________________
यदि अत्र, तदा, दर्शनशब्दो मूलतश्चाक्षुषेऽनुभवे, तदनु चक्षुनिरपेक्षे मनोगतेऽतिस्पष्टेऽनुभवे प्रसारं प्राप्तः, ततश्चाऽस्याऽतिस्पष्टमनोगतानुभवस्यैव श्रद्धायां तत्साधकेषु च तर्कोहापोहादिनिरूपकेषु शास्त्रेष्वपि दर्शनशब्दः प्रचलितः ।
ग्रन्थाश्चैते यद्यप्यध्यात्मलक्षिण एव । तथाऽन्तिमयथार्थदर्शनगोचरायां प्रतिपत्तावपि तेषु मतभेदो नाऽस्ति । तथाऽपि यदेतेषु परस्परं मतभेदा विवादा समालोचनानि च दृश्यन्ते तत्राऽपि समाधिरयं यद् यावत् चिन्तनमननकोटिकं निरूपणं भवति तावदेतेषु मतभेदानां सम्पूर्णोऽवकाशोऽस्त्येव । यदा ततोऽपि अग्रेऽतीन्द्रिये तत्त्वे वयं दृष्टिं प्रसारयामस्तदा मतभेदा विवादाश्च स्वयमेवोपशाम्यन्ति । यथार्थदर्शनार्थं च जीवस्य योग्यता विकसति । अध्यात्मविद्यां च प्राप्य जीवः क्रमेण यथार्थदर्शनं प्राप्नोति ॥
XPRESENApkesNResesexexe
टिप्पण्यः १. चक्षुर्वै सत्यम् । चक्षुर्हि वै सत्यम् । तस्माद्यदिदानी द्वौ विवदमानावे
यातामहमदर्शमहमश्रौषमिति । य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तद्वै तत् सत्यम् .....। किं पुनस्तत्सत्यमित्युच्यते ? चक्षुर्वै सत्यम् । कथं चक्षुः सत्यमित्याहप्रसिद्धमेतच्चक्षुर्हि वै सत्यम् । कथं प्रसिद्धतेत्याह- तस्मात् - यद् - यदीदानीमेव द्वौ विवदमानौ विरुद्धं वदमानावेयातामागच्छेतामहमदर्श दृष्टवानस्मीति। अन्य आहाऽहमश्रौषं त्वया दृष्टं न तथा तद्वस्तु-इति । तयोर्य एवं ब्रूयादहमद्राक्षमिति - तस्मा एव श्रद्दध्याम । न पुनर्यो ब्रूयादहमश्रौषमिति । श्रोतुर्मषा श्रवणमपि सम्भवति । न तु चक्षुषो मृषा दर्शनम् । तस्माच्चाऽ श्रौषमित्युक्तवते श्रद्दध्याम । तस्मात् सत्यप्रतिपत्तिहेतुत्वात् सत्यं चक्षुः ।।
(-बृहदारण्यकोपनिषद् - शाङ्करभाष्यम् - ५/१४/४)
78 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org