SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ द्वितीयं दृश्यम् Jain Education International (मलयवती - जीमूतवाहनविवाहो हुतवहसन्निधौ समपद्यत । जीमूतवाहनो वनराजिषु मध्ये पर्णकुटीरमेकं निर्माय तत्र वृद्धमातापित्रोः सेवायां निमग्नस्तौ च सर्वप्रकारैः संतोषयामास । कदाचिदात्रेयेन सह समुद्रतीरे विहरति जीमूतवाहने आत्रेयो राज्यपरिपालनाय जीमूतवाहनेन नियुक्तो राज्यं यथामति निर्वहति स्म । जीमूतवाहनस्याऽरण्यवासेन प्रोत्साहितो मतङ्गो नाम सामन्तराजो यो जीमूतवाहनस्याऽऽज्ञाधारक आसीत् सोऽसौ सेनासमेतो विद्याधरराजधानीं प्रसभमाचक्राम राज्यकोषं च लुण्ठितुं प्रववृते । आत्रेयोऽरण्यवासिनं जीमूतवाहनमुपगम्य युद्धवा शत्रुं परावर्तयितुमाजग्राह । ) जीमूतवाहनः आत्रेय ! युद्धं नाम असंख्याकानां प्रजानां नरमेध एव खलु ? अस्माकं शत्रोश्चोभयोर्महद्विशसनं प्राणहानिर्द्रव्यहानिश्च सम्भवितारः । तन्मे सुतरां नेष्टम् । कामं राज्यं मतङ्ग एव गृह्णातु न्यासरूपेण च राज्यं प्रशासतु । गच्छ ममेदं निश्चयं मतङ्गाय निवेदय । (आत्रेयो जीमूतवाहनस्य आज्ञां शिरसा वहन् प्रतिन्यवर्तत । जीमूतवाहनस्याऽऽशयं मतङ्गाय न्यवेदयत् । स च मतङ्गो राज्यं जीमूतवाहनस्य इष्टमनुसन्धाय, तस्य प्रतिनिधिरूपेण राज्यं निरवाक्षीत् । इतः समुद्रतीरे विहरतोर्जीमूतवाहनात्रेययोरनतिदूरे मलयसानौ गिरिरेकः श्वेतप्रभाभास्वरस्तयोर्दृग्गोचर्यभूत् ।) जीमूतवाहनः पश्य, पश्य सखे ! सानौ तं श्वेतगिरिं उद्यद्भानुचमत्कृतं रजतघनराशिमिव शोभमानम् । 108 For Private & Personal Use Only 000 D www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy