धार्मिकजीवैश्चैव स सदाचारः पालनीयः, किन्तु सामान्यजनैरप्येष गुण आसेवनीयोऽस्ति । सदाचारस्तु गुणराजोऽस्ति । यथा यदि राजा वशमागच्छेत्तर्हि तद्देशस्य सर्वेऽपि प्रजाजना अधीनं भवन्त्येव, तथैव जीवने सदाचारः प्रविशेत्तर्हि अन्ये सर्वेऽपि गुणाः स्वयमुत्पद्यन्ते । सर्वेऽपि गुणास्तदधीनाः सन्ति । अत एव सर्वैर्जनैरेष गुण आदरणीयोऽस्ति । सदाचारिणो जीवस्य वर्तनं कथनं च प्राकृतजनेभ्योऽन्यदेव भवति । न कदाऽपि स सदाचारी यथेच्छं लोकविरुद्धं च वर्तते । ततश्च सदाचार एव जीवस्य कुटुम्बस्य वंशस्य च कुलीनतां प्रमाणीकरोति । तथैव तस्य सदाचारिणो भाविकालमपि सदाचार एव ज्ञापयति । नास्त्यत्र कोऽपि नियमो यत्, 'उत्तमकुले जात एव सदाचारी भवितुं समर्थोऽस्ति' इति । कश्चिदपि जीवः सदाचारी भवितुमर्होऽस्ति । यतः सदाचारो नाऽऽगन्तुको गुणः, अपि त्वात्मनः सहजो गुणोऽस्ति । तथाऽपि कदाचिदधुना स गुणो मोहनीयादि-कर्मभिरावृतो भवेत् । किन्तु यदि नामाऽपाक्रियेत विवेकेन मोहनीयादिकर्मावरणं तर्हि स गुणः स्वत एव Jain Education International For Private 850sonal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy