________________
अनुवादः
RAISERS
दर्शनम्
मुनिकल्याणकीर्तिविजयः दर्शनम् । अस्माकं भाषासु ग्रन्थेषु धर्मशास्त्रेषु सामान्येषु च वार्तालापेषु बहुशो दर्शनं, दार्शनिकं साहित्यं, दार्शनिको विद्वान् इत्यादयः शब्दाः प्रयुज्यन्ते । तथा दर्शनशब्दस्य रूढार्थं वयं तत्त्वविद्यायामध्यात्मविद्यायां वा पर्यवसितं कुर्मः । किन्तु तस्य तात्पर्यं किम् ? यतः चाक्षुषज्ञान-बोधकाद् दृश्-धातोर्निष्पन्नत्वात् दर्शनशब्दस्य प्रचलितो व्युत्पत्तिसिद्धश्चाऽर्थः चक्षुर्जन्ये ज्ञाने एव उपपद्यते ।
एवं चेत् स कथङ्कारं तत्त्वज्ञाने अध्यात्मज्ञाने अतीन्द्रिये वा विज्ञाने प्रयुक्तचर इति चिन्तनीयम् । अस्य समाधिरुपनिषतां सूक्तेभ्यः परोक्षतोऽपि प्राप्येत । तथा हि- उपनिषत्सु हि बहिरिन्द्रियाणां बलाबलविषये शक्तितारतम्यविषये वा विचारं कुर्वता एवं निदिष्टं यत् "चक्षुर्वै सत्यम्" (बृहदारण्यक. ५.१४.४) । कुत्रचित् विषये विवादे जाते तन्निर्णयार्थं साक्षी
आवश्यकः । यदि तदा द्वौ साक्षिणौ उपस्थितौ भवेतां ययोरेकेन केवलं तद्घटना-गोचरं श्रुतमेव स्यात्, अन्येन च सा घटना दृष्टाऽपि स्यात्; तदा श्रुतवतोऽपेक्षया दृष्टवत्येव विश्वस्यते तस्यैव च कथनं सत्यतयाऽङ्गीक्रियते। एवं च श्रवणेन्द्रियापेक्षया चक्षुरिन्द्रियस्यैव प्रामाण्यमिति निश्चितम् । ___तथा चक्षुरेव तादृशमिन्द्रियं यत् सर्वान् चक्षुर्धारिणः सम-विषमयोरुच्चावचयोश्चाऽन्तरं प्रदर्श्य स्खलनात् त्रायते स्थिरतां प्रतिष्ठां वा प्रदत्ते । यदाह "चक्षुर्वै प्रतिष्ठा" (बृहदारण्यक० ६.१.३) ।
74 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org