SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ - अध्यात्मसारनुगमः आचार्यधर्मधुरन्धरसूरिः भूमिका | SAROKAROKAR अयि ! विद्याविद्योतितान्तःकरणा विद्वांसः ! ____ अद्य भवत्करकमलयोः अध्यात्मसारानुगमाभिधानं ग्रन्थरत्नमुपदीकृत्य वयं हर्षपूरपरिप्लावितहृदया भवामः । ___ इयमध्यात्मसारानुगमकृतिः, न्यायविशारद-न्यायाचार्य-पूज्योपाध्यायश्रीमद्यशोविजयगणिविरचिताध्यात्मसाराभिधग्रन्थस्य संक्षेपः वर्तते । तस्मिन् एकविंशत्यधिकाराः सन्ति, तदाश्रित्याऽस्मिन् ग्रन्थे प्रकाण्डपाण्डित्योपशोभितपूज्याचार्यश्रीमद्विजयधर्मधुरन्धरसूरीश्वरैः एकविंशतिरष्टकानि रचितानि सन्ति । प्रत्येकाष्टकानि छन्दोवैविध्येन विभूषितानि वर्तन्ते । एतत् छन्दोवैविध्यं खलु विद्वज्जनमनोरञ्जकं प्रतिभाति । ग्रन्थकर्तुः सूरीश्वरस्येदं छन्दःप्रभुत्वमप्याश्चर्यकरं दृश्यते। अष्टकमेकं तु शृङ्खलायमककलितं मनोरमं विरचितं विद्यते तत् सर्वेषां विदुषां चित्तप्रसन्नताधायकं वर्तते । अस्य ग्रन्थस्य रचनायाः पृष्ठभूरेतादृशी वर्तते । वि.सं. २०२३/२४ वर्षे ते पूज्याः पादलिप्तपुरे विराजमाना आसन् । तस्मिन् समये सद्यःप्रकाशितमध्यात्मसारग्रन्थस्य गूर्जरानुवादकलितं पुस्तकं पूज्यश्रीणां करकमलयोः समागतम् । RAM Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy