SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ बहिरागच्छेत् । अतो हीनकुलेषु दरिद्रकुलेषु च जातः सन्नपि स विवेकपूर्णव्यवहारेण सदाचारी भवितुमर्हति । बहवो महापुरुषाः सन्ति ये हीनकुलेषु जाताः सन्तोऽपि सदाचारसुवासेनेतिहासपृष्ठे स्वनामाङ्कितं कृतवन्तः। एवं च सदाचारी जीवोऽत्र तत्र सर्वत्र पूजनीय आदरणीयश्च भवत्येव । सदाचारस्योपदेशदानं यावत् सरलं तावन्न सरलं तस्याऽऽचरणम् । अस्ति सदाचारस्य पालनं त्वतीव दुष्करम् । साम्प्रतं सर्वेऽपि जनाः सदाचारस्य सूत्राणामुच्चैराराटिं कुर्वन्ति, किन्तु तत्र सदाचारस्याऽऽग्रहिणः, तस्य च पालनं कुर्वन्तः कियन्तो जनाः सन्ति ? हन्त ! अधुना तु सदाचारिणो जीवस्य दर्शनमपि दुर्लभमस्ति । न केवलमत्राऽस्मत्परिकल्पितेन सदाचारमात्रेण सच्चारित्री भवति । अपि तु शास्त्रेषु भिन्न- भिन्नरूपेण सदाचारो गीतोऽस्ति । तत्र पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः “योगिबिन्दु " नामके ग्रन्थे विस्तरेण वर्णितः सदाचारः । Jain Education International लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ १२६ ॥ सर्वत्र निन्दासन्त्यागो वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ॥ १२७॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति कुलधर्मानुपालनम् ॥१२८॥ असद्व्ययपरित्यागः स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ॥१२९॥ 51 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy