SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तिस्रो भूमिकास्तस्य क्रमिकाणि त्रीणि सोपानानि । तथा च सिद्धमिदं यत्-तत्त्वचिन्तनं तत्त्वविचारणं तत्त्वजिज्ञासा तत्त्वमीमांसा इत्यादयः शब्दा दर्शनसिद्धेः प्राग् वर्तमाना मानसव्यापारा एव न तु दर्शनं स्वयम् । किन्तु द्रष्टारो हि विरला एव भवन्ति, तज्जिज्ञासवस्तु बहवोऽपि सम्भवन्ति । तत्र च केचित् प्रथमां भूमिकामाश्रिताः, केचित्तु द्वितीयां केचिच्च तृतीयामपि । अतः कारणे कार्योपचारं कृत्वा दर्शनस्य कारणभूतः क्रमिक मानसव्यापारोऽपि लोकव्यवहारे शास्त्रादिषु च दर्शनतयैव व्यवहियते । अस्या दीर्घचर्चाया मुख्य उद्देशो हि दर्शन-चिन्तनादिशब्दानामर्थच्छायाया यथावज्ज्ञानमेव । येन वयं यथार्थतया-किं दर्शनं? किं चिन्तनं ? किं मननम् ? इत्यादिकं-सम्यक्तयाऽवबुध्यामहे । यतो बहुशो वयं केवलं श्रवण-मनन-निदिध्यासनादिकमेव दर्शनतया गृहीत्वा तदाश्रयमेव चाऽन्तिम सत्यमिति प्रतिपद्य सन्तुष्टा भवामः, अन्यैर्वा सह मतभेदेन दुराग्रहं धारयामः ।। वस्तुतस्तु दर्शनं योगिज्ञानमेव यद् ऋतम्भरा प्रज्ञा, कैवल्यं, केवलज्ञानं केवलदर्शनं इत्याद्यभिधानैर्विविधासु परम्परासु प्रसिद्धमस्ति । सहैव तासु तासु परम्परासु एतादृशा दर्शनेन विनाऽपि तत्तत् तत्त्वदर्शनं प्रति धार्यमाणं दृढं श्रद्धानमपि दर्शनेत्वेनैव व्यवह्रियते । तथाऽपि अतीन्द्रियवस्तूनां साक्षाद् दर्शनं विना केवलं श्रद्धानरूपं दर्शनं तु गौणं व्यावहारिकं परोक्षं वैव दर्शनं न तु प्रधानं प्रत्यक्षं नैश्चयिकं वा दर्शनम् ।। तथा, इदमपि चिन्त्यमत्र यदध्यात्मविद्यानिरूपकाणि दर्शनशास्त्राणि प्रायशः श्रवण-मनन-चिन्तनकोटिकं कदाचिच्च निदिध्यासनकोटिकमेव तत्त्वं निरूपयन्ति, न तु तदग्रतः किञ्चित् । (यतस्तस्य योगिज्ञानस्वरूपस्य दर्शनस्य निरूपणं हि शब्दातीतं तथाऽनुभवेनैव साक्षात्कर्तुं शक्यम् ।) अतो विचारयामो NRese%ANpNepKINARENDRAKARARNE 77 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy