SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 29 अनुवादः - गुरोमहत्ता * मुनिधर्मकीर्तिविजयः निशि नावं समुद्रे चालयितुमवश्यंतया दीपदण्डस्याऽऽवश्यकताऽस्ति, तथा सोऽपि प्रकाशमानः स्यात् । ** * ** * तथैव जीवनरूपेऽब्धौ आत्मकल्याणस्य दिशं प्रत्यात्मरूपनाव: चालनार्थं गुरुस्वरूपो दीपदण्डोऽत्युपयोग्यस्ति । गुरुः मार्गदर्शकोऽस्ति तथा स एव दीपदण्डरूपोऽप्यस्ति । आत्मा स्वयमात्मकल्याणस्य विशुद्धमार्ग शोधयितुं, केन वा मार्गेण गन्तव्यं इति ज्ञातुम्, तथा च मार्गप्राप्तौ सत्यां तन्मार्गस्योपरि गन्तुमसमर्थोऽस्ति, तत्तु निश्चितमेव । एतादृश्यां स्थित्यां गुरुस्वरूपो मार्गदर्शक एव 'केन मार्गेण गन्तव्य'मिति निर्णयति, स एव मार्गमपि दर्शयति, तथा कदाचिद्वयं मार्गभ्रष्टा भवेम तर्हि स गुरुरेव प्रशस्तमार्गेऽपि स्थापयति । एतादृशो गुरुतुल्यस्य मार्गदर्शकस्य चरणयोरात्मसमर्पणस्य करणे यदि लज्जा भवेत्तर्हि भौतिकदृष्ट्याऽन्यत् सर्वमपि शुभं प्राप्येत तथाऽपि हन्त ! आत्मकल्याणस्य लक्ष्यात्तु वञ्चिता एव भवेम । ___ अदृष्टे मार्गे कमपि विचारमृते मार्गदर्शकमनुसरन्तो वयं गुरुचरणयोः सर्वस्वसमर्पणे किमर्थं विचारयामः ? (अनूदितम्) *** ** * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy