SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ इत्थमन्येषामिन्द्रियाणां तुलायां चक्षुषः स्थानं सत्यस्य समत्वस्य चाऽत्यन्तं समीपवर्ति, अधिकतया दृढं चाऽस्ति इति उपनिषदः सूचयन्ति । ततश्चाऽन्येन्द्रियजन्यज्ञानापेक्षया नेत्रजन्यं ज्ञानं यत् दर्शनतया प्रसिद्धम् एव उत्कृष्टम् । तथा व्यवहारेऽपि दर्शनस्य एव महिमा, अत एव च 'साक्षिन्' इति शब्दस्याऽर्थोऽपि वैयाकरणैः “साक्षात् द्रष्टा" इत्येव कृतः । एवं च व्यावहारिकेषु स्थूलेषु च कार्येष्वपि जीवने दर्शनस्यैव अत्यन्तं सत्यसमीपवर्तित्वात्, अध्यात्मज्ञाने तत्त्वज्ञाने चाऽपि स एव शब्दः प्रयुक्तो विद्वद्भिः । अत एव ये ऋषयः कवयो योगिनो वा आत्म-परमात्मादीन् अतीन्द्रियपदार्थान् साक्षात्कृतवन्त एषु च विषयेषु संशयातीतामक्षोभ्यां च प्रतीतिमपि प्राप्तवन्तः ते सर्वे द्रष्टारः कथ्यन्ते । तथाऽऽध्यात्मिकपदार्थगोचरं तेषां साक्षात् आकलनमेव दर्शनशब्दवाच्यं भवति । तथा चाऽध्यात्मविद्यायां रूढस्य दर्शनशब्दस्य तात्पर्यमात्मादीन्द्रियातीतवस्तूनां स्पष्टे निःसन्दिग्धेऽविचलिते च बोधे वर्तते । दर्शनं हि ज्ञानशुद्धेस्तत्सत्यतायाश्च पराकाष्ठा परिपाकञ्श्चाऽपि । अत्र ह्यन्यदपि बहु विचारणीयमस्ति । तथा हि तत्त्वविद्यातत्त्वदर्शनादिवद् बहवोऽन्येऽपि व्यापारा दर्शनत्वेन प्रयोयुज्यन्ते । यथा तत्त्वचिन्तनं तत्त्वविचारणं, तत्त्वजिज्ञासा, तत्त्वमीमांसा इत्यादयः । प्राकृतजनानां तु एते तत्त्वदर्शनं तत्त्वचिन्तनमित्यादयः शब्दाः पर्यायवाचिन एकार्थकाश्चैव प्रतीयन्ते । किन्तु यदा शास्त्रमनुभवं चाऽऽश्रित्य विचारयामस्तदैव बुध्येत यद् दर्शनस्वरूपां ज्ञानशुद्धेरात्मशुद्धेराध्यात्मिकशुद्धेश्च सर्वोच्चभूमिकां प्राप्तुं कियान् कीदृशश्च मानसिक आत्मिकश्च पुरुषार्थ आवश्यक इति, तथोक्तशब्दानां दर्शनशब्दवाच्यानामर्थच्छायासु कियदन्तरं वर्तत इति । इह ह्यतीन्द्रियाणां वस्तूनां दर्शनं साक्षात्कारो वा एवमेव हठात् सर्वेषां Jain Education International 75 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy