________________
लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् ।
प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि ॥१३०॥ लोकापवादभीरुत्वम् - लोकेऽपवादो यथा न स्यात् तथा सदा सावधानं वर्तितव्यम्, तद् लोकापवादभीरुत्वम् । लोकापवादस्तु मृत्युनिभः सज्जनैः मन्यते । दीनाभ्युद्धरणादरः- दीनानां दुःखिजनानां दुर्बलजनानां चोद्धरणे सादरं
प्रयत्नो विधेयः । ३. कृतज्ञता- पूर्वमात्मन आपत्तिकाले योऽन्यरुपकारः कृतः तं संस्मृत्य
यथावसरं तेषामुपकारिजनानामुचिता भक्तिः करणीया । किन्तु न कदाऽपि कृतघ्नेन भवितव्यम् । यदाह- "कृतघ्ने नास्ति निष्कृति"रिति । सुदाक्षिण्यम् - सहजतया परकीयजनानां कार्यकरणे सोत्साहमुद्यमः कार्यः । तथा चाऽन्येषां कार्यं कृत्वा यत्र तत्र 'मया कृतमेतत्" एवं स्वप्रशंसा न कदाऽपि करणीया ।। सर्वत्र निन्दासंत्यागः - आस्तामुत्तमजनानां दुष्कृतस्य निन्दा, किन्तु, हीनजनानामपि दुर्गुणा यदि दृग्गोचरीभवेयुः तर्हि न कदाऽप्यन्येषां समक्षं तेषां निन्दा कार्या । तथा च न दुष्कृतं तेषां प्रकटीकरणीयम् । साधुषु वर्णवाद:- गुणिजनानामवश्यमेव प्रशंसा विधेया । तेषां प्रशंसयाऽस्माकं चित्ते तादृशाः सद्गुणा उत्पद्यन्ते तथाऽन्येषामपि हृदये आदरो बहुमानश्च संजायते। अवर्णवादस्तु बहुदोषकारी मन्यते । यदाह - परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥
(प्रशमरतिग्रन्थः १००)
Jain Education International
For Private &
kasonal Use Only
www.jainelibrary.org