________________
न भवति । तत् प्राप्तुं महान् प्रयत्नः कर्तव्यो भवति । तस्य क्रमोऽपि शास्त्रेषु निश्चितोऽस्ति। अत्र हि मुख्यतया त्रीणि सोपानानि भवन्ति । यदाहुः ऋषयः "आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । मैत्रेयि ! आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्" (बृहदारण्यक० २.४.५) । तथा महर्षिासोऽपि आह
आगमेनाऽनुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥
(१.४८तमस्य योगसूत्रस्य भाष्ये) प्रथमं ह्यत्र सोपानं तावत् श्रवणम् । यस्य कस्याऽपि तत्त्वस्य वस्तुनो वा दिदृक्षा तत्तद्विषयकं ज्ञानमनुभविनां ज्ञानिनां च वचनानि श्रुत्वा शास्त्रेभ्यो वा प्राप्तव्यम् । इयं प्रथमा श्रवणभूमिका । प्रथमभूमिकायां यत् श्रुतं तेन च यदवबुद्धं तदुपरि तर्क-युक्ति-न्यायादिभिर्विशेषमूहापोहं चिन्तनं च कृत्वा शास्त्रवाक्यानां ज्ञानिवचसां च विशेषोऽर्थोऽवगन्तव्यः । एषा द्वितीया भूमिका चिन्तन-मननप्रधाना । तदनु चिन्तितस्य वस्तुनो हार्दै प्रवेष्टुमेकाग्रतया क्लेशमुक्तचित्तेन निजाभिनिवेशस्य च सर्वथा त्यागं कृत्वा प्रयत्नः करणीयः । एषा च तृतीया भूमिका । एता एव तिस्रो भूमिका वाक्यार्थ-महावाक्यार्थऐदम्पर्यार्थ-इतिनामभिरपि प्रसिद्धाः सन्ति । तथा बौद्धपरम्परायामपि क्रममेनं सूचयन्त्यस्तिस्रः प्रज्ञाः सन्ति । यथा - श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा च । __अथ च यावदेतानि त्रीणि सोपानानि यथावत् सिद्धानि हस्तगतानि च न भवन्ति, तावद् दर्शनस्य साक्षात्कारस्य वा भूमिका कदाऽपि स्पष्टा न भवेत् । अतस्तां स्पष्टीकर्तुमवश्यमेव सम्यक्तया चैतास्तिस्रो भूमिकाः साधनीया। यदा ताः सिद्धा भवन्ति तदा साक्षात्कारप्राप्तौ न कश्चिद् विलम्बो भवितुमर्हति । एवं चैतत् स्पष्टं यद् दर्शनं तत्त्वबोधस्य शिखरं पूर्वोक्ताश्च
Xpe******KRIRINAKARENDRA
76 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org